चतुष्षष्टितमः पटलः - मन्त्रसंग्रह ३

कण्ठभेदविज्ञानविन्यासः


राक्षसीक्रियाकथनम्‍
चीनाचारं प्रवक्ष्यामि राक्षसीनां महाफलम्‍ ।
अष्टादश प्रकारन्तु चीनाचारं प्रचक्षते ॥५७॥

सर्वत्र शुद्धसद्‌भावः प्रयोजनविरागवित्‍ ।
उत्तमोत्तमसंज्ञ चात्यन्तानुत्तममेव च ॥५८॥

अत्यन्तोत्तमसंज्ञ चात्यन्तानुत्तममेव च ।
अनुत्तमोत्तमं नाथ चात्युत्तममथापरम्‍ ॥५९॥

उत्तमं सप्तविद्यञ्च चीनाचारेषु योजयेत्‍ ।
अत्यन्ताधमसञ्ज्ञञ्चात्यन्ताधममेव च ॥६१॥

अत्यधमाधमं चैवात्यन्ताधमाधमं तथा ।
अत्यधमं तथा नाथाधमाधममथापरम्‍ ॥६२॥

अधमं सप्तमं विद्धि राक्षसीचीनसाधने ।
दिनपक्षमासवर्षभेदेषु कारयेत्‍ क्रमात्‍ ॥६३॥

आदावृत्तमसिद्धान्तश्रवणं कुरु शङ्कर ।
यदा ऋतुमती पृथ्वी त्रिदिनं चाम्बुवाचिषु ॥६४॥

तदि‌दनात्तु दिनं यावत्तावद्धि मांसचर्वणम्‍ ।
चीनद्रुमासवानन्दपञ्चतत्त्वनिषेवणम्‍ ॥६५॥

अबाधतो यः करोति चोत्तमोत्तमेव तत्‍ ।
अनुत्तमोत्तमं वक्ष्ये पूजाकालेषु योजयेत्‍ ॥६६॥

केवलं गुप्तभावेन पञ्चतत्त्वनिषेवणम्‍ ।
अत्यागं स्वीयबीजं तु कुलपीठस्य मन्थनम्‍ ॥६७॥

तत्पीठमथनोद्‌धृतसुधारसनियोजनम्‍ ।
आसवेषु च सर्वेषु तदासवनिषेवणम्‍ ॥६८॥

अष्टप्रकारमांसाढ्यं सदा चर्वणतत्परम्‍ ।
पूजाकालं विना द्र्व्यं नाहरेत्‍ साधकोत्तमः ॥६९॥

अनुत्तमोत्तमं तद्धि सर्वदेशे च सर्वदा ।
अत्यन्तोत्तमचीनं तु वक्ष्याम्यत्र विधानतः ॥७०॥

येन सिद्धो भवेन्मन्त्री सदाशिवादिदर्शनम्‍ ।
प्रत्यहं वत्सरं व्याप्य निशयामर्धरात्रके ॥७१॥

पञ्चतत्त्वं समानीय अष्टनायिकया सह ।
पूजयेत्‍ क्रमतो मन्त्री तत्कथाश्रवणोत्सुकः ॥७२॥

क्रमेण मथनं कृत्वाऽऽसवे संयोज्य नित्यशः ।
शुद्धभावेन गृहणीयाद्‍ ब्राह्मण्यां बीजमर्पयेत्‍ ॥७३॥

तद्‌बीजेन समासिञ्चेन्मस्तकादिषु पङक्जे ।
दत्वा ताभ्यो दक्षिणादीन्‍ स्वातन्त्र्यमपि चाचरेत्‍ ॥७४॥

अत्यन्तोत्तममेतद्धि न चारम्भो विशां विना ।
अत्यन्तानुत्तमं विद्धि येन सिद्धो भवेन्मनुः ॥७५॥

आनन्दे त्यागमापन्ने पुररानन्दमाश्रयेत्‍ ।
सर्वदानन्दसंयुक्तः प्रजपेद्यजनादिषु ॥७६॥

न विषेषो दिवारात्रौ सर्वदारसंयुतः ।
उक्तासनोपविष्टस्तु निर्जने कुलसाधनम्‍ ॥७७॥

अनुत्तमोत्तमं विद्धि मायाजालनिकृन्तनम्‍ ।
कालाकालं विहायादौ स्वकुलं परमेव वा ॥७८॥

तन्नाम्नाहूय यत्नेन दापयेदासनाद्कम्‍ ।
महाशङ्क समानीय कुलद्रव्यं तथानघ ॥७९॥

विधिना पूजनं कृत्वा कुलवारे च साधकः ।
दाता भोक्ता संविदश्च शोधितस्य कुलेश्वर ॥८०॥

स्वीयाङे न्यासजालादीन्‍ तासामङे ततः परम्‍ ।
शिवपूजां ततः कृत्वा कुलपूजां समारभेत्‍ ॥८१॥

पीठे संयोज्य शम्भुं चाक्षुम्धोऽयुतजपं चरेत्‍ ।
जपं समर्पयेत्‍ तस्या वामहस्ताम्बुजे सुधीः ॥८२॥

विसर्जनं स्वबीजस्य ततो नित्याप्रतर्पणम्‍ ।
आसवे योजयित्वा तु तया सार्धं पिबेन्मधु ॥८३॥

वामभागे कुलं कृत्वा लक्षजाप्यं समापयेत्‍ ।
कुलद्रव्यैश्च होमः स्यात्‍ तद्‌दशांशेन तर्पणम्‍ ॥८४॥

तद्‌दशांशाभिषेक तु दशांशं विप्रभोजनम्‍ ।
ततः कुमारीभोज्य्ञ्च मधुमासासवैः प्रभो ॥८५॥

प्रत्यहं वत्सरं व्याप्य कुलवारे कुजे शनौ ।
वत्सरान्ते मम पदाम्भोजं पश्यति निश्चितम्‍ ॥८६॥

अनुत्तमोत्तमञ्चैतद्‍ राक्षसीचीनसाधने ।
अत्युत्तमं प्रवक्ष्यामि सावधानावधारय ॥८७॥

सदा जितेन्द्रियो भूत्त्वा योगाभ्यासपरायणः ।
मांसासवाद्यैः सन्तर्प्य कालिकां घोरनिः स्वनाम्‍ ॥८८॥

एकादशीव्यतीपाते कुलवारे कुले तिथौ ।
कुलमानीय साक्षाद्वै परंब्रह्ममयो भवन्‍ ॥८९॥

केवलं लयभावेन देवीपूजां समारभेत्‍ ।
कुलदृष्ट्या च तद्‌बुद्‌ध्या तत्तद्धयानपरायणः ॥९०॥

मूलाधारे महाचक्रे योगिनीकोटिराजिते ।
कोटिब्रह्मालये सिद्धे सूक्ष्ममार्गेण साधकः ॥९१॥

ज्योतिराकाशगङुभिर्यथाधाराभिराप्लृताम्‍ ।
पृथिवीं ब्रह्मजननीं ब्रह्मानन्दस्वरुपिणीम्‍ ॥९२॥

तथा कुलमयीं नित्यां नित्यानन्दस्वरुपिणीम्‍ ।
कुलकुण्डलिनीं देवीं विश्वमातां त्रिलोचनाम्‍ ॥९३॥

महाघनरसोल्लासां महोन्मादादिबिन्दुभिः ।
गलिताभिर्महाधाराजन्याब्धिशतकोटिभिः ।
गलिताभिर्महाधाराजन्यब्धिशतकोटिभिः ॥९४॥

परिच्छिन्नाभिरुद्धते ज्योतीरन्ध्रे महापथे ।
अत्रैव सततं भाति सूक्ष्मात्सूक्ष्मतराऽपरा ॥९५॥

बिन्दूद्‌भवा महाधारा कोटिसौदामिनिप्रभा ।
तस्या रुपस्य का पूजा कुलदेव्या महाप्रभो ॥९६॥

केवलं बिन्दुधारभिस्तर्पयामि सदानघाम्‍ ।
कुलदेवीं जगद्रूपां स्थूलसूक्ष्मस्वरुपिणीम्‍ ॥९७॥

मूलदिब्रह्मरन्ध्रान्तं तर्पयामि सुरेश्वरीम्‍ ।
इत्येवं मनसा यस्य तस्य किं बाह्यपूजया ॥९८॥

तथापि कल्पयाम्यत्र सा(शा)रदीये महोत्सवे ।
यथा कुलवतीं दुर्गां तथाहं कुलनायिकाम्‍ ॥९९॥

मूलपद्मात्समाकृष्य नागिनीं नागकन्यकाम्‍ ।
कुहकोद्‌भवरुपस्थां मनुष्यगणकन्यकाम्‍ ॥१००॥

वामेऽहं कल्पयाम्यत्र कुलपीठे मनोरमे ।
कुलदेवीं वामभागे पूजयाम्यधुनामुना ॥१०१॥

तर्पयामि महाबिन्दुद्‌भवासघटामृतैः ।
मांसाष्टककयुतैर्नित्यं मुद्राभिर्मीनमिश्रितैः ॥१०२॥

यथान्तःकरणे सा तु तथा मे बाह्यतर्पणम्‍ ।
शुभं भवतु नित्यं मे महारात्रिश्च सौख्यदा ॥१०३॥

कुलं भवतु सौख्यं मे बाह्यपूजा शुभा मम ।
इत्येवं मनसा यस्य तस्याः सौख्यं कुतः प्रभो ॥१०४॥

सर्वदा पूजनं तस्य चैव कालो निरर्थकः ।
अभेदबुद्धया सर्वत्र पूजनं भावसाधने ॥१०५॥

अत्युत्तममिति प्रोक्तं कौलानां योगसाधने ।
जातिवृत्तं न तत्रैव यदीच्छति फलोदयम्‍ ॥१०६॥

उत्तमं सम्प्रवक्ष्येऽहं यथोचितफलोदयम्‍ ।
अन्न तन्त्रे क्रिया गुप्तमामन्त्रितं कुलम्‍ ॥१०७॥

गुप्तं कुलरसं नित्यं गुप्तपानं सदा प्रभो ।
वर्षे वर्षे पूर्णसिद्धिं प्राप्नुयान्नात्र संशयः ॥१०८॥

मासे मासे तर्पणं तु पक्षे पक्षे कुलक्रिया ।
दिने दिने सदा पानं कौलानामिति लक्षणम्‍ ॥१०९॥

गुप्तक्रियाभिः सिद्धयेत्‍ न प्रकाश्यं कदाचन ।
सर्वत्यागी तदैव स्यात्‍ प्रकाशो जायते यदि ॥११०॥

उत्तमं भावमालम्ब्य क्षिप्रं सिद्धयति साधकः ।
तस्यैव लक्षणं नित्यं तन्त्रनाथे निरुपितम्‍ ॥१११॥

शिवोक्तिलक्षणे प्रोक्तं भैरवेण मया सह ।
तत्सर्व ज्ञानमालम्ब्य चोत्तम्स्त्वं भविष्यसि ॥११२॥

अत्यन्तमध्यमं वक्ष्ये चीनाचारक्रमेण तु ।
यत्कृत्वा मुनयः सर्वे कौललक्षणभावकाः ॥११३॥

पीठोपपीठमध्ये च महापीठे कुलार्णवे ।
महाचीनद्रुमलतावेष्टिते साधकान्विते ॥११४॥

तत्रैकमासनं कृत्वा तिथित्रयदिने शुभे ।
उक्तासनमुपानीय तत्र निश्चयचेतसा ॥११५॥

लक्षमेकं जपेन्नित्यं कामनाविषयस्थितः ।
कृष्णे वा शुक्लपक्षे वा होमदिविधिमाचरेत्‍ ॥११६॥

कुमारीं भोजयित्वा तु कण्ठे तौ भावयेत्सदा ।
मासेन सिद्धिमाप्नोति कुलद्रव्यप्रसादत ॥११७॥

अत्यन्तमध्यमं चीनं कथितं तव यत्नतः ।
अतिमध्यममावक्ष्ये यज्ज्ञात्वा योगिराड्‍ भवेत्‍ ॥११८॥

कालाकालं विहायाथ सदान्तः करणस्थितः ।
भावयित्वा सुधादेवीं डाकिन्यादिस्वरुपिणीम्‍ ॥११९॥

पञ्चशक्तिं समानीय पूजयेत्कुलजै रसैः ।
कुलपुष्पैः साधकेन्द्रः कुलीनं भावयेत्ततः ॥१२०॥

यथा बाह्ये तथा ह्रच्चे कण्ठे मणिगृहे तथा ।
वैकुण्ठे विष्णुकमले मूलाधारे पुनः पुनः ॥१२१॥

ध्यात्वा ध्यात्वा तर्पयेद्यः स कामविजयी भवेत्‍ ।
अतिमध्यममेतत्तु योगिनामपि दुर्लभम्‍ ॥१२२॥

मध्यमध्यममावक्ष्ये कुलीनफलसागरम्‍ ।
वाञ्छासिद्धिकरं साक्षात्‍ शिववद्विहरेन्मुदा ॥१२३॥

मासमध्ये पञ्चवारं पञ्चतत्त्वनिषेवणम्‍ ।
यजनं भावनं नित्यं होमकर्म समापयेत्‍ ॥१२४॥

बाह्यक्रियासु निपुणः श्मशाने विपिनेऽपि वा ।
भावयेत्‍ कान्तं शिरसि काकिनीं साकिनीं कलाम्‍ ॥१२५॥

पञ्चशक्तिं द्वयं वापि गृहीत्वा तर्पणं चरेत्‍ ।
तर्पणान्ते जपेद्विद्यामहर्निशमनातुरः ॥१२६॥

होमतर्पणकाले तु कुलशक्ति प्रपूजयेत्‍ ।
आसनं स्वागतं पाद्यमर्घमाचमनीयकम्‍ ॥१२७॥

मधुपर्कं च मनस्नानवसनाभरणानि च ।
गन्धपुष्पधूपदीनैवेद्यं शीतलं जलम्‍ ॥१२८॥

पक्वान्नं पक्वमांसञ्च पक्वञ्च व्यञ्जनादिकम्‍ ।
कर्पूरवासितं नीरं ताम्बूलं तदनन्तरम्‍ ॥१२९॥

लाङादिसमायुक्तं दत्त्व गन्धानुलेपनम्‍ ।
गन्धमाल्यादिकं दत्वा प्रार्थयेत्सुहितं वरम्‍ ॥१३०॥

तस्यै दत्वा स्वमात्मानं कुलपीठे स्थिरो भवेत्‍ ।
कण्ठपद्मे मनो याति शक्तिमन्त्रप्रभावतः ॥१३१॥

मध्यमध्यममेतद्धि कुलीनविप्रभोजनम्‍ ।
क्रमशः सिद्धिमाप्नोति मध्यमं श्रृणु भैरव ॥१३२॥

यथा काले कुलद्रव्यं समानीय प्रयत्नतः ।
नवशक्तिमेकशक्ति त्रिशक्तिं वासमाहरेत्‍ ॥१३३॥

गुप्तस्थाने समानीय गुप्तद्रव्यैः प्रपूजयेत्‍ ।
दशोपचारविधिना पूजयेदिष्टदेवताम्‍ ॥१३४॥

प्रातःकाले च मध्याहने सायाहने मध्यरात्रिके ।
सहस्त्रजपमाकृत्यार्चनं वारचतुष्टयम्‍ ॥१३५॥

मध्यरात्रौ शक्तिमात्रं स्थापयेदग्रतः सुधीः ।
साक्षान्मूर्तौ दिगम्बर्यां मुद्रया परिपूजयेत्‍ ॥१३६॥

जयन्ती मङुला काली भद्रकाली कपालिनी ।
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु चे ॥१३७॥

अनेन मनुनाभ्यर्चं परंबह्मस्वरुपिणीम्‍ ।
कुलद्र्व्यं पिबेत्‍ पश्चाच्छक्तिदत्तं पुनः पुनः ॥१३८॥

शक्तिप्रसादं विधिना संशोध्य पानमाचरेत्‍ ।
शोधयामि परां देवीं कुलास्यपद्मनिर्गताम्‍ ॥१३९॥

पिबामि परमानन्दैस्तत्प्रसादात्कुलेश्वरी ।
इत्यादि मध्यमं प्रोक्तं चीनाचारेषु दुर्लभम्‍ ॥१४०॥

अत्यन्ताधमचीनं तु वक्ष्याम्यत्र विशेषतः ।
मासमध्ये त्रिदिनं तु तर्पणं तु त्रयं त्रयम्‍ ॥१४१॥

अष्टोत्तरशतं जाप्यं केवलं शक्तिशोधनम्‍ ।
ऋषिमातृकराङुदिन्यासं स्वीयतनौ चरेत्‍ ॥१४२॥

कुलाङेऽपि समाकृत्य पीठे शम्भुं नियोजयेत्‍ ।
धर्माधर्मकलास्नेहमात्माग्नौ मनसा स्त्रुचा ॥१४३॥

सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम्‍ ।
स्वाहान्तमन्त्रमुच्चार्य नियोज्य जपमाचरेत्‍ ॥१४४॥

जपं समर्प्य विधिना स्तोत्रं कवचमापठेत्‍ ।
कवचान्ते ततो मन्त्री स्वबीजहोममाचरेत्‍ ॥१४५॥

कुलत्रिकोणगगनवायूज्वलकुलानले ।
कुलप्रकाशिते पद्मतले च मनुनामुना ॥१४६॥

प्रकाशाकाशहस्ताह्यामवम्ब्योन्मनीस्त्रुचा ।
धर्माधर्मकलास्नेहपूर्णमग्नौ जुहोम्यहम्‍ ॥१४७॥

स्वाहेति मन्त्रमुच्चार्य ततस्तेनैव तर्पणम्‍ ।
तर्पणान्ते चाभिषेकं स्वशक्तिकुलजै रसैः ॥१४८॥

शक्तिनां ब्राह्मणस्थाने भोजनञ्च समापनम्‍ ।
केवलं त्रिदिनं मासे चात्यन्ताधमलक्षणम्‍ ॥१४९॥

अत्यन्तात्यधर्मं चीनं वक्ष्यामि कुलवल्लभ ।
राक्षसीक्रियया व्याप्तं भुजङाकारभोजनम्‍ ॥१५०॥

अहमेव परंब्रह्म बुद्धयात्मानं प्रतर्पयेत्‍ ।
आत्मम्भरी स्वयं नित्यं शक्तित्यागपरो नरः ॥१५१॥

अन्तरे च न तु त्यागो मनसा कर्मसाधानम्‍ ।
पञ्चतत्त्वं स्वयं पीत्वा सदानन्दस्वरुपवान्‍ ॥१५२॥

बीजत्यागं न करोति लिङुं वक्त्रे पुनः पुनः ।
दन्तावलियुते वक्त्रे बीजोच्चारणमुच्चकैः ॥१५३॥

उपांशु मानसं वापि जप्त्वा ब्रह्ममयो भवेत्‍ ।
न तु बाह्ये महापूजा एकादशीव्रतं विना ॥१५४॥

एकादश्यामाश्यं तु पूजयेत्सुरसुन्दरीम्‍ ।
यथाविधि विधानेन शक्तिं सन्तोषयेत्‍ सुधीः ॥१५५॥

सर्वदेशे सर्वपीठे तत्राशौचिर्न विद्यते ।
अशुचेर्भावमालब्य नरकं खलु गच्छति ॥१५६॥

विष्ठायां गन्धनिबिडे मांसमेदादिगन्धके ।
सुगन्धदेशके वापि एकभावेन पूजयेत्‍ ॥१५७॥

पूजान्ते षट्‌सहस्त्राख्यस्तोत्रं कवचमापठेत्‍ ।
तदन्ते विहरेद्वीरो मदनाहलादवर्जितः ॥१५८॥

अन्तरे कुण्डलीयुक्तः कामकर्ता स्वयं भवेत्‍ ।
न तु बाह्ये स्वबीजस्य त्याग एव सुरेस्वर ॥१५९॥

तदा योगे स्थिरो याति चात्यन्तात्यधमादिभिः ।
अत्यधमाधमं वक्ष्ये कालात्मञ्छुणु सादरम्‍ ॥१६०॥

मासमध्ये वारमेकं कुलाचारं सचीनकम्‍ ।
कुलमालां समानीय कुलेन पुटितं मनुम्‍ ॥१६१॥

शक्तियुक्तो जपेन्मन्त्री मन्त्रध्यानपरायणः ।
चतुर्दण्डगतो रात्रौ जपारम्भ उदीरितः ॥१६२॥

जपेत्तु सकलां रात्रिं वेददाण्डस्थिते न तु ।
भयं नैव तु कर्तव्यं हास्यं तत्र विवर्जयेत्‍ ॥१६३॥

कालीतन्त्रविधानेन तारातन्त्रक्रमेण वा ।
पूजाजपं समर्प्याथ शक्तिं सम्प्रार्थन्मुदा ॥१६४॥

स्तोत्रं कवचमुच्चार्य विहरेच्च यथाविधिम्‍
मासमध्ये दिनमेकं कृत्वा योगी भवेन्नरः ।
पशुत्वं न समायाति वीरतन्त्रप्रसादतः
एतदन्यदिने नाथ पञ्चतत्त्वाक्ततण्डुलम्‍ ॥१६५॥

वदनाम्भोरुहे दत्त्वा जपेत्तद्‌गतमानसः ।
एवं वत्सरपर्यन्तं कृत्वा योगी भवेन्नरः ॥१६६॥

अत्यधमाधमं कृत्वा पशुत्वमपि मुञ्चति ।
कुलेश परमानन्दं वक्ष्येऽत्यन्ताधमाधमम्‍ ॥१६७॥

भवेयुः साधकाग्रयाश्च वीराः पशुगुणोदयाः ।
उच्चदेशे गृहं कृत्वा मण्डलाकारमेव च ॥१६८॥

शक्तिं बिना चरेत्कार्यं नृणां मुण्डत्रयोदशे ।
आसनं तत्र संस्कृत्य जपेत्तु शङ्खमालया ॥१६९॥

अनुकल्पितद्रव्येण साक्षात्कल्पितद्रव्यकैः ।
पूजयेत्परया भक्त्या स्वात्मानं शक्तिकुण्डलीम्‍ ॥१७०॥

एकाकी निर्जने देशे तद्‌गतः प्रजपेन्मनुम्‍ ।
कुलपूजाक्रमेणैव आत्मशक्तिं प्रतर्पयेत्‍ ॥१७१॥

सहस्त्रनामयोगाङु षट्‌चक्रभेदनक्रमात्‍ ।
पठित्वा स्तोत्रकवचं विन्यसेदात्मनो ह्रदि ॥१७२॥

गुप्तजाप्यक्रमेणैव सिद्धो भवति मानवः ।
इत्येत्कथित नाथ महासिद्धिकरं परम्‍ ॥१७३॥

दिवारात्रौ साधकस्य विशेषो नास्ति शङ्कर ।
पशुभावं परित्यज्य सिद्धोऽत्यन्ताधमाधमम्‍ ॥१७४॥

अत्यधमं प्रवक्ष्यमि चीनाचारक्रमेण तु ।
येन सिद्धो भवेन्मन्त्री पशुभावं विमुञ्चति ॥१७५॥

श्रृणु प्राणेश वरद सिद्धानामधिपाधिप ।
पातालमण्डपं कृत्वा गन्धनिर्गमवर्जितम्‍ ॥१७६॥

तत्रासनं समाकृत्य तत्र मुण्डत्रयं त्रयम्‍ ।
तन्मध्ये निवसेन्नाथ कुलविद्यासमन्वितः ॥१७७॥

कुलीना पण्डिता नारीं दिव्यालङ्कारमण्डिताम्‍ ।
सर्वदानन्दनिलयां रसिकां क्रोधवर्जिताम्‍ ॥१७८॥

सुन्दरीं यौवनाहलादललितां देवयोगिनीम्‍ ।
एवंभूतां देवशक्तिं वामभागे नियोज्य च ॥१७९॥

पूजयेत्परया भक्त्या यथेष्टदेवतां प्रभो ।
केवलं पूजनं कृत्वा त्रिदिनं कुलमन्दिरे ॥१८०॥

अथ सप्तदिनान्‍ वापि पूजाजविधिं चरेत्‍ ।
शक्तिं सन्तर्पयेद्‍ भक्त्या नवकन्यामथापि व ॥१८१॥

वस्त्रालङ्कारभूषाद्यैः कुलद्रव्यैर्यथाविधि ।
सन्तोषयेत्‍ सदा कामी लिङुध्यानपरायणः ॥१८२॥

धूपदीपौ तथा दद्यात्‍ सर्वदा साधकोत्तमः ।
यथा तत्त्वान्तनाशः स्यात्तशा तच्चित्ततामसम्‍ ॥१८३॥

नश्यत्येव महाकाल अत्यधमप्रसादतः ।
अधमाधममावक्ष्ये यथोक्तफलासिद्धये ॥१८४॥

मन्त्री पीठे समागम्य मुक्तकेसो दिगम्बरः ।
घृणालज्जाविराहिती निर्जने विपिनेऽपि वा ॥१८५॥

गङागर्भे गिरौ वापि बिल्वमूले चतुष्पथे ।
वटमूलेऽश्वत्थमूले चीनद्रुमतलेऽपि वा ॥१८६॥

कृष्णपक्षे चतुर्दश्यां समारभ्य प्रयत्नतः ।
मुण्डमेकमधः क्षिप्त्वा गन्धचन्दनलेपितम्‍ ॥१८७॥

हस्तार्धमानतो नाथ चाण्डालं हीनजातिगम्‍ ।
तत्र स्थित्वा जपेन्मन्त्री भयमात्रं विवर्जयेत्‍ ॥१८८॥

चाण्डालीशक्तिमानीय कुलद्रव्यं तथा प्रभो ।
तदि‌दनात्तदि‌दनं यावत्तादष्टोत्तरं शतम्‍ ॥१८९॥

विधिना शोधनं कृत्वा शक्त्यै दत्वा स्वयं पिबेत्‍ ।
आनन्दसागरे मग्नः सर्वदर्शी निरामयः ॥१९०॥

मांसमुद्राचर्वणं तु सदानन्दमयो भवन्‍ ।
प्रत्यहं साधनं कृत्वा वर्षमध्ये च मासकम्‍ ॥१९१॥

मासेन सिद्धिमाप्नोति राक्षसीक्रमतः प्रभो ।
अधमाधमकार्येण पशुश्चीनाश्रितो भवेत्‍ ॥१९२॥

अधमं श्रृणु यत्नेन कौलानामतिदुर्लभम्‍ ।
अधमादिक्रमेणैव वत्सरान्मां प्रपश्यति ॥१९३॥

पशुवत्सकलं कार्यं रातौ चापि कुलक्रिया ।
कुलदेव्यास्त्रिरात्रौ च कुलपीठे मनोरमे ॥१९४॥

पूजयेत्‍ परमानन्दैः कुलध्यानपरायणः ।
कुलपुष्पैः कुलद्रव्यैः साङोपाङैर्विधानतः ॥१९५॥

कुलपूजां मध्यरात्रौ ब्राह्मणौ ब्राह्मणीयुतः ।
क्षत्रिय़ः क्षत्रियायुक्तौ वैश्यो वैश्यान्वितः सदा ॥१९६॥

शूद्रः शूद्रकलायुक्तो निजाभावे परायुतः ।
जुहुयात्‍ कालसर्पिण्या वदनाम्भोजसुन्दरे ॥१९७॥

पुरशरणवत्‍ कार्यं दिवारात्रौं प्रतर्पयेत्‍ ।
अकालमृत्युजेता स्यात्‍ परानन्दमयो भवन्‍ ॥१९८॥

अनायासेन सिद्धिः स्यादधमस्य प्रसादतः ।
रिपुविद्वेषणं वक्ष्ये देवेदेव श्रृणु प्रभो ॥१९९॥

यस्य प्रसादमात्रेण निःशत्रुरवरान्‍ भवेत्‍ ।
कण्ठपद्मे दृढो भूत्वा साकिनीं श्रीसदाशिवम्‍ ॥२००॥

पूजयित्वा विधानेन भावयेत् तद्गतो यदि ।
मञ्जुघोषस्य मनुना पुटीकृत्य सदाशिवम् ॥२०१॥

तारयद्वयमुच्चार्य रक्षात्मानं युगं तथा ।
परपक्षं छेदयति योगशत्रून विनाशय ॥२०२॥

युगलं युगलं तत्र रमावहिनत्रयं त्रयम् ।
ततो मारययुग्मं तु खादयद्वयमेव च ॥२०३॥

शत्रुकण्ठत्रिशूल्यन्ते निकण्ठरिपुपञ्चकान् ।
हारयद्वयमुच्चार्य स्वाहान्तमनुमापेत् ॥२०४॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP