तीर्त्वा क्षारपयोनिधिं क्षणमथो गत्वा श्रियः सन्निधौ
दत्त्वा राघवमुद्रिकामपशुचं कृत्वा प्रविश्याटवीम् ।
भङ्क्त्वाशेषतरुन्निहत्य बहुशो रक्षोगणांस्तत्पुरीं
दग्ध्वाऽऽदाय मणिं रघूत्तममगाद्वीरो हनूमान्कपिः ॥३६॥
अतुलितबलधामं स्वर्णशैलाभदेहं
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।
सकलगुणनिधानं वानराणामधीशं
रघुपतिवरदूतं वातजातं नमामि ॥३७॥
अञ्जानानन्दनं वीरं जानकीशोकनाशनम् ।
कपीशमक्षहन्तारं वन्दे लङकाभयङकरम् ॥३८॥
कदा सीताशोकत्रिशिखजलदं चाञ्जनिसुतं
चिरञ्जीवं लोके भजकजनसंरक्षणकरम् ।
अये वायोः सूनो रघुवरपदाम्भोजमधुप
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥३९॥
देहदृष्टया तु दासोऽहं जीवदृष्टया त्वदंशकः ।
वस्तुतस्तु त्वमेवाहमिति मे निश्चिता मतिः ॥४०॥
विताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम् ।
सीतापतिदूताद्यं वातात्मजमद्य भावये हृद्यम् ॥४१॥
तरुणारुणमुखकमलं करुणारसपूरपूरितापाङगम् ।
संजीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥४२॥
शम्बरवैरिशरातिगमम्बुजदलविपुललोचनोदारम् ।
कम्बुगलमनिलदिष्टं विम्बज्वलितोष्ठमेकमवलम्बे ॥४३॥
दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः ।
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४४॥
वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम् ।
दीनजनावनदीक्षं पवनतपः पाकपुञ्जमद्राक्षम् ॥४५॥
एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।
चिरमिह निखिलान्भोगान्भुक्त्वा श्रीरामभक्तिभाग्भवति
(श्रीमदाद्यशङकराचार्यस्य हनुमत्पञ्चरत्नस्तोत्रात् )