संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
वातव्रज्या

सुभाषितरत्नकोशः - वातव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


उद्दामद्विरदावलूनबिसिनीसौरभ्यसम्भावित- व्योमानः कलहंसकम्पितगरुत्पालीमरुन्मांसलाः ।
दूरोत्तानतरङ्गलङ्घनजलाजङ्घालगर्वस्पृशः कर्पूरद्रवशीकरैर् इव दिशो लिम्पन्ति पम्पानिलाः ३४.१ ॥११२५॥

अन्ध्रीनीरन्ध्रपीनस्तनतटलुठनायासमन्दप्रचाराश् चारून् उल्लासयन्तो द्रविडवरवधूहारिधम्मिल्लभारान् ।
जिघ्रन्तः सिंहलीनां मुखकमलम् अलं केरलीनां कपोलं चुम्बन्तो वान्ति मन्दं मलयपरिमला वायवो दाक्षिणात्याः ३४.२ ॥११२६॥
वसुकल्पस्यैतौ

लतां पुष्पवतीं स्पृष्ट्वा कृतस्नानो जलाशये ।
पुनस् तत्सङ्गशङ्कीव वाति वातः शनैः शनैः ३४.३ ॥११२७॥
विनयदेवस्य

कान्ताकर्षणलोलकेरलवधूधमिल्लमल्लीरजश् चौराश् चोडनितम्बिनीस्तनतटे निष्पन्दताम् आगताः ।
रेवाशीकरधारिणो ऽन्ध्रमुरलस्त्रीमानमुद्राभिदो वाता वान्ति नवीनकोकिलवधूहूंकारवाचालिताः ३४.४ ॥११२८॥
श्रीकण्ठस्य

धुनानः कावेरीपरिसरभुवश् चम्पकतरून् मरुन् मन्दं कुन्दप्रकरमकरन्दान् अवकिरन् ।
प्रियप्रेमाकर्षच्युतरचनम् आमूलसरलं ललाटे लाटीनां लुठितम् अलकं ताण्डवयति ३४.५ ॥११२९॥

वहति ललितमन्दः कामिनीमानबन्धं श्लथयितुम् अयम् एको दक्षिणो दाक्षिणात्यः ।
वितरति घनसारामोदम् अन्तर् धुनानो जलधिजलतरङ्गान् खेलयन् गन्धवाहः ३४.६ ॥११३०॥

भुक्त्वा चिरं दक्षिणदिग्वधूम् इमां विहाय तस्या भयतः शनैः शनैः ।
सगन्धसारादिकृताङ्गभूषणः प्रयात्य् उदीचीं दयिताम् इवानिलः ३४.७ ॥११३१॥

भूषणः
भूषः

वाति व्यस्तलवङ्गलोध्रलवलीकुञ्जः करञ्जद्रुमान् आधुन्वन्न् उपभुक्तम् उक्तमुरलातोयोर्मिमालाजडः ।
स्वैरं दक्षिणसिन्धुकूलकदलीकच्छोपकण्ठोद्भवः कावेरीतटताडिताडनतटत्कारोत्तरो मारुतः ३४.८ ॥११३२॥

चुम्बन्न् आननम् आलुठन् स्तनतटीम् आन्दोलयन् कुन्तलं व्यस्यन्न् अंशुकपल्लवं मनसिजक्रीडाः समुल्लासयन् ।
अङ्गं विह्वलयन् मनो विकलयन् मानं समुन्मूलयन् नारीणां मलयानिलः प्रिय इव प्रत्यङ्गम् आलिङ्गति ३४.९ ॥११३३॥

अलीनां मालाभिर् विरचितजटाभारमहिमा परागैः पुष्पाणाम् उपरचितभस्मव्यतिकरः ।
वनानाम् आभोगे कुसुमवति पुष्पोच्चयपरो मरुन् मन्दं मन्दं विचरति परिव्राजक इव ३४.१० ॥११३४॥

शष्पश्यामलितालवालनिपतत्कुल्याजलप्लावित- क्रीडोद्याननिकेतनाजिरजुषाम् अस्पृष्टभूरेणवः ।
सुप्तं सम्प्रति बोधयन्ति शनकैश् चेतोभुवं कामिनां प्रत्यग्रस्फुटमल्लिकासुरभयः सायंतना वायवः ३४.११ ॥११३५॥
अचलसिंहस्य

अद्याभोगिनि गाढमर्मनिवहे हर्माग्रवेदीजुषां सद्यश् चन्दनशोषिणि स्तनतटे सङ्गे कुरङ्गीदृशाम् ।
प्रायः प्रश्लथयन्ति पुष्पधनुषः पुष्पाकरे निष्ठिते निर्वेदं नवमल्लिकासुरभयः साय्ंनया वायवः ३४.१२ ॥११३६॥
शतानन्दस्य

शिशिरशीकरवाहिनि मारुते चरति शीतभयाद् इव सत्वरः ।
मनसिजः प्रविवेश वियोगिनी- हृदयम् आहितशोकहुताशनः ३४.१३ ॥११३७॥
कुमारदासस्य

दीर्घान् मुक्तः सपदि मलयाधित्यकायाः प्रसङ्गाद् आविष्कुर्वन् प्रणयपिशुनं सौरभं चन्दनस्य ।
मन्दं मन्दं निपतति चिराद् आगतो माधवीषु व्याकुर्वाणो भयम् इव परं दाक्षिणो गन्धवाहः ३४.१४ ॥११३८॥
मधुशीलस्य

प्रभाते सन्नद्धस्तनितमहिमानं जलधरं स्पृशन्तः सर्वत्र स्फुटितवनमल्लीसुरभयः ।
अमी मन्दं मन्दं सुरतसमरश्रान्ततरुणी- ललाटस्वेदाम्भःकणपरिमुषो वान्ति मरुतः ३४.१५ ॥११३९॥

सुरतभरखिन्नपन्नगविलासिनीपानकेलिजर्जरितः ।
पुनर् इह विरहिश्वासैर् मलयमरुन् मांसलीभवति ३४.१६ ॥११४०॥

एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलि- क्लिष्टापीनस्तनपरिसरखेदसम्पद्विपक्षाः ।
वान्ति स्वैरं सरसि सरसि क्रोडदंष्ट्राविमर्द- त्रुट्यद्गुन्द्रापरिमलगुणग्राहिणो गन्धवाहाः ३४.१७ ॥११४१॥

नाधन्यैः शङ्खपाणेः क्षणधृतगतयः प्रांशुभिश् चन्द्रकान्त- प्रासादैर् द्वारकायां तरलितचरमाम्भोधिनीराः समीराः ।
सेव्यन्ते नित्यमाद्यत्करिकाठिनकरास्फालकालप्रबुद्ध- क्रुध्यत्पञ्चाननाग्रध्वनिभरविगलद्गुग्गुलूद्गारगर्भाः ३४.१८ ॥११४२॥

हिमस्पर्शाद् अङ्गे घनपुलकजालं विदधतः पिकत्रोटीत्रुट्यद्विकचसहकाराङ्कुरलिहः ।
अमी स्वैरं स्वैरं मलयमरुतो वान्ति दिनजं दिनापाये चक्षुःक्लमम् अपहरन्तो मृगदृशाम् ३४.१९ ॥११४३॥

अयम् उषसि विनिद्रद्राविडीतुङ्गपीन- स्तनपरिसरसान्द्रखेदबिन्दूपमर्दी ।
स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यो वहति सखि भुजङ्गीभुक्तशेषः समीरः ३४.२० ॥११४४॥

ये दोलाकेलिकाराः किम् अपि मृगदृशां मन्युतन्तुच्छिदो ये सद्यः शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रये ऽपि ।
ते कण्ठे लोठयन्तः परभृतवयसां पञ्चमं रागराजं वान्ति स्वैरं समीराः स्मरविजयमहासाक्षिणो दाक्षिणात्याः ३४.२१ ॥११४५॥
राजशेखरस्य

दरोन्मीलच्चूडप्रकरमुकुलोद्गारसुरभिर् लतालास्यक्रीडाविधिनिबिडदीक्षापरिचयः ।
विभिन्दन्न् उद्यानान्य् अतनुमकरन्दद्रवहर- श्रमस्वैरो वायुर् मनसिजशरैर् जर्जरयति ३४.२२ ॥११४६॥

श्रान्ताश् चूतवनानि कुञ्जपटलप्रेङ्खोलनाद् उन्मिषन्- मल्लीकुड्मलसान्द्रसौरभसरित्संस्यन्दशृङ्गारिणः ।
एते संवसथोपकण्ठविलसद्वृष्ट्यम्बुवीचीचयोन्- मीलद्बालतुषारशीकरकिरः क्रीडन्ति झञ्झानिलाः ३४.२३ ॥११४७॥
बुद्धाकरगुप्तस्य

इति वातव्रज्या

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP