वैराग्यसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


दान्तस्य किमरण्येन तथादान्तस्य भारत ।

यत्रैव निवसेद्दान्तस्तदरण्यं स चाश्रमः ॥४०॥

गृहे पर्यन्तस्थे द्रविणकणमोषं श्रुतवता

स्ववेश्मन्यारक्षा क्रियत इति मार्गोऽयमुचितः ।

नरान्गेहाद्‌गेहात् प्रतिदिवसमाकृष्य नयतः

कृतान्तात् किं शङका न हि भवति रे जागृत जनाः ॥४१॥

वनेऽपि दोषाः प्रभवन्ति रागिणां

गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः ।

अकुत्सिते कर्मणि यः प्रवर्तते

निवृत्तरागस्य गृहं तपोवनम् ॥४२॥

हस्तौ दानविवर्जितौ श्रुतिपुटौ सारस्वतद्रोहिणौ

नेत्रे साधुविलोकनेन रहिते पादौ न तीर्थं गतौ ।

अन्यायार्जितवित्तपूर्णमुदरं गर्वेण तुङंग शिरो

रे रे जम्बुक मुञ्च मुञ्च सहसा नीचं सुनिन्द्यं वपुः ॥४३॥

सेवध्वं विबुधास्तमन्धकरिपुं मा क्लिश्यतान्यश्रुते

यस्मादत्र परत्र च त्रिजगति त्राता स एकः शिवः ।

आयाते नियतेर्वशात् सुविषमे कालात् करालाद्भये

कुत्र व्याकरणं क्व तर्ककलहः काव्यश्रमः क्वापि वा ॥४४॥

भेको धावति तं च धावति फणी सर्पं शिखी धावति

व्याघ्रो धावति केकिनं विधिवशाद् व्याधोऽपि तं धावति ।

स्वस्वाहारविहारसाधनविधौ सर्वे जना व्याकुलाः

कालस्तिष्ठति पृष्ठतः कचधरः केनापि नो दृश्यते ॥४५॥

स्वःसिन्धुतीरेऽघविघातवीरे

वहत्समीरे करलभ्यनीरे ।

वसन्कुटीरे परिधाय चीरे

करोभ्यधीरे न रुचिं शरीरे ॥४६॥

यस्या बीजमहङ्‌कृतिर्गुरुतरं मूलं ममेतिग्रहो

भोगस्य स्मृतिरङकुरः सुतसुताज्ञात्यादयः पल्लवाः ।

स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः

सा मे ब्रह्मविभावनापरशुना तृष्णालता लूयताम् ॥४७॥

निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्त्राधिपो

लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेशतां वाञ्छति ।

चक्रेशः सुरराजतां सुरपतिर्ब्रह्मास्पदं वाञ्छति

ब्रह्मा शैवपदं शिवो हरिपदं ह्याशावधिं को गतः ॥४८॥

रात्रिर्गमिष्यति भविष्यति सुप्रभातं

भास्वानुदेष्यति हसिष्यति पङकजश्रीः ।

इत्थं विचिन्तयति कोशगते द्विरेफे

हा हन्त हन्त नलिनीं गज उज्जहार ॥४९॥

भोगा न भुक्ता वयमेव भुक्ता-

स्तपो न तप्‍तं वयमेव तप्ताः ।

कालो न यातो वयमेव याता-

स्तृष्णा न जीर्णा वयमेव जीर्णाः ॥५०॥

भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं

मौने दैन्यभयं बले रिपुभयं रुपे जराया भयम् ।

शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद्भयं

सर्वं वस्तु भयावहं भुवि नृणां वैराग्यमेवाभयम् ॥५१॥

कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो

व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ।

क्षुधाक्षामो जीर्णः पिठरजकपालार्पितगलः

शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥५२॥

गङगातीरे हिमगिरिशिलाबद्धपद्मासनस्य

ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।

किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङकाः

सम्प्राप्स्यन्ते जरठहरिणाः श्रृङगकण्डूविनोदम् ॥५३॥

आशा नाम नदी मनोरथजला तृष्नातरङगाकुला

रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।

मोहावर्त्तसुदुस्तरातिगहना प्रोत्तुङगचिन्तातटी

तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥५४॥

कृच्छ्रेणामेंध्यमध्ये नियमिततनुभिः स्थीयते गर्भमध्ये

कान्ताविश्‍लेषदुःखव्यतिकरविषये यौवने विप्रयोगः ।

नारीणामप्यवज्ञा विलसति नियतं वृद्धभावोऽप्यसाधुः

संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥५५॥

गात्रं सङ्‌कुचितं गतिर्विगलिता भ्रष्ता च दन्तावलि-

र्दृष्टिर्नश्यति वर्धते बधिरता वक्‍त्रं च लालायते ।

वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रॄषते

हा कष्‍टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥५६॥

उत्खातं निधिशङकया क्षितितलं ध्माता गिरेर्धातवो

निस्तीर्णः सरितां पतिर्नृपतयो यत्‍नेन सन्तोषिताः ।

मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः

प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव ॥५७॥

आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं

व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ।

दृष्‍टवा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते

पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥५८॥

अजानन्दाहात्म्यं पतति शलभो दीपदहने

स मीनोऽप्यज्ञानाद्वडिशयुतमश्‍नाति पिशितम् ।

विजानन्तोऽप्येते वयमिह विपज्जालजटिला-

न्न मुञ्चामः कामानहह गहनो मोहमहिमा ॥५९॥

आयुः कल्लोललोलं कतिपयदिवसस्थायिनीयौवनश्री-

रर्थाः सङकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूराः ।

कण्ठाश्‍लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं

ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥६०॥

जीर्णा एव मनोरथाः स्वहृदये यातं जरा यौवनं

हन्ताङेगषु गुणाश्च वन्ध्यफलतां याता गुणज्ञैर्विना ।

किं युक्‍तं सहसाभ्युपैति बलवान्कालः कृतान्तोऽक्षमी

ह्याज्ञातं स्मरशासनाङ्‌घ्रियुगलं मुक्‍त्वास्ति नान्या गतिः ॥६१॥

नायं ते समयो रहस्यमधुना निद्राति नाथो यदि

स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः ।

चेतस्तानपहाय याहि भवनं देवस्य विश्‍वेशितु-

र्निर्दौवारिकनिर्दयोक्‍त्यपरुषं निस्सीमशर्मप्रदम् ॥६२॥

रे कन्दर्प करं कदर्थयसि किं कोदण्डटङकारितै

रे रे कोकिल कोमलैः कलरवैः किं त्वं वृथा जल्पसि ।

बाले स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरलं

चेतश्‍चुम्बितचन्द्रचूडचरणध्यानामृतं वर्त्तते ॥६३॥

अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा

मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा ।

तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः

क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥६४॥

मातुलो यस्य गोविन्दः पिता यस्य धनंजयः ।

सोऽपि कालवशं प्राप्तः कालो हि दुरतिक्रमः ॥६५॥

देहेऽस्थिमांसरुधिरेऽभिमतिं त्यजस्व

जायासुतादिषु सदा ममतां विमुञ्च ।

पश्यानिशं जगदिदं क्षणभङगनिष्‍ठं

रौग्यरागरसिको व भक्तिनिष्ठः ॥६६॥

आनन्दमूलगुणपल्लवतत्त्वशाखा-

वेदान्तमोक्षफलपुष्परसादिकीर्णम् ।

चेतोविहङग हरितुङगतरुं विहाय

संसारशुष्कविटपे वद किं करोषि ॥६७॥

तरन्ति मातङगघटातरङंग

रणाम्बुधिं ये मयि ते न शूराः ।

शूरास्त एवेह मनस्तरङंग

देहेन्द्रियाम्भोधिमिमं तरन्ति ॥६८॥

इमान्यमूनीति विभावितानि

कार्याण्यपर्यन्तमनोरमाणि ।

जनस्य जायाजनरज्जनेन

जवाज्जरान्तं जरयन्ति चेतः ॥६९॥

विद्राविते शत्रुजने समाप्‍ते

समागतायामभितश्च लक्ष्म्याम् ।

सेव्यन्त एतानि सुखानि याव-

त्तावत्समायाति कुतोऽपि मृत्युः ॥७०॥

पुनः पुनर्दैववशादुपेत्य

स्वदेहभारेण कृतोपकारः ।

विलूयते यत्र तरुः कुठारै-

राश्वासने तत्र हि कः प्रसङगः ॥७१॥

वपुः कुब्जीभूतं गतिरपि तथा यष्टिशरणा

विशीर्णा दन्तालिः श्रवनविकलं श्रोत्रयुगलम् ।

शिरः शुक्लं चक्षुस्तिमिरपटलैरावृतमहो

मनो मे निर्लज्जं तदपि विषयेभ्यः स्पृहयति ॥७२॥

क्वचिद्विद्वद्गोष्ठी क्वचिदपि सुरामत्तकलहः

क्वचिद्वीणावादः क्वचिदपि च हा हेति रुदितम् ।

क्वचिद्रम्या रामा क्वचिदपि जराजर्जरतनु-

र्न जाने संसारः किममृतमयः किं विषमयः ॥७३॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP