चतुष्षष्टितमः पटलः - मन्त्रसंग्रह २

कण्ठभेदविज्ञानविन्यासः


श्रीकण्ठसञ्चारविधीः
कण्ठे षोडशकं दलं तदुदरे श्रीकर्णिकामण्डले
तद्‌बाह्ये चतुरस्त्रकं सुखमयं षट्‍कोणमन्तर्गतम्‍ ।
बाह्ये द्वारचतुष्टयं नवगृहं भूबिम्बषट्‌कं ततः
श्रीचन्द्रातमूर्ध्वके मधुपुरी तत्कर्णिकायां यजेत्‍ ॥२५॥

तत्कर्णिकामध्यनिगूधदेशे
सम्भाति नित्यं मधुपूरदेशः ।
तन्मध्यदेशेऽष्टपुरीप्रकाशः
कौलक्रियासाधनसिद्धये स्यात्‍ ॥२६॥

पूर्वदिताः प्रेमकलाधिनाथाः
प्रभान्ति माध्वीरसरसारस्निग्धाः ।
तेषां प्रणामः क्रियते यतीन्दै
र्ध्येयाः सदा कण्ठदलप्रकाशः ॥२७॥

वामेश्वरः पूर्वगृहं प्रयाति
राहुर्गृहं ज्येष्ठगणेश्वरीशः ।
रौद्रात्मको मृत्युपतेर्गृहं तथा
कालीश्वरो नैऋतिहेममन्दिरम्‍ ॥२८॥

सकलविकरणीशो वारुणाम मन्दिरं तत्‍
सवनधिकरणीशो पावनः मन्दिरं तत्‍ ।
सबलविमथनीशो मन्दिरं चोत्तरस्थं
समवति निजगेहं सर्वभूताधिदेवः ॥२९॥

मध्यं मनोन्मनीनाथः सर्वालम्भस्तदूर्ध्वकम्‍ ।
मन्दिरं हेमजडितं नानारत्नविनिर्मितम्‍ ॥३०॥

एतेषां शक्तयो ध्येयाः स्वस्ववामपदोज्ज्वलाः ।
तासां नाम्ना योजयित्वा स्वमन्त्रैः प्रणवेन वा ॥३१॥

सम्पुटीकृत्य जप्त्वा च असाध्यं खलु सिद्धयति ।
नवकोणार्ध्वगेहे च पूर्वस्यां दिशि राजते ॥३२॥

वामा देवी महातेजोमयी भुजचतुष्ट्या ।
नानालङ्कारशोभाङी साधकाऽभीष्टदा सदा ॥३३॥

वहनौ हेममन्दिरे च ज्येष्ठा देवी चतुर्भुजा ।
सर्वालङ्कारसंयुक्ता पद्ममालाविराजिता ॥३४॥

ध्येया सदा योगिमुख्यैः सर्वसिद्धिसमृद्धये ।
यमस्वर्णमन्दिरे च रौद्री परमसिद्धिदा ॥३५॥

चतुर्भुजा त्रिनेत्रा च ध्येयालङ्कारमण्डिता ।
नैऋते हेमगेहे च काली देवी चतुर्भुजा ॥३६॥

सर्वालङ्कारशोभाढ्या त्रिनेत्रा वरदायिनी ।
सर्वास्त्रधारिणी देवी मुण्डमालासुशोभिता ॥३७॥

ध्येया योगेन्द्रविद्याभिः परमा ज्ञानदायिनी ।
कलविकरणी देवी भाति वारुणमन्दिरे ॥३८॥

चतुर्भुजा योगिमाता त्रिनेत्रा भरणान्विता ।
सा ध्येया योगिमुख्यैश्च आणिमाद्यसिद्धिदा ॥३९॥

पावने स्वर्णगेहे च ध्येया साधकसत्तमैः ।
बन्धूकपुष्पसङ्काशा केयूरहारमालिनी ॥४०॥

बलविकरणी देवी सर्वाभरणभूषिता ।
चतुर्भुजा त्रिनेत्रा च सर्वादिसिद्धिदायिनी ॥४१॥

बलप्रमथिनी देवी धनदा मोक्षदा सदा ।
कुबेरहेमगेहस्था सर्वानन्दकरोद्यता ॥४२॥

श्रीसर्वभूतदमनी ध्येया ईशानमन्दिरे ।
प्रमारुणसङ्काशा करवीरस्त्रजान्विता ॥४३॥

चतुर्भुजा त्रिनेत्रा च सर्वालङ्कारशोभिता ।
मध्ये श्रीकर्णिकायाश्च ध्येया सर्वजनेश्वरैः ॥४४॥

सूर्यप्रभा सदा ध्येया देवी श्रीदा मनोन्मनी ।
चतुर्भुजा महादीप्तिरलङ्कारोपशोभिता ॥४५॥

त्रिनेत्रा वरदा सर्वा सर्वान्तः करणस्थिता ।
सकलगुणात्मशक्तियुक्ता देवी चतुर्भुजा ॥४६॥

अरुणायुतसङ्काशा रुण्डमलाविराजिता ।
त्रिनेत्रा रक्तवसना सर्वालङ्कमण्डिता ।
एतासां ध्यानमाकृत्य पूजयेद्विधिवत्‍ ततः ॥४८॥

मनः कल्पितद्रव्यैश्च साक्षात्कल्पितद्रव्यकैः ।
जप्त्वा नाम्ना योजयित्वा समर्प्य विधिवत्सुधीः ॥४९॥

कृत्वा मांसासवैर्योगी तर्पयेन्मधुधारया ।
अभिषेकं कुलद्रव्यैः साधकैर्योगिभिः सह ॥५०॥

भोजयेद्‍ योगिमुख्यांश्च ब्राह्मणान्‍ वेदपारगान्‍ ।
नानाविधकुलद्रव्यै र्भक्ष्यैर्भोज्यैश्च योगिराट्‌ ॥५१॥

ततः प्रकाशमाप्नोति मनोयोगेन वार्पयेत्‍ ।
एतत्प्रकारः कण्ठस्य सञ्चारः परमेश्वर ॥५२॥

लभ्यते विधिनानेन दिव्यभावेन वार्पयेत्‍ ।
ततः सिद्धिमवाप्नोति साकिनीदर्शनं तथा ॥५३॥

पत्न्या सार्धं साधकेन्द्रः सिद्धमन्त्रमवाप्नुयात्‍ ।
अथ वक्ष्ये महाकाल राक्षसीं परमां क्रियाम्‍ ॥५४॥

येन कर्मसाधनेन शिवत्वमपि लभ्यते ।
चीनाचारं राक्षसीनां कुलीनानां सदाशिव ॥५५॥

राक्षसी वेदभाषा च वेदमन्त्रविशोधिता ।
चीनाचारं राक्षसीनां साधनादेव सिद्धयति ॥५६॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP