प्रथमः पटलः - विविध साधनानि ८

आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्‍भूत ग्रंथ आहे.


स भवेत्कामनात्यागी भावमात्रोलक्षणम् ।
वीरभावो महाभावो न भावं दुष्टचेतसाम् ॥१४१॥

भावं मन्दगतं सूक्ष्मं रुद्रमूर्त्याः प्रसिद्धयति ।
भ्रष्टाचार महागूढं त्रैलोक्यमङुल शुभम् ॥१४२॥

पञ्चतत्त्वादिसिद्धयर्थ्म महामोहमदोद्‍भवम् ।
सर्वपीठाकुलाचार हठादानन्दसागरम् ॥१४३॥

कारुण्यवारिधिं वीरसाधने भक्तिकेवलम् ।
ज्ञानीभूत्वा पशोर्भावे वीराचारं ततः परम‍ ॥१४४॥

वीराचाराद्‍ भवेद्रुद्रोऽन्यथा नैव च नैव च ।
भावद्वयस्थितो मन्त्री दिव्यभावं विचारयेत्॥१४५॥

सदा शुचिर्दिव्यभावमाचरेत्सुसमाहितः ।
देवतायाः प्रियार्थञ्च सर्वकर्मकुलेश्वर ॥१४६॥

यद्यत्तत्सकल सिद्धयत्यस्माद्‍ धर्मोदयं शुभम् ।
देवतातुल्यभावश्च देवतायाः क्रियापरः ॥१४७॥

तद्‍ विद्धि देवताभावं सुदिव्यभाक्‌प्रकीर्तितम् ।
सर्वेषां भाववर्गाणाम शक्तिमूलं न संशयः ॥१४८॥

भक्तिं केन प्रकारेण प्राप्नोति साधकोत्तमः ।
ज्ञात्त्वा देवशरीरस्य निजकार्यनुशासनात्॥१४९॥  

ज्ञानेश्च त्रिविधं प्रोक्तमागमाचारसम्भवम् ।   
शब्दब्रह्ममयं तद्धि ज्ञानमार्गेण पश्यति ॥१५०॥

पठित्वा सर्वशास्त्राणि स्वकर्मगायनानि च ।
कृशे विवेकमालम्ब्य नित्य ज्ञानी च साधकः ॥१५१॥

विवेकसंभवं ज्ञानं शिवज्ञानप्रकाशकम्‍ ।
लोचनद्वयहीङ्च बाह्यभावविवर्जितम्‍ ॥१५२॥


लोकानां परिनिर्मुक्तं कालाकालविलोडनम्‍ ।
नित्यज्ञानं परं ज्ञानं तं विद्धि प्राणगोचरम्‍ ॥१५३॥

N/A

References : N/A
Last Updated : April 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP