काव्यमीमांसा - सप्तमो ऽध्यायः

संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।


वाक्यविधयः
वाक्यविधयः, काकुप्रकाराः, पाठप्रतिष्ठा वाक्यं वचनमिति व्यवहरन्ति ।
तच्च त्रिधा प्रणेतृभेदेन ब्राह्यं, शैवं, वैष्णवमिति ।
तदिदं वायुप्रोक्तपुराणादिभ्य उपलब्धं यदुत ब्राह्यं वचः पञ्चधा स्वायम्भुवमैश्वरमार्षमार्षीकपुत्रकं च ।
स्वयम्भूर्ब्रह्मा तस्य स्वायम्भुवम् ।
तन्मनोजन्मानो भृगुप्रभृतयः पुत्रास्ते ईश्वरास्तेषामैश्वरम् ।
ईश्वराणां सुता ऋषयस्तेषामार्षम् ।
ऋषीणामपत्यानि ऋणीकास्तेषामार्षीकम् ।
ऋषीकाणां सूनव ऋषिपुत्रकास्तेषामार्षिपुत्रकम् ।
स्वयम्भुवः प्रथमं वचः श्रुतिः, श्रुतेरन्यञ्च स्वायम्भुवम् ।
तदाहुः- "सर्वभूतात्मकं भूतं परिवादं च यद्भवेत् ।
क्वचिन्निरुक्तमोक्षार्थं वाक्यं स्वायम्भुवं हि तत्"  ॥
तदेव स्तोकरुपान्तरपरिणतमैश्वरं वचः ।
उक्तञ्च- "व्यक्तक्रममसंक्षित्पं दीत्पगम्भीरमर्थवत् ।
प्रत्यक्षं च परोक्षं च लक्ष्यतामैश्वरं वचः"  ॥
आर्षम्- "यत्किञ्चिन्मन्त्रसंयुक्तं युक्तं नामविभक्तिभिः ।
प्रत्यक्षाभिहितार्थं च तदृषोणां वचः स्मृतम्"  ॥
आर्षीकम्- "नैगमैर्विविधैः शब्दैर्निपातबहुलं च यत् ।
न चापि सुमहद्वाक्यमृषीकाणां वचस्तु तत्"  ॥
आर्षिपुत्रकम्- "अविस्पष्टपदप्रायं यच्च स्याद्वहुसंशयम् ।
ऋषिपुत्रवचस्तत्स्यात् ससर्वपरिदेवनम्"  ॥
तदुदाहरणानि पुराणेभ्य उपलभेत ।
सारस्वताः कवयो नः पूर्वे इत्थङ्कारं कथयन्ति ।
ब्रह्मविष्णुरुद्रगुहबृहस्पतिभार्गवादिशिष्येषु चतुःषष्टावुपदिष्टं वचः पारमेश्वरम् ।
क्रमेण च सञ्चरद्देवैर्देवयोनिभिश्च यथामत्युपजीव्यमानं दिव्यमिति व्यपदिश्यते ।
देवयोनयस्तु- "विद्याधरोप्सरोयक्षरक्षोगन्धर्वकिन्नराः ।
सिद्धगुह्यकभूताश्च पिशाचा देवयोनयः"  ॥
तत्र पिशाचादयः शिवानुचराः स्वभूमौ संस्कृतवादिनः, मर्त्ये तु भूतभाषया व्यवहरन्तो निबन्धनीयाः ।
अत्सरसस्तु प्राकृतभाषया ।
तद्दिव्यं वचश्चतुर्द्धा ।
वैबुधं वैद्याधरं गान्धर्वं योगिनीगतं च ।
शेषाणामेतेष्वेवोपलक्षणं प्रकृतिसादृश्येन ।
तत्र वैबुधम्- "समासव्याससंदृब्धं शृङ्गाराद्भुतसम्भृतम् ।
सानुप्रासमुदारं च वचः स्यादमृताशिनाम्"  ॥
यथा- "यञ्चन्द्रकोटिकरकोरकभारभाजि बभ्राम बभ्रुणि जटाकुहरे हरस्य ।
तद्वः पुनातु हिमशैलशिलानिकुञ्ज-भ्फात्कारडम्बरविरावि सुरापगाम्भः  ॥
" वैद्याधरम्- "स्तोकानुप्राससच्छायं चतुरोक्ति प्रसादि च ।
द्राधीयसा समासेन विद्धि वैद्याधरं वचः  ॥
" यथा- "प्रणतसुरकिरीटप्रांशुरत्नांशुवंशच्छुरित-नखशिखाग्रोद्भासमानारुणाङ्घ्रे ।
उदिततरणिवृन्दोद्दामधामोर्ध्वनेत्र-ज्वलननिकरदग्धानङ्गमूर्ते नमस्ते"  ॥
यथा वा- "भ्रमति भ्रमरकरविम्बतनन्दरवनचम्पकस्तबकगौरः ।
वात्याहत इव वियति स्फुटलक्ष्मा रोहणीरमणः"  ॥
गान्धर्वम्- "ह्रस्वैः समासैर्भूयोभिर्विभूषितपदोच्चया ।
तत्त्वार्थग्रथनग्राह्या गन्धर्वाणां सरस्वती"  ॥
यथा- "नमः शिवाय सोमाय सगणाय ससूनवे ।
सवृषव्यालशूलाय सकपालय सेन्दवे"  ॥
योगिनीगतम्- "समासरुपकप्रायं गम्भीरार्थपदक्रमम् ।
सिद्धान्तसमयस्थायि योगिनीनामिदं वचः"  ॥
यथा- "दुःखेन्धनैकदहनामृतवर्शषमेघ? संसारकूपपतनैकरावलंब? ।
योगीन्द्रदर्पण? जगद्गतकृत्स्नतेजः-प्रत्यक्षचौरवर? वीरपते? नमस्ते"  ॥
महाप्रभावत्वाद्भौजङ्गममपि दिव्यमित्युपचर्यते ।
"प्रसन्नमधुरोदात्तसमासव्यासभागवत् ।
अनोजस्विपदप्रायं वचो भवति भोगिनाम्"  ॥
यथा- "सुसर्जितां श्रोतसुखां सुरुपामनेकरत्नोज्ज्वलचित्रिताङ्गीम् ।
विद्याधरेन्द्रः प्रतिगृह्य वीणां पिनाकिने गायति मङ्गलानि"  ॥
"किमर्थं पुनरनुपदेश्ययोर्ब्राह्यपारमेश्वरयोर्वाक्यमार्गयोरुपमन्यासः?" इत्याचार्याः ।
"सो ऽपि कवीनामुपदेशपरः" इति यायावरीयः ।
यतो नाटकादावीश्वरादीनां देवानां च प्रवेशे तच्छायावन्ति वाक्यानि विधेयानीति दिव्यम् ।
इह हि प्रयोवादो यदुत मर्त्यावतारव्यवहाररुचेर्भगवतो वासुदेवस्य वचो वैष्णवं तन्मानुषमिति व्यपदिशन्ति ।
तच्च त्रिधा रीतित्रयभेदेन ।
तदाहुः- "वैदर्भी गौडीया पाञ्चाली चेति रीतयस्तिस्रः ।
आशु च साक्षान्निवसति सरस्वती तेन लक्ष्यन्ते"  ॥
रीतिरुपं वाक्यत्रितयं काकुः पुनरनेकयति ।
"काकुर्वक्रोक्तिर्नाम शब्दालङ्कारोयम्" इति रुद्रटः  ॥
"अभिप्रायावान्पाठधर्मः काकुः, स कथमलङ्कारी स्यात्?" इति यायावरीयः ।
सा च द्विधा साकाङ्क्षा निराकाङ्क्षा च ।
वाक्यान्तराकाङ्क्षिणी साकाङ्क्षा, वाक्योत्तरभाविनी निराकाङ्क्षा ।
तदेव वाक्यं काकुविशेषेण साकाङ्क्षम् ।
तदेव काकुमन्तरेणनिराकाङ्क्षम् ।
आक्षेपगर्भा, प्रश्नगर्भा, वितर्कगर्भा चेति साकाङ्क्षा ।
विधिरुपा, उत्तररुपा, निर्णयरुपेति निराकाङ्क्षा ।
तत्राक्षेपगर्भा- "यदि मे वल्लभा दूती तदाहमपि वल्लभा ।
यदि तस्याः प्रिया वाचः तन्ममापि प्रियप्रियाः"  ॥
एवमेव निर्देष्टुर्विधिरुपा ।
प्रश्नगर्भा- "गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु ।
वर्त्तन्ते साम्प्रतं तासां हेतवः शुक्तिसम्पुटाः"  ॥
इयमेवोपदेष्टिरुत्तररुपा ।
वितर्कगर्भा- "नवजलधरः सन्नद्धो ऽयं न दृत्पनिशाचरः सुकधनुरिदं दूराकृष्टं न नाम शरासनम् ।
अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी"  ॥
इयमेवोपदेष्टुर्निर्णयरुपा ।
ता इमास्तिस्रो ऽपि नियतनिबन्धाः ।
तद्विपरीताः पुनरनन्ताः ।
तत्राभ्युपगमानुनयकाकू- "युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं प्रात्पा नाम विगर्हणा स्थितिमतां मध्ये ऽनुजामामपि ।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव"  ॥
अभ्यनुज्ञोपहासकाकू- "मथ्नामि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पुबाम्युरस्तः ।
सञ्चूर्णयामि गदया न सुयोधनोरु सन्धिं करोतु भवतां नृपतिः पणेन"  ॥
एवं त्रिचतुरकाकुयोगो ऽपि ।
तत्र त्रियोगः- "सेयं पश्यति नो कुरङ्गकवधूस्त्रस्तैवमरद्वीक्षते तस्याः पाणिरयं न मारुतवलत्पत्राङ्गुलिः पल्लवः ।
तारं रोदिति सैव नैष मरुता वेणुः समापूर्यते सेयं मामभिभाषते प्रियतमा नो कोकिलः कूजति"  ॥
चदुर्योगः- "उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि सार्ध्वी ।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः"  ॥
"सख्या वा नायिकाया वा सखीनायिकयोरथ ।
सखीनां भूयसीनां वा वाक्ये काकुरिह स्थिता"  ॥
पदवाक्यविदां मार्गो यो ऽन्यथैव व्यवस्थितः ।
स त्वाङ्गाभिनयद्योत्या तं काकुः कुरुते ऽन्यथा  ॥
अयं काकुकृतो लोके व्यवहारो न केवलम् ।
शास्त्रेष्वप्यस्य साम्राज्यं काव्यस्याप्येष जीवितम्  ॥
कामं विवृणुते काकुरर्थान्तरमतन्द्रिता ।
स्फुटीकरोति तु सतां भावाभिनयचातुरीम्  ॥
इत्थं कविर्निबध्नीयादित्थं च मतिमान्पठेत् ।
यथा निबन्धनिगदश्छायां काञ्चिन्निषिञ्चति  ॥
करोति काव्यं प्रायेण संस्कृतात्मा यथा तथा ।
पठितुं वेत्ति स परं यस्य सिद्धा सरस्वती  ॥
यथा जन्मान्तराभ्यासात्कण्ठे कस्यापि रक्तता ।
तथैव पाठसौन्दर्यं नैकजन्मविनिर्मितम्  ॥
ससंस्कृतमपभ्रंशं लालित्यालिङ्गितं पठेत् ।
प्राकृतं भूतभाषां च सौष्ठवोत्तरमुद्गिरेत्  ॥
प्रसन्ने मन्द्रयोद्वाचं तारयेत्तद्विरोधिनि ।
मन्द्रतारौ च रचयेन्निर्वाहिणि यथोत्तरम्  ॥
ललितं काकुसमन्वितमुज्ज्वलमर्थवशकृतपरिच्छेदम् ।
श्रुतिसुखविविक्तवर्णं कवयः पाठं प्रशंसन्ति  ॥
अतितूर्णमतिविलम्बितमुल्बणनादं च नादहीनं च ।
अपदच्छिन्नमनावृतमतिमृदुपरुषं च निन्दन्ति  ॥
गम्भीरत्वमनैश्चर्यं निर्व्यूढिस्तारमन्द्रयोः ।
संयुक्तवर्णलावण्यमिति पाठगुणाः स्मृताः  ॥
यथा व्यघ्री हरेत्पुत्रान् दंष्ट्राभिश्च न पीडयेत् ।
भीता पतनभेदाभ्यां तद्वदूर्णान्प्रयोजयेत्  ॥
विभक्तयः स्फुटा यत्र समासश्चाकदर्थितः ।
अम्लानः पदसन्धिश्च तत्र पाठः प्रतिष्ठितः  ॥
न व्यस्तपदयोरैक्यं न भिदां तु समस्तयोः ।
न चाख्यातपदम्लानिं विदधीत सुधीः पठन्  ॥
आगोपालकमायोषिदास्तामेतस्य लेह्यता ।
इत्थं कविः पठन्काव्यं वाग्देव्या अतिवल्लभः  ॥
ये ऽपि शब्दविदो नैव नैव चार्थविचक्षणाः ।
तेषामपि सतां पाठः सुष्ठु कर्णरसायनम्  ॥
पठन्ति संस्कृतं सुष्ठु कुण्ठाः प्राकृतवाचि तु ।
वाराणसीतः पूर्वेण ये केचिन्मगधादयः"  ॥
आह स्म- "ब्रह्मन्विज्ञापयामि त्वां स्वाधिकारजिहासया ।
गौडस्त्यजतु वा गाथामन्या वास्तु सरस्वती  ॥
नातिस्पष्टो न चाश्लिष्टो न रुक्षो नातिकोमलः ।
न मद्रो नातितारश्च पाठी गौडेषु वाडवः  ॥
रसः को ऽप्यस्तु काप्यस्तु रीतिः को ऽप्यस्तु वा गुणः ।
सगर्वं सर्वकर्णाटाष्टङ्कारोत्तरपाठिनः  ॥
गद्ये पद्ये ऽथवा मिश्रे काव्ये काव्यमना अपि ।
गेयगर्भे स्थितः पाठे सर्वो ऽपि द्रविडः कविः  ॥
पठन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः ।
जिह्वया ललितोल्लापलब्धसौन्दर्यमुद्रया  ॥
सुराष्ट्रत्रवणाद्या ये पठन्त्यर्पितसौष्ठवम् ।
अपभ्रंशावदंशानि ते संस्कृतवचांस्यपि  ॥
शारतायाः प्रसादेन काश्मीरः सुकविर्जनः ।
कर्णो गुडूचीगण्डूषस्तेषां पाठक्रमः किमु ?  ॥
ततः पुरस्तात्कवयो ये भवन्त्युत्तरापथे ।
ते महात्यपि संस्कारे सानुनासिकपाठिनः  ॥
मार्गानुगेन निनदेन निधिर्गुणानां सम्पूर्णवर्णरचनो यतिभिर्विभक्तः ।
पाञ्चालमण्लभ्रुवां सुभगः कवीनां श्रोत्रे मधु क्षरति किञ्चन काव्यपाठः  ॥
ललल्लकारया जिह्वां जर्जरस्फाररेफया ।
गिरा भुजङ्गाः पूज्यन्ते काव्यभाव्यधियो न तु  ॥
पञ्चस्थानमुद्भववर्णेषु यथास्वरुपनिष्पत्तिः ।
अर्थवशेन च विरतिः सर्वस्वमिदं हि पाठस्य"  ॥
सकाकुकलना पाठप्रतिष्टेयं प्रतिष्ठिता ।
अर्थानुशासनस्याथ प्रकारः परिकीर्त्त्यन्ते  ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे सत्पमो ऽध्यायः वाक्यविशेषाः काकुकलना पाठप्रतिष्ठा च  ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:33.8670000