संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुष्षष्टितमः पटलः| मन्त्रसंग्रह ७ चतुष्षष्टितमः पटलः मन्त्रसंग्रह १ मन्त्रसंग्रह २ मन्त्रसंग्रह ३ मन्त्रसंग्रह ४ मन्त्रसंग्रह ५ मन्त्रसंग्रह ६ मन्त्रसंग्रह ७ चतुष्षष्टितमः पटलः - मन्त्रसंग्रह ७ कण्ठभेदविज्ञानविन्यासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मन्त्रसंग्रह ७ Translation - भाषांतर कायकल्पनिरुपणम्नानापीठे त्वसाध्ये च चक्षुरिन्दियवर्जिते ।मनोगम्ये स्थिरो स्वदेहमपि कल्पयेत् ॥३००॥वारानस्यादिपीठे च महाज्वालामुखीपदे ।कुरुक्षेत्रे प्रयागे च दक्षिणे द्वारकादिषु ॥३०१॥हरिद्वारोदये तीर्थे मार्कण्डेये च कापिले ।वृन्दावने गुह्यपीठे गङायमुनयोस्तटे ॥३०२॥पुष्करे पृथिवीतीर्थे कायतीर्थे गयादिषु ।कालकल्पनमाकृत्य श्रद्धावान् पूजयेत्परम् ॥३०३॥सदाशिवं साकिनीशं शाकिनीयोगिनीगणैः ।वेष्टितं परया भक्त्या ध्यात्वा देहं प्रकल्पयेत् ॥३०४॥प्रकल्प्य स्वतनुं तत्र ततो देवस्य कल्पयेत् ।येषां मनसि यद्वयान् तद्धयानं कायकल्पनम् ॥३०५॥एतत्कायकल्पनेन मौनी वाक्सिद्धिमाप्नुयात् ।इदानीं कामदेवस्य मथनं श्रृणु भैरव ॥३०६॥कामदेवस्य मथनं सुखदं मोक्षदं परम् ।यावद् बिन्दुः स्थिरो देहे तावन्मृत्युभयं कुतः ॥३०७॥बिन्दुपाताद्भवेन्नाशस्ततो हि बिन्दुरक्षणम् ।तत्तदौषधमावक्ष्ये येन बिन्दुः स्थिरो भवेत् ॥३०८॥नित्यं सेवनमाकुर्या देतेषां मूलमाहरन् ।श्वेतापराजितामूलं सिद्धिमूलं ततः परम् ॥३०९॥शतपर्णिमूलमेकं कदम्बम्मूलमेव च ।श्वेतकुन्दपुष्पमूलं करवीरं तथाशितम् ॥३१०॥कृष्णधुस्तरमूलं तु सेफालीमूलमेव च ।चितामूलं तथा शम्भो निर्गुण्डीमूलमाहरन् ॥३११॥एकीकृत्य विधानेन रविवारेऽर्कमूलकैः ।समभागेन योगेन्द्र चूर्णीकृत्य पृथक् पृथक् ॥३१२॥शुक्रवारे च पूर्वाहणे मिश्रं कुर्यादिदनत्रयम् ।षड्रात्रि शोधयेत् काममुद्राभिर्वामदेवताः ॥३१३॥मध्यमाङ्गुलिमुत्तोल्य दक्षिणेनापि मुष्टिना ।धृत्वा च शोधयेदादौ द्र्व्यमूलानि साधकः ॥३१४॥विजयाचूर्णयोगेन पिबेच्चूर्णं द्वितोलकम् ।अर्धतोलकमुनैक्यं विजयाः सार्धतोलकाः ॥३१५॥मिश्रीकृत्य विधानेऽपि तत्तत्कुजदिने शुभे ।एतत्प्रभक्षणेनैव मदनं वशमानयेत् ॥३१६॥यदा मनसि आयाति पुष्पधन्वा महाबली ।तदा तं पूजयित्वा च कामदेवं निवारयेत् ॥३१७॥इति कामस्य मथनं देहे व्यवस्थितं श्रृणु ।अङ्गष्ठगुल्फजाजूरुसिमनीलिङुनाभिषु ॥३१८॥ह्रदग्रीवाकण्ठदेशेषु लम्बिकायां तथा नसि ।भ्रूमध्ये मस्तके मूर्ध्नि वाय्वाकाशप्रियालये ॥३१९॥वायुरुपं स्वदेहं तु स्थापयित्वा मनुं जपेत् ।कुम्भकप्राणयोगेन निजदेहव्यवस्थितिः ॥३२०॥कण्ठाम्भोजे स्थिरो यो हि तं जनं श्रृणु भैरव ।योगारम्भावधिर्यो हि स्त्रीसंसर्गं विवर्जयेत् ॥३२१॥मातृणां गमनं नास्ति यस्य स कण्ठसंस्थितः ।नित्यं करोति योगं यो धर्मात्मा स्थिरचेतसा ॥३२२॥स एव कण्ठपद्मे च स्थिरो भवति निश्चितम् ।भावज्ञानी च यो विद्वान् तं विदामि दयार्णव् ॥३२३॥कुण्डलीस्पर्शमात्रेण तन्मयो जायते क्षणात् ।सर्व देवे परं भावं कृत्वा ज्ञानेन पूजयेत् ॥३२४॥सर्वपीठे स्थिरो भूत्वा ज्ञानात्मा परिपूजयेत् ।क्रमेण कण्ठभेदः स्याद् योगी भवति सत्वरम् ॥३२५॥धनं धान्यं धरां धर्मं कीर्तिमायुर्यशः श्रियम् ।तुरगान् दन्तिनः पुत्रान् लोकान् सर्वस्वस्वोदयम् ॥३२६॥एतज्ज्ञानप्रसादेन लभ्यते परमेश्वरम् ॥३२७॥ज्ञात्वा योगेन्द्रचक्रं त्रिभुवनविवरध्वन्तजाल प्रकाशंमूलाम्भोजे रसाख्ये दशदलविमले ह्रत्स्वपद्मे विलासम् ।कण्ठाम्भोजे मनोज्ञे द्विदलस्वकमले भावयन्तं सुरेन्द्रैः श्वेताम्भोजे परेशं निरवधिगगनं पूजये भावयामि ॥३२८॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्र प्रकाशे भैरवीभैरव संवादे कण्ठपद्मभेदविज्ञानविन्यासो नाम चतुष्षष्टितमः पटलः ॥६४॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP