काव्यमीमांसा - पञ्चदशो ऽध्यायः

संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।


गुणसमयस्थापना असतोगुणस्य निबन्धनम् ।
यथा-यशोहासप्रभृतेः शौक्ल्यम्, अयशसः पापप्रभृतेश्च कार्ष्ण्यं, क्रोधानुरागप्रभृतेश्च रक्तत्वम् ।
तत्र यशःशौक्ल्यम्- "स्तेमः स्तोको ऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्तिर् मध्येक्षीराब्धि मग्नाः स्फुटमथ च वयं को ऽयमीदृक्प्रकारः ।
इत्थं दिग्भित्तिरोधःक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुःस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः" ॥

हासशौक्ल्यम्- "अट्टहासच्छलेनास्याद्यस्य फेनौघपाण्डुराः ।
जगत्क्षय इवापीताः क्षरन्ति क्षीरसागराः" ॥

अयशः कृष्णत्वम् - "प्रसरन्ति कीर्त्तयस्ते तव च रिकूणामकीर्त्तयो युगपत् ।
कुवलयदलसंवलिताः प्रतिदिनमिव मालतीमालाः" ॥

पापकार्ष्ण्यम्- "उत्खातनिर्मलमयूखकृपाणलेखाश्यामायिता तनुरभूद्धयकन्धरस्य ।
सद्यः प्रकोपकृतकेशववंशनाशसङ्कल्पसज्जनितपापमलीमसेव" ॥

क्रोधरक्तता- "आस्थानकुट्टिमतलप्रतिबिम्बितेन कोपप्रभाप्रसरपाटलविग्रहेण ।
भौमेन मूर्च्छितरसातलकुक्षिभाजा भूमिश्चचाल चलतोदरवर्त्तनेव" ॥

अनुरागरक्तता यथा- "गुणानुरागमिश्रेण यशसा तव सर्पता ।
दिग्वधूनां मुखे जातमकस्मादर्ध्दकुङ्कुमम्" ॥

सतो ऽपि गुणस्यानिबन्धनम्, (यथा)- कुन्दकुड्मलानां कामिदन्तानां च रक्तत्वं, कमलमुकुलप्रभृतेश्च हरितत्वं, प्रियङ्गुषुष्पाणां च पीतत्वम् ।
कुन्दकुड्मलाद्यरक्तता- "द्योतितान्तः सभैः कुन्दकुड्मलाग्रदतः स्मितैः ।
स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती" ॥

पद्ममुकुलाहरितत्वम्- "उद्दण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया मग्नां लावणसैन्धवे ऽम्भसि महीमुद्यच्छतो हेतया ।
तत्कालाकुलदेवदानवकुलैरुत्तालकोलाहलं शौरेरादिवराहलीलमवतादभ्रंलिहाग्रं वपुः" ॥

प्रियङ्गुपुष्पापीतत्वम्- "प्रियङ्गुश्याममम्भोधिरन्ध्रणां स्तनमण्जलम् ।
अलङ्कर्तुमिव स्वच्छाः सूते मौक्तिकसम्पदः" ॥

गुणनियमस्तु तद्यथा-सामान्योपादाने माणिक्यानां शोणता, पुष्पाणां शुक्लता, मेघानां शुक्लता, मेघानां कृष्णता च ।
तत्र प्रथमः- "सांयात्रिकैरविरतोपहृतानि कूटैः श्यामासु तीरघनराजिषु सम्भृतानि ।
रन्तानि ते दधति कञ्चिदिहायताक्षि मेधोदरोदितदिनाधिपबिम्बशङ्काम्" ॥

पुष्पशुक्लता- "पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततो ऽनुकुर्याद्विशदस्य तस्यास्ताभ्रौष्ठपर्यस्तरुचः स्मितस्य" ॥

मेघकार्ष्ण्यम्- "मेघश्यामेन रोमेण पूतवेदिर्विमानराट् ।
मध्ये महेन्द्रनीलेन रत्नराशिरिवावभौ" ॥

कृष्णनीलयोः, कृष्णहरितयोः, कृष्णश्यामयोः, पीतरक्तयोः, शुक्लगौरयोरेकत्वेन निबन्धनं च कविसमयः ।
कथं कृष्णनीलयोरैक्यम्- "नदीं तूर्णं कर्णोप्यनुसृतपुलिनां दाक्षिणात्याङ्गनाभिः समुत्तीर्णो वर्णामुभयतटचलाबद्धवानीरहारम् ।
ततः सह्यस्योच्चैः स्वसलिलनिवहो भाति नीलः स यस्याः प्रियस्यांसे पीने लुलित इव घनः केशपाशः सुकेश्याः" ॥

कृष्णहरितयोरैक्यम्- "मरकतसदृशं च यामुनं स्फटिकशिलाविमलं च जाह्नवम् ।
तदुभयमुदकं पुनातु वो हरिहरयोरिव सङ्गतं वपुः" ॥

कृष्णश्यामलयोरैक्यम्- "एतत्सुन्दरि नन्दनं शशिमणिस्निग्धालवालद्रुमं मन्दाकिन्यभिषिक्तमौक्तिकशिले मेरोस्तटे नन्दति ।
यत्र श्यामनिशासु मुञ्चति मिलन्मन्तः प्रदोषानिलाम् उद्दामामरयोषितामभिरतं कल्पद्रुमश्चन्द्रिकाम्" ॥

पीतरक्तयोरैक्यम् - "लेखया विमलविद्रुमभासा सन्ततं तिमिरमिन्दुरुदासे ।
दंष्ट्रया कनकभङ्गपिशङ्ग्या मण्डलं भुव इवादिवराहः" ॥

शुक्लगौरयोरैक्यम् - "कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतष्ठम् ।
अवेहि मां किङ्करमष्टमूर्त्तेः कुम्भोदरं नाम निकुम्भपुत्रम्" ॥

एवं वर्णान्तरेष्वपि ।
चक्षुरादेरनेकवर्णोपवर्णनम् ।
तत्र चक्षुषः शुक्लता- "तिष्ठन्त्या जनसङ्कुले ऽपि सुदृशा सायं गृहप्राङ्गणे तद्द्वारं मयि निःसहालसतनौ वीङ्खामृदु प्रेङ्खति ।
हीनभ्राननयैव लोलसरलं निःश्वस्य तत्रान्तरे प्रेमार्द्राः शशिखण्डपाण्डिममुषो मुक्ताः कटाक्षच्छटाः" ॥

श्यामता- "अथ पथि गमयित्वा रम्यकॢत्पोपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्पः ।
पुनरविशदयोध्यां मैथिलीदर्शिनीनां कुवलयितगवाक्षां लोचनैरङ्गनानाम्" ॥

कृष्णता- "पादन्यासक्वणितरशनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ।
वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दू-नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान्" ॥

मिश्रवर्णता- "तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्योत्क्षेपादुपरि विलसत्कृष्णशारप्रभाणाम् ।
कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम्" ॥

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे गुणसमयस्थापना पञ्चदशो ऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP