संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
वीरव्रज्या

सुभाषितरत्नकोशः - वीरव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


श्रुत्वा दाशरथी सुवेलकटके सानन्दम् अर्धे धनुष्- टङ्कारैः परिपूरयन्ति ककुभः प्रोञ्छन्ति कौक्षेयकान् ।
अभ्यस्यन्ति तथैव चित्रफलके लङ्कापतेस् तत् पुनर् वैदेहीकुचपत्रवल्लिवलनावैदग्ध्यम् अर्धे कराः ४५.१ ॥१५४२॥

संतुष्टे तिसृणां पुराम् अपि रिपौ कण्डूलदोर्मण्डल- क्रीडाकृत्तपुनःप्ररूढशिरसो वीरस्य लिप्सोर् वरम् ।
याच्ञादैन्यपराञ्चि यस्य कलहायन्ते मिथस् त्वं वृणु त्वं वृण्व् इत्य् अभितो मुखानि स दशग्रीवः कथं कथ्यते ४५.२ ॥१५४३॥

एको भवान् मम समं दश वा नमन्ति ज्याघोषपूरितवियन्ति शरासनानि ।
तल् लोकपालसहितः सह लक्ष्मणेन चापं गृहाण सदृशं क्षणम् अस्तु युद्धम् ४५.३ ॥१५४४॥

रे वृद्धगृध्र किम् अकाण्डम् इह प्रवीर दावानले शलभतां लभसे प्रमत्त ।
लक्पावसानपवनोल्लसितस्य सिन्धोर् अम्भो रुणद्धि किम् उ सैकतसेतुबन्धः ४५.४ ॥१५४५॥
एतौ संघश्रियः ॥

आस्कन्धावधि कण्ठकाण्डविपिने द्राक् चन्द्रहासासिना छेत्तुं प्रक्रमिते मयैव तरसा त्रुट्यछिरासंततौ ।
अस्मेरं गलिताश्रुगद्गदपदं भिन्नभ्रुवा यद्य् अभूद् वक्त्रेष्व् एकम् अपि स्वयं स भगवांस् तन् मे प्रमाणं शिवः ४५.५ ॥१५४६॥

देवो यद्य् अपि ते गुरुः स भगवान् अर्धेन्दुचूडामणिः क्षोणीमण्डलम् एकविंशतिम् इदं वाराञ् जितं यद्य् अपि ।
द्रष्टव्यो ऽस्य् अमुम् एव भार्गवबटः कण्ठे कुठारं वहन् पौलस्त्यस्य पुरः प्रणामरचितप्रत्यग्रसेवाञ्जलिः ४५.६ ॥१५४७॥

रुद्रादेस् तुलनं स्वकण्ठविपिनच्छेदो हरेर् वासनं कारावेश्मनि पुष्पकस्य च जयो यस्येदृशः केलयः ।
सो ऽहं दुर्जयबाहुदण्डसचिवो लङ्केश्वरस् तस्य मे का श्लाघा घुणजर्जरेण धनुषा कृष्टेन भग्नेन वा ४५.७ ॥१५४८॥

वीरप्रसूर् जयति भार्गवरेणुकैव यत् त्वां त्रिलोकतिलकं सुतम् अभ्यसूत ।
शक्रेभकुम्भतटखण्डनचण्डधामा येनैष मे न गणितो युधि चन्द्रहासः ४५.८ ॥१५४९॥

रामे रुद्रशरासनं तुलयति स्मित्वा स्थितं पार्थिवैः सिञ्जासञ्जनतत्परे ऽवहसितं दत्त्वा मिथस् तालिकाः ।
आरोप्य प्रचलाङ्गुलीकिशलये म्लानं गुणास्फालने स्फाराकर्षणभग्नपर्वणि पुनः सिंहासने मूर्छितम् ४५.९ ॥१५५०॥

पृथ्वि स्थिरा भव भुजंगम धारयैनां त्वं कूर्मराज तद् इदं द्वितयं दधीथाः ।
दिक्कुञ्जराः कुरुत तत्त्रितये दिधीर्षां रामः करोतु हरकार्मुकम् आततज्यम् ४५.१० ॥१५५१॥
राजशेखरस्यामी

लाङ्गूलेन गभस्तिमान् वलयितः प्रोतः शशी मौलिना जीमूता विधुताः शटाभिर् उडवो दंष्ट्राभिर् आसादिताः ।
उत्तीर्णो ऽम्बुनिधिर् दृशैव विषदैस् तेनाट्टहासोर्मिभिर् लङ्केशस्य च लङ्घितो दिशि दिशि क्रूरः प्रतापानलः ४५.११ ॥१५५२॥
अभिनन्दस्य

यो यः कृत्तो दशमुखभुजस् तस्य तस्यैव वीर्यं लब्ध्वा दृप्यन्त्य् अधिकम् अधिकं बाहवः शिष्यमाणाः ।
यद्य् अच्छिन्नं दशमुखशिरस् तस्य तस्यैव कान्तौ संक्रामन्त्याम् अतिशयवती शेषवक्त्रेषु लक्ष्मीः ४५.१२ ॥१५५३॥
मुरारेः

भग्नं देव समस्तवानरभटैर् नष्टं च यूथाधिपैः किं धैर्येण पुरो विलोक्य दशग्रीवो ऽयम् आराद् अभूत् ।
इत्थं जल्पति सम्भ्रमोल्बणमुखे सुग्रीवराजे मुहुस् तेनाकेकरम् ईक्षितं दश शनैर् बाणान् ऋजूकुर्वता ४५.१३ ॥१५५४॥

भ्रमणजवसमीरैः शेरते शालषण्डा मम नखकुलिशाग्रैर् ग्रावगर्भाः स्फुटन्ति ।
अजगरम् अपि चाहं मुष्टिनिष्पिष्टवक्त्रं निजभुजतरुमूलस्यालवालं करोमि ४५.१४ ॥१५५५॥

कृष्टा येन शिरोरुहेषु रुदती पाञ्चालराजात्मजा येनास्याः परिधानम् अप्य् अपहृतं राज्ञां गुरूणां पुरः ।
यस्योरःस्थलशोणितासवम् अहं पातुं प्रतिज्ञातवान् सो ऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः ४५.१५ ॥१५५६॥

कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् ।
मुहुः पश्यञ् श्रुत्वा रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ४५.१६ ॥१५५७॥

हरिर् अलसविलोचनः सगर्वं बलम् अवलोक्य पुनर् जगाम निद्राम् ।
अधिगतपतिविक्रमास्तभीतिस् तु दयितापि विलोकयांचकार ४५.१७ ॥१५५८॥
मेठस्य

भूयः काञ्चनकेनिपातनिकरप्रोत्क्षिप्तदूरोद्गतैर् यत्संख्येषु चकार शीकरकणैर् एव द्विषां दुर्दिनम् ।
किं चाकाण्डकृतोद्यमस् त्रिपथगासंचारिनौकागणो गीर्वाणेन्द्रफणीन्द्रयोर् अपि ददौ शङ्कां विशङ्को ऽपि यः ४५.१८ ॥१५५९॥
नरसिंहस्य

मैनाकः किम् अयं रुणद्धि गगने मन्मार्गम् अव्याहतं शक्तिस् तस्य कुतः स वज्रपतनाद् भीतो महेन्द्राद् अपि ।
तार्क्ष्यः सो ऽपि समं निजेन विभुना जानाति मां रावणं विज्ञातं स जटायुर् एष जरसा क्लिष्टो वधं वाञ्छति ४५.१९ ॥१५६०॥

पुत्रस् त्वं त्रिपुरद्रुहः पुनर् अहं शिष्यः किम् एतावता तुल्यः सो ऽपि कृतस् तवायम् अधिकः कोदण्डदीक्षाविधिः ।
तत्राधारनिबन्धनो यदि भवेद् आधेयधर्मोदयस् तद् भोः स्कन्द गृहाण कार्मुकम् इदं निर्णीयताम् अन्तरम् ४५.२० ॥१५६१॥

द्राङ् निष्पेषविशीर्णवज्रशकलप्रत्युप्तरूढव्रण- ग्रन्थ्युद्भासिनि भङ्गम् ओघम् अघवन् मातङ्गदन्तोद्यमे ।
भर्तुर् नन्दनदेवताविरचितस्रग्दाम्नि भूमेः सुता वीरश्रीर् इव यस्य वक्षसि जगद्वीरस्य विश्राम्यतु ४५.२१ ॥१५६२॥
चेः ॥

इति वीरव्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP