जय जय हे शिव दर्पकदाहक दैत्यविघातक भूतपते
दशमुखनायक शायकदायक कालभयानक भक्तगते ।
त्रिभुवनकारकधारकमारक संसृतिकारक धीरमते
हरिगुणनायक ताण्डवनायक मोक्षविधायक योगरते ॥१॥
शिशिरकिरणधारी शैलबालाविहारी
भवज्लनिधितारी योगिहृत्पद्मचारी ।
शमनजभयहारी प्रेतभूमिप्रचारी
कृपयतु मयि देवः कोऽपि संहारकारी ॥२॥
यः शङकरोऽपि प्रणयं करोति स्थाणुस्तथा यः परपूरुषोऽपि ।
उमागृहीतोऽप्यनुमागृहीतः पायादपायात्स हि नः स्वयम्भूः ॥३॥
मूद्धप्रोद्भासिगङेगक्षणगिरित नयादुःखानिःश्वासपात
स्फायन्मालिन्यरेखाछविरिव गरलं राजते यस्य कण्ठे ।
सोऽयं कारुण्यसिन्धुः सुरवरमुनिभिः स्तूयमानो वरेण्यो
नित्यं पायादपायात्सततशिवकरः शङकरः किङकरंमाम् ॥४॥
किं सुप्तोऽसि किमाकुलोऽसि जगतः सृष्टस्य रक्षाविधौ
किंवा निष्करुणोऽसि नूनमथवा क्षीबः स्वतन्त्रोऽसि किम् ।
किंवा मादृशनिः शरण्यकृपणाभाग्यैर्जडोऽवागसि
स्वामिन्यन्न श्रृणोषि मे विलपितं यन्नोत्तरं यच्छसि ॥५॥
कुन्द इन्दुदरगौरसुन्दरं अम्बिकापतिमभीष्ट्सिद्धिदम् ।
कारुणीककलकञ्जलोचनं नौमि शङ्करमनङगमोचनम् ॥६॥
मूलं धर्मतरोर्विवेकजलधेः पूर्णेन्दुमानन्ददं
वैराग्याम्बुजभास्करं ह्यघघनध्वान्तापहं तापहम् ।
मोहाम्भोधरपूगपाटनविधौ श्वासं भवं शङकरं
वन्दे ब्रह्मकुलं कलङकशमनं श्रीरामभूपप्रियम् ॥७॥
कदा द्वैतं पश्यन्नखिलमपि सत्यं शिवमयं
महावाक्यार्थानामवगतसमभ्यासवशतः ।
गतद्वैताभावः शिव शिव शिवेत्येव विलपन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥८॥
त्राता यत्र न कश्चिदस्ति विषमे तत्र प्रहर्तुं पथि
द्रोग्धारो यदि जाग्रति प्रतिविधिः कस्तत्र शक्यक्रियः ।
यत्र त्वं करुणार्णवस्त्रिभुवनत्राणप्रवीणः प्रभु-
स्तत्रापि प्रहरन्ति चेत् परिभवः कस्यैष गर्हावहः ॥९॥
अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षामिधैः
क्षिप्तं मोहमदान्धकूपकुहरे दुर्हृद्भिराभ्यन्तरैः ।
क्रन्दन्तं शरणागतं गतधृतिं सर्वापदामास्पदं
मा मा मुञ्च महेश पेशलदृशा सत्रासमाश्वासय ॥१०॥
कदा वाराणस्याममरतटिनीरोधसि वसन्
वसानः कौपीनं शिरसि निधधानोऽञ्जलिपुटम् ।
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥११॥
कदा वाराणस्यां विमलतटिनीतीरपुलिने
चरन्तं भूतेशं गणपतिभवान्यादिसहितम् ।
अये शम्भो स्वामिन् मधुरडमरुवादन विभो
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥१२॥
कल्पान्तक्रूरकेलिः क्रतुकदनकरः कुन्दकर्पूरकान्तिः
क्रीडन्कैलासकूटे कलितकुमुदिनीकामुकः कान्तकायः ।
कङकालक्रीडनोत्कः कलितकलकलः कालकालीकलत्रः
कालिन्दीकालकण्ठः कलयतु कुशलं कोऽपि कापालिकः कौ ॥१३॥
स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने
सुखासीना शान्तध्वनिषु रजनीषु द्युसरितः ।
भवाभोगोद्विग्नाः शिव शिव शिवेत्यार्तवचसा
कदा स्यामानन्दोद्गतबहुलबाष्पाप्लुतदृशः ॥१४॥
यस्ते ददाति रवमस्य वरं ददासि
योवा मदं वहति तस्य दमं विधत्से ।
इत्यक्षरद्वयविपर्ययकेलिशील
किं नाम कुर्वति नमो न मनः करोषि ॥१५॥