नीतिसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


विद्वत्त्वञ्च नृपत्वञ्च नैव तुल्यं कदाचन ।

स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥४६॥

पण्डिते च गुणाः सर्वे मूर्खे दोषा हि केवलम् ।

तस्मान्मूर्खशस्त्रेभ्यः प्राज्ञ एको विशिष्यते ॥४७॥

परोक्षे कायहन्तारं प्रत्यक्षे प्रियवादिनम् ।

वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥४८॥

रुपयौवनसम्पन्ना विशालकुलसम्भवाः ।

विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥४९॥

ताराणां भूषणं चन्द्रो नारीणां भूषणं पतिः ।

पृथिव्या भूषणं राजा विद्या सर्वस्य भूषणम् ॥५०॥

कोऽर्थः पुत्रेण जातेन यो न विद्वान् न भक्तिमान् ।

काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम् ॥५१॥

लालयेत् पञ्च वर्षाणि दश वर्षाणि ताडयेत् ।

प्राप्ते तु षोडशे वर्षे पुत्रं मित्र वदाचरेत् ॥५२॥

एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।

वासितं स्याद् वनं सर्वं सुपुत्रेण कुलं यथा ॥५३॥

एकेन शुष्कवृक्षेण दह्यमानेन वह्निना ।

दह्यते हि वनं सर्वं कुपुत्रेण कुलं यथा ॥५४॥

निर्गुणेष्वपि सत्त्वेषू दयां कुर्वन्ति साधवः ।

न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्‍मनि ॥५५॥

विद्या मित्रं प्रवासेषु माता मित्रं गृहेषु च ।

व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥५६॥

न कश्चित् कस्य चिन्मित्रं न कश्चित् कस्यचिद्रिपुः ।

व्यवहारेण जायन्ते मित्राणि रिपवस्तथा ॥५७॥

दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् ।

मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ॥५८॥

दुर्जनः परिहर्त्तव्यो विद्ययालङकृतोऽपि सन् ।

मणिना भूषितः सर्पः किमसौ न भयङकरः ॥५९॥

सर्पः क्रूरः खलः क्रूरः सर्पात् क्रूरतरः खलः ।

मन्त्रौषधिवशः सर्पः खलः केन निवार्यते ॥६०॥

धनानि जीवितञ्चैव परार्थे प्राज्ञ उत्सृजेत ।

सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥६१॥

आयुषः क्षण एकोऽपि न लभ्यः स्वर्णकोटिभिः ।

स चेन्निरर्थकं नीतः का नु हानिस्ततोऽधिका ॥६२॥

शरीरस्य गुणानाञ्च दूरमत्यन्तमन्तरम् ।

शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥६३॥

धनिकः श्रोत्रियो राजा नदी वैद्यश्च पञ्चमः ।

पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥६४॥

मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम्‌ ।

दम्पत्योः कलहो नास्ति तत्र श्रीः स्वयमागता ॥६५॥

अस्ति पुत्रो वशे यस्य भृत्यो भार्या तथैव च ।

अभावेऽप्यतिसन्तोषः स्वर्गस्थोऽसौ महीतले ॥६६॥

माता यस्य गृहे नास्ति भार्या चाप्रियवादिनी ।

अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥६७॥

कोकिलानां स्वरो रुपं नारीरुपं पतिव्रतम् ।

विद्या रुपं कुरुपाणां क्षमा रुपं तपस्विनाम् ॥६८॥

गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।

पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥६९॥

स जीवति गुणा यस्य धर्मो यस्य च जीवति ।

गुणधर्मविहीनस्य जीवनं निष्प्रयोजनम् ॥७०॥

दुर्लभं प्राकृतं मित्रं दुर्लभः क्षेमकृत् सुतः ।

दुर्लभा सदृशी भार्या दुर्लभः स्वजनः प्रियः ॥७१॥

साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ।

तीर्थं फलति कालेन सद्यः साधुसमागमः ॥७२॥

सत्सङगः केशवे भक्तिर्गङगाम्भसि निमज्जनम् ।

असारे खलु संसारे त्रीणि साराणि भावयेत् ॥७३॥

शान्तितुल्यं तपो नास्ति न सन्तोषात् परं सुखम् ।

न तृष्णायाः परो व्याधिर्न च धर्मो दयासमः ॥७४॥

अन्नदाता भयत्राता विद्यादाता तथैव च ।

जनिता चोपनेता च पञ्चैते पितरः स्मृताः ॥७५॥

आदौ माता गुरोः पत्‍नी ब्राह्मणी राजपत्‍निका ।

धेनुर्धात्री तथा पृथ्वी सप्तैता मातरः स्मृताः ॥७६॥

आपदां कथितः पन्था इन्द्रियाणामासंयमः ।

तज्जयः सम्पदां मार्गो येनेष्‍टं तेन गम्यताम् ॥७७॥

समुद्रावरणा भूमिः प्राकारावरणं गृहम् ।

नरेन्द्रावरणो देशश्चरित्रावरणाः स्त्रियः ॥७८॥

परोपकरणं येषां जागर्त्ति हृदये सताम् ।

नश्यन्ति विपदस्तेषां सम्पदः स्युः पदे पदे ॥७९॥

नास्ति विद्यासभं चक्षुर्नास्ति सत्यसमं तपः ।

नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥८०॥

पादपानां भयं वातात् पद्मानां शिशिराद्भयम् ।

पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम् ॥८१॥

सुमिक्षं कृषके नित्यं नित्यं सुखमरोगिणः ।

भार्या भर्तुः प्रिया यस्य तस्य नित्योत्सवं गृहम् ॥८२॥

प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् ।

तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति ॥८३॥

क्षमया दयया प्रेम्णा सूनृतेनार्जवेन च ।

वशीकुर्याज्जगत् सर्वं विनयेन च सेवया ॥८४॥

अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिन्तयेत् ।

गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥८५॥

अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शनम् ।

सर्वस्य लोचनं ज्ञानं यस्य नास्त्यन्ध एव सः ॥८६॥

मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मनाम् ।

मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥८७॥

प्रविचार्योत्तरं देयं सहसा न वदेत् क्वचित् ।

शत्रोरपि गुणा ग्राह्या दोषास्त्याज्या गुरोरपि ॥८८॥

हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम् ।

कर्णस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम् ॥८९॥

तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् ।

जिताक्षस्य तृणं नारी निःस्पृहस्य तृणं जगत् ॥९०॥

पयः पानं भुजङगानां केवल्म विषवर्द्धनम् ।

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥९१॥

षड्‌ दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।

निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥९२॥

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-

र्दैवेन देयमिति कापुरुषा वदन्ति ।

दैवं निहत्य कुरु पौरुषमात्मशक्त्या

यत्‍ने कृते यदि न सिध्यति कोऽत्र दोषः ॥९३॥

परदारान्‌ परद्रव्यं परीवादं परस्य च ।

परीहासं गुरोः स्थाने चापल्यं च विवर्जयेत्‌ ॥९४॥

वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम्‌ ।

वृथा दानं समर्थस्य वृथा दीपो दिवापि च ॥९५॥

त्यज दुर्जनसंसर्गं भज साधुसमागमम्‌ ।

कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यताम्‌ ॥९६॥

दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत्‌ ।

सत्यपूतां वदेद्‌ वाचं मनःपूतं समाचरेत्‌ ॥९७॥

सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।

सत्येन वायवो वान्ति सर्वं सत्ये प्रतिष्ठितम्‌ ॥९८॥

कोऽतिभारः समर्थानां किं दूरे व्यवसायिनाम्‌ ।

को विदेशः सविद्यानां कः परः प्रियवादिनाम्‌ ॥९९॥

शोकस्थानसहस्त्राणि भयस्थानशतानि च ।

दिवसे दिवसे मूढमाविशन्ति न पण्डितम्‌ ॥१००॥

दरिद्रता धीरतया विराजते कुरुपता शीलतया विराजते ।

कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते ॥१०१॥

यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः ।

तथा चतुर्भिः पुरुषः परीक्ष्यते श्रुतेन शीलेन कुलेन कर्मणा ॥१०२॥

अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम्‌ ।

विषं गोष्ठी दरिद्रस्य भोजनान्ते जलं विषम ॥१०३॥

मातृवत्परदारेषु परद्रव्येषु लोष्टवत्‌ ।

आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥१०४॥

दानेन पाणिर्न तु कङकणेन स्नानेन शुद्धिर्न तु चन्दनेन ।

मानेन तृप्तिर्न तु भोजनेन ज्ञानेनमुक्तिर्न तु मण्डनेन ॥१०५॥

कःकालःकानि मित्राणि को देशः कौ व्ययागमौ ।

कस्याहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥१०६॥

अत्यन्तकोपः कटुका च वाणी दरिद्रता च स्वजनेषु वैरम्‌ ।

नीचप्रसङगकुलहीनसेवा चिह्नानि देहे नरकस्थितानाम्‌ ॥१०७॥

धनधान्य प्रयोगेषु विद्यासंग्रहणेषु च ।

आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्‌ ॥१०८॥

गुणैरुत्तमतां याति नोच्चैरासनसंस्थितः ।

प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥१०९॥

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।

तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥११०॥

पुस्तकेषु च या विद्या परहस्तेषु यद्धनम्‌ ।

उत्पन्नेषु च कार्येषु न सा विद्या न तद्धनम्‌ ॥१११॥

सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने ।

त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥११२॥

विप्रयोर्विप्रवह्नयोश्च दम्पत्योः स्वामिभृत्ययोः ।

अन्तरेण न गन्तव्यं हलस्य वृषभस्य च ॥११३॥

पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च ।

नैव गां च कुमारीं च न वृद्धं न शिशुं तथा ॥११४॥

आप्तद्वेषाद्भवेन्मृत्युः परद्वेषाद्धनक्षयः ।

राजद्वेषाद्भवेन्नाशो ब्रह्मद्वेषात्कुलक्षयः ॥११५॥

सदा प्रसन्नं मुखमिष्टवाणी सुशीलता च स्वजनेषु सख्यम्‌ ।

सतां प्रसङगः कुलहीनहानंचिह्नानि देहे त्रिदिवस्थितानाम्‌ ॥११६॥

राजा धर्ममृते द्विजः पवमृते विद्यामृते योगिनः

कान्ता सत्त्वमृते हयो गतिमृते भूषा च शोभामृते ।

योद्धा शूरमृते तपो व्रतमृते गीतं च पद्यान्यते

भ्राता स्नेहमृते नरो हरिमृते लोके न भाति क्वचित्‌ ॥११७॥

वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणा-

न्मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङगायते ।

व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते

यस्याङेगऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥११८॥

येषां न विद्या न तपो न दानं

ज्ञानं न शीलं न गुणो न धर्मः ।

ते मृत्युलोके भुवि भारभूता

मनुष्यरुपेण मृगाश्चरन्ति ॥११९॥

केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला

न स्नानं विलेपनं न कुसुमं नालङ्‌कृता मूर्धजाः ।

वाण्येका समलङकरोति पुरुषं या संस्कृता धार्यते

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्‌ ॥१२०॥

विद्या नाम नरस्य रुपमधिकं प्रच्छन्नगुप्‍तं धनं

विद्या भोगकरी यशःसुखकारी विद्या गुरुणां गुरुः ।

विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं

विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥१२१॥

रे रे चातक सावधानमनसा मित्र क्षणं श्रूयता-

मम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैतादृशाः ।

केचिद्‌वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद्‌वृथा

यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥१२२॥

मौनान्मूकः प्रवचनपटुश्चाटुलो जल्पको वा

धृष्टः पार्श्‍वे वसति च तदा दूरतश्चाप्रगल्भः ।

क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः

सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥१२३॥

गुणवदगुणवद्वा कुर्वता कार्यमादौ

परिणतिरवधार्या यत्‍नतः पण्डितेन ।

अतिरभसकृतानां कर्मणामाविपत्ते-

र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥१२४॥

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो

ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।

अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता

सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्‌ ॥१२५॥

दाक्षिण्यं स्वजने दया परजने शाठयं सदा दुर्जने

प्रीतिः साधुजने नयो नृपजने विद्वज्जनेष्वार्जवम्‌ ।

शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता

ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥१२६॥

साधुस्त्रीणां दयितविरहे मानिनो मानभङेग

सल्लोकानामपि जनरवे निग्रहे पण्डितानाम्‌ ।

अन्योद्रेके कुटिलमनसां निर्गुणानां विदेशे

भृत्याभावे भवति मरणं किन्तु सम्भावितानाम्‌ ॥१२७॥

क्वचिद्रुष्टः क्वचित्तुष्टो रुष्टस्तुष्टः क्षणे क्षणे ।

अव्यवस्थितचित्तस्य प्रसादोऽपि भयङकरः ॥१२८॥

अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।

स्वकार्यमुद्धरेत्प्राज्ञः कार्यध्वंसो हि मूर्खता ॥१२९॥

देवे तीर्थे द्विजे मन्त्रे दैवज्ञे भेषजे गुरौ ।

यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥१३०॥

नागो भाति मदेन कं जलरुहैः पूर्णेन्दुना शर्वरी

शीलेन प्रमदा जवेन तुरगो नित्योत्सवैर्मन्दिरम्‌ ।

वाणी व्याकरणेन हंसमिथुनैर्नद्यः सभा पण्डितैः

सत्पुत्रेण कुलं नृपेण वसुधा लोकत्रयं विष्णुना ॥१३१॥

वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः

पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः ।

निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टश्रियं मन्त्रिणः

सर्वः कार्यवशाज्जनोऽभिरमते कस्यास्ति को वल्लभः ॥१३२॥

मित्रं स्वच्छतया रिपुं नयबलैर्लुब्धं धनैरीश्चरं

कार्येण द्विजमादरेण युवतिं प्रेम्णा समैर्बान्धवान्‌ ।

अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथाभिर्बुधं

विद्याभी रसिकं रसेन सकलं शीलेन कुर्याद्वशम्‌ ॥१३३॥

गुणिगणगणनारम्भेन पतति कठिनी सुसम्भ्रमाद्यस्य ।

तेनाम्बा यदि सुतिनी वद वन्ध्या कीदृशी नाम ॥१३४॥

वरं मौनं कार्यं न च वचनमुक्तं यदनृतं

वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम्‌ ।

वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचि-

र्वरं भिक्षाशित्वं न च परधनास्वादनसुखम्‌ ॥१३५॥

पठतो नास्ति मूर्खत्वं जपतो नास्ति पातकम्‌ ।

जाग्रतस्तु भयं नास्ति कलहो नास्ति मौनिनः ॥१३६॥

मातेव रक्षति पितेव हिते नियुङ्‌क्ते

कान्तेव चाभिरमयत्यपनीय खेदम्‌ ।

लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं

किं किं न साधयति कल्पलतेव विद्या ॥१३७॥

उदारस्य तृणं वित्तं शूरस्य मरणं तृणम्‌ ।

विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत्‌ ॥१३८॥

ललितान्तानि गीतानि कुवाक्यान्तं च सौहृदम् ।

प्रणामान्तः सतां कोपो याचनान्तं हि गौरवम् ॥१३९॥

स्वगृहे पूज्यते मूर्खः स्वग्रामे पूज्यते प्रभुः ।

स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥१४०॥

अर्थातुराणां न गुरुर्न बन्धुः कामातुराणां न भयं न लज्जा ।

विद्यातुराणां न सुखं न निद्रा क्षुधातुराणां न रुचिर्न वेला ॥१४१॥

न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् ।

धर्मो न वै यत्र च नास्ति सत्यं सत्यं न तद्यच्छलनानुविद्धम् ॥१४२॥

मात्रा समं नास्ति शरीरपोषणं चिन्तासमं नास्ति शरीरशोषणम् ।

भार्यासमं नास्ति शरीरतोषणं विद्यासमं नास्ति शरीरभूषणम् ॥

सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।

वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥१४४॥

विद्यातीर्थे जगति विबुधाः साधवः सत्यतीर्थे

गङगातीर्थे मलिनमनसो योगिनो ध्यानतीर्थे ।

धारातीर्थे धरणिपतयो दानतीर्थे धानाढया

लज्जातीर्थे कुलयुवतयः पातकं क्षालयन्ते ॥१४५॥

सुलभाः पुरुषा लोके सततं प्रियवादिनः ।

अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥१४६॥

सुजीर्णमन्नं सुविचक्षणः सुतः

सुशासिता स्त्री नृपतिः सुसेवितः ।

सुचिन्त्य चोक्तं सुविचार्य यत्कृतं

सुदीर्घकालेऽपि न याति विक्रियाम् ॥१४७॥

उपकारः परो धर्मः परार्थं कर्म नैपुणम् ।

पात्रे दानं परः कामः परो मोक्षो वितृष्णता ॥१४८॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP