संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
दूतिकोपालम्भव्रज्या

सुभाषितरत्नकोशः - दूतिकोपालम्भव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


निःशेषच्युतचन्दनं स्तनतटो निर्यातराजो ऽधरो नेत्रे दूरम् अनञ्जने जललवप्रस्यन्दिनी ते तनुः ।
आशाच्छेदिनि दूति बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुम् इतो गतासि न पुनस् तस्याधमस्यान्तिकम् २५.१ ॥८३७॥

किं त्वं निगूहसे दूति स्तनौ वक्त्रं च पाणिना ।
सव्रणा एव शोभन्ते शूराधरपयोधराः २५.२ ॥८३८॥

साधु दूति पुनः साधु कर्तव्यं किम् अतः परम् ।
यन् मदर्थे विलग्नासि दन्तैर् अपि नखैर् अपि २५.३ ॥८३९॥

विहारः कण्ठदेशस् ते काषाये तव लोचने ।
अधरौ वीतरागौ ते दूति प्रव्रजितासि किम् २५.४ ॥८४०॥

दूति किं तेन पापेन शास्त्रातिक्रमकारिणा ।
पञ्च पञ्चनखा भक्ष्याः षष्ठी त्वं येन खादिता २५.५ ॥८४१॥

नायातः सामदानाभ्याम् इति भेदे ऽपि दर्शिते ।
साधु यद् दुर्विनीतस्य त्वया दण्डो निपातितः २५.६ ॥८४२॥

अनेन वीतरागेण बुद्धेनेवाधरेण ते ।
दूति निर्व्याजम् आख्याता सर्ववस्तुषु शून्यता २५.७ ॥८४३॥

पार्श्वाभ्यां सप्रहाराभ्याम् अधरे व्रणखण्डिते ।
दूति संग्रामयोग्यासि न योग्या दूतकर्मणि २५.८ ॥८४४॥

त्वया दूति कृतं कर्म यत् तद् अन्येन दुष्करम् ।
शरणागतविध्वंसी छिद्रान्वेषी निपातितः २५.९ ॥८४५॥

क्षामा तनुर् गतिः खिन्ना नेत्रे व्यालोकतारके ।
वाग् अस्पष्टा श्लथं वासो दूति त्वं ज्वरितासि किम् २५.१० ॥८४६॥

रजन्याम् अन्यस्यां सुरतपरिवर्ताद् अनुचितं मदीयं यद् वासः कथम् अपि हृतं तेन सुहृदा ।
त्वया प्रीत्यानीतं स्वनिवसनदानात् पुनर् इदं कुतस् त्वादृग् दूति स्खलितशमनोपायनिपुणा २५.११ ॥८४७॥

नायातो यदि तादृशं स शपथं कृत्वापि दूति प्रियस् तत् किं कोपनया त्वया स्वदशनैर् अग्राधरः खण्डितः ।
स्वेदाम्भःकणदायि वेपनम् इदं त्यक्त्वा भज स्वस्थतां को लोकस्य सखि स्वभावकुटिलस्यान्तर्गतं ज्ञास्यति २५.१२ ॥८४८॥

रोमाञ्चं वहसि श्वसिष्य् अविरतं ध्यानं किम् अप्य् आश्रिता दृष्टिस् ते भ्रमति प्रकम्पचपले व्यक्तं च ते शीत्कृतम् ।
तं लब्ध्वा खलु बन्धकीव सुरतव्यापारदक्षं जनं किं दूति ज्वरितासि पापम् अथवा स्पृष्ट्वा भवन्त्य् आपदः २५.१३ ॥८४९॥

श्वासः किं त्वरिता गतिः पुलकिता कस्मात् प्रसाद्यागता वेणी भ्रश्यति पादयोर् निपतनात् क्षामा किम् इत्य् उक्तिभिः ।
स्वेदार्द्रं मुखम् आतपेन गलिता नीवी गमाद् आगमाद् दूति म्लानसरोरुहद्युतिमुषः स्वौष्ठस्य किं वक्ष्यसि २५.१४ ॥८५०॥

अधरेणोन्नतिभाजा भुजङ्गपरिपीडितेन ते दूति ।
संक्षोभितं मनो मे जलनिधिर् इव मन्दरागेण २५.१५ ॥८५१॥

सद्भावोपगता समप्रणयिनी दाराः परस्येति वा दूते रागपराभवः क्रियत इत्य् एतन् न मीमांसितम् ।
येनाम्भोरुहसंनिभस्य वदनस्यापाण्डुता ते कृता दूति भ्रष्टगुणस्य तस्य निलयं स्वप्ने ऽपि मा गाः पुनः २५.१६ ॥८५२॥

स्वकार्यबुद्ध्यैव सदा मदर्थे दूति प्रवृत्तिं प्रतिपालयन्त्या ।
त्वया फलेनैव विभावितो ऽयं मया सहाभिन्नशरीरवादः २५.१७ ॥८५३॥
वित्तोकस्य

इति दूतीकोपालम्भव्रज्या

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP