अथप्रत्याम्नायाः । तत्रप्राजापत्यप्रत्याम्नायाः दशसहस्त्रगायत्रीजपः गायत्र्यासहस्त्रंतिलहोमः
क्वचित्सहस्त्रंव्याहत्यातिलहोमउक्तः शतद्वयंप्राणायामाः द्वादशब्राह्मणभोजनम् यावत्केशशोषणंविरम्यतीर्थेद्वादशस्त्रानानि
वेदसंहितापारायणम् योजनंयात्रा द्वादशसहस्त्रंनमस्काराः द्वात्रिंशदुत्तरंशतंप्रनायामान्कृत्वाअहोरात्रमुपोषितःप्राङ्मुखस्तिष्ठेत्
गोमूत्रेणयावकभक्षणेऐकाहिककृच्छ्रम् कश्चित्रुद्रैकदशिनीजपात्कृच्छ्रमाह पावकेष्टिः
पावमानेष्टिः पडुपवासाः प्राजापत्यप्रत्याम्नायाः एकविप्रभोजनमुपवासस्य
अत्यशक्तौसहस्त्रगायत्रीजपोद्वादशप्राणायामावेतिस्मृत्यर्थसारे प्राजापत्येष्वशक्तस्तुधेनुंदद्यात्पयस्विनीम्
निष्कनिष्कार्धनिष्कपादान्यतमप्रमाणंहेमरूप्यंवाधेनुमूल्यंदेयम् अत्यशक्तेननिष्कपादार्धरजतंतत्समंधान्यादिवादेयम्
अतिकृच्छ्रेगोद्वयम् सांतपनेगोद्वयन् पराकेतप्तकृच्छेचगोत्रयम् कच्छ्रातिकृच्छेगोचतुष्टयंगोत्रयंवा
चान्द्रायणेअष्टौपञ्चचतस्त्रस्तिस्रोवागावः मासंपयोव्रतेमासोपवासेचपञ्चगावः मासंगोमूत्रयावकव्रते षट्गावः ।