अस्ति श्रियः सद्म सुमेरुनामा समस्तकल्याणनिधिर्गिरीन्द्रः । तिष्ठन्निदं विश्वमनुप्रविश्य स्वेनात्मना विष्णुरिवोर्जितेन ॥०१॥
मिथस्तिरोभावविलोकनाभ्यां सङ्क्रीडमानाविव बालकौ द्वौ । पार्श्वेषु यस्याशु परिभ्रमन्तौ चन्द्रांशुमन्तौ नयतो दिनानि ॥०२॥
उच्चैश्शिखः काञ्चनगौरवर्णस्तमो निगृह्णन्महसा निजेन । दीपस्त्रयाणामिव विष्टपानां यो भाति पर्यन्तचरत्पतङ्गः ॥०३॥
यस्या पतित्वे विहिताभिलाषः करोति तीव्राणि तपांसि लोकः । बिभर्ति रत्नाकरमेखलां तामङ्केन पुत्रीमिव यो धरित्रीम् ॥०४॥
महान्ति दानानि मखानुदग्रान् पराञ्चि पानाशनयोस्तपांसि । शरीरिणः शान्तमलैर्मनोभिः कुर्वन्ति यच्छृङ्गनिवासकामाः ॥०५॥
सुरा युगान्तेषु सह प्रियाभिर्न्निषेदिवांसो यदधित्यकासु । उदन्वतामैक्यमुपागतानां पश्यन्ति कल्लोलशतप्रचारान् ॥०६॥
पुष्पाणि शय्यास्सुरपादपानां क्रीडागृहाः काञ्चनगह्वराणि । भवन्ति च स्वर्गविलासिनीनां रत्नाङ्कुरा यत्र रतिप्रदीपाः ॥०७॥
स्वर्गौकसस्स्वर्णमहीषु पीताः श्वेतत्विषो रूप्यमयीषु भूषु । नीलाश्च नीलोपलमेदिनीषु ज्ञातुं मिथो यत्र न शक्नुवन्ति ॥०८॥
दरीगृहोत्सङ्गगतेरनूरोः कशाभिघातध्वनिभिः सकम्पाः । सद्यः प्रियानुज्झितमानदोषाः सुराङ्गना यत्र परिष्वजन्ते ॥०९॥
नेतुं त्रपानम्रमुखीरनीशाः स्फुटानि यत्स्वर्णगुहान्तराणि । सिद्धाः प्रयत्नेन विना नवोढाः नयन्ति नीलोपलगह्वराणि ॥१०॥
यत्रोद्यतानां कुसुमापचाये कान्तासु कल्पद्रुमवाटिकासु । विभान्ति सुत्रामविलासिनीनां पदानि लाक्षारसपाटलानि ॥११॥
पयोदमार्गव्यतिलङ्घिनीषु हंसाः शिरःपुष्करिणीषु यस्य । वर्षागमेऽप्यश्रुतमेघनादाः न कुर्वते मानसदीर्घयात्राम् ॥१२॥
छन्नेषु यस्मिन् कनकोज्ज्वलाभिरामूलचूडं नवमञ्जरीभिः । गन्धेन विज्ञाय पतन्ति भृङ्गाः शृङ्गान्तरारग्वधपादपेषु ॥१३॥
मन्दाकिनी यच्छिखरे वहन्ती कुल्यापथाभ्यन्तरसम्प्रविष्टा । बालेव तद्रक्षणसम्प्रवृत्ता दिने दिने सिञ्चति पुष्पवाटीम् ॥१४॥
श्रियाभिरामश्शरणं सुराणामलङ्घनीयो महता महिम्ना । विराजमानो वनमालया च यः शार्ङ्गधन्वानमनुप्रयाति ॥१५॥
पुरा पुराणां त्रितयं दिधक्षोरुमापतेः कार्मुकतां प्रपन्नः । मध्येन वज्राङ्कुशमत्स्यचिह्नं योऽद्यापि तन्मुष्टिपदं दधाति ॥१६॥
शृङ्गाग्रभाजां सुरसुन्दरीणां मुखानि पश्यन्नमलानि चन्द्रः । निगूहितुं नूनमुरःकलङ्कं ह्रियेव यत्सानुपथेन याति ॥१७॥
मनोभिरामे शिखरे तदीये सहोपविष्टं सुरसिद्धसङ्घैः । अवोचदागत्य कृतप्रणामा कदाचिदुर्वी कमलाधिवासम् ॥१८॥
पुमानिवाहं भवतः पुरस्ताद्ब्रवीमि किञ्चित् प्रतिपद्य धैर्यम् । पीडा मदीया परमत्र हेतुर्निर्ल्लज्जता नन्वखिलोपहास्या ॥१९॥
सृष्टास्त्वया दत्तवराश्च दैत्याः भारेण मां सम्प्रति पीडयन्ति । बले प्रमाणे च भवन्ति येषां नैवोपमानं कुलभूभृतोऽपि ॥२०॥
स्वविक्रमोन्मूलितराजकानां जयैषिणामद्य परस्परेण । तेषां रणक्षोणिषु सिंहनादैर्निर्घातघोरैर्गिरयः स्फुटन्ति ॥२१॥
मुहुर्बलादुन्नमयत्यहीन्द्रे मद्भारभुग्नं फणचक्रवालम्। मम प्रकम्पाश्चलिताब्धिशैलाः दिग्दन्तिनो हन्त कदर्थयन्ति ॥२२॥
आशामुखेषु भ्रमतामजस्रं तेषां चमूभिः परिसर्पिणीभिः । तिरोहितां भानुमतो मयूखाः न क्वापि मां सम्प्रति संस्पृशन्ति ॥२३॥
सन्नास्मि दैतेयभरेण साहं फणीश्वरस्सीदति मद्भरेण । तद्भारशीर्यन्निजकर्परस्य धिक् तामवस्थां कमठेश्वरस्य ॥२४॥
भारावसीदद्फणमण्डलस्य फणीश्वरस्योपरि दुःस्थिताऽहम् । आसन्नपातास्मि तटीव नद्याः प्रवाहवेगेन विलुप्तमूला ॥२५॥
निवेदिता देव मया दशेयमनुक्तिदोषो मयि नोपपाद्यः । निवेद्यते रक्ष्यजनेन दुःखं ततः परस्तात् प्रभवः प्रमाणम् ॥२६॥
इत्युक्तवत्यामुचितं पृथिव्यां चिन्ताबलेन स्तिमितो मुहूर्तम् । मुखानि पश्यन्नमृताशनानां देवः प्रजानां पतिरित्युवाच ॥२७॥
नासत्यमेतद्यदवोचदुर्वी स्वकर्मणः साधु फलं मयाऽऽप्तम् । मद्वर्द्धिता मामवमत्य दैत्याः बलादुपघ्नन्ति जगन्ति यत्ते ॥२८॥
अतीतकार्यानुशयेन किं स्यादशेषविद्वज्जनगर्हितेन । सुराः समुन्मूलनमाशु तेषां कर्तुं यतध्वं जगतां हिताय ॥२९॥
सद्यस्समुत्तिष्ठत चिन्तयालं चिन्ता हि कार्यप्रतिबन्धहेतुः । यामः पृथिव्या सह यत्र तत्र नारायणो दानवकालरात्रिः ॥३०॥
अस्त्वेवमित्यादरपूर्वमेव स स्वीकृतोक्तिस्सुरसिद्धसङ्घैः । सरोजजन्मा सह तैः प्रतस्थे विहायसा विश्वपतेस्सकाशम् ॥३१॥
एलापरिष्वङ्गलसत्तमालं वेलाधिरूढस्खलदूर्मिमालम् । ददर्श धाता मनसोऽनुकूलं पयःपयोधेरचिरेण कूलम् ॥३२॥
ददर्श च क्षीरमयं समुद्रं कैलासशृङ्गोन्नतफेनकूटम् । पुण्यं पयःकेलिसमुत्सुकानां श्रियः सखीनामवगाहनेन ॥३३॥
आनन्दयामास दिवौकसस्तानाघ्रातशेषो मुनिमण्डलेन । प्रकामपुण्यः पवनोपनीतो वैकुण्ठवक्षस्तुलसीसुगन्धः ॥३४॥
गन्धानुसारेण विसृष्टनेत्रैर्हिरण्यगर्भप्रमुखैरमर्तैः । नवार्ककल्पं ददृशे मुरारेर्वक्षस्थलीकौस्तुभरत्नधाम ॥३५॥
अपह्नुताशेषमनोविकारं दिविस्पृशा तूर्यरवेण मिश्रम् । आकर्ण्य वैकुण्ठविलासिनीनां गीतध्वनिं हर्षमयासिषुस्ते ॥३६॥
आसक्तिमालक्ष्य विनीतवेषा स्वमौलिविन्यस्तकरास्सुरास्ते । आलोकयामासुरशेषनाथं सविग्रहं पुण्यमिव प्रजानाम् ॥३७॥
प्रवृद्धहेमाभरणप्रकाशं तमालनीलं जलधौ शयानम् । तटिल्लताढ्यं पयसोऽतिपानादनीशमुद्गन्तुमिवाम्बुवाहम् ॥३८॥
तरङ्गवातेन पयःपयोधेरापूर्यमाणं करपाञ्चजन्यम् । वामेन तिर्यग्वलता सलीलं सम्भावयन्तं मुहुरीक्षणेन ॥३९॥
प्रतिक्षणं प्रेमविशेषजाभिस्सम्भावनाभिः कमलासनायाः । पुराऽऽत्मना कल्पितमम्बुराशेः प्रमार्जयन्तं मथनावमानम् ॥४०॥
पर्यायतः पाणिधृतं सरोजं विन्यस्य विन्यस्य दृशोः पदव्याम्। निद्रां प्रबोधं च मुहुर्न्नयन्तीं पद्मासनां सस्मितमीक्षमाणाम् ॥४१॥
स्वच्छस्वदेहप्रतिबिम्बितेन फणाश्मजालेन फणीश्वरस्य । भास्वत् फलस्तोमनिरन्तरस्य वहन्तमाभां वटपादपस्य ॥४२॥
अजस्रमासीनरथाङ्गशङ्खमतिप्रसन्नं कमलाधिवासम् । सन्तापविच्छेदकरं प्रजानां ह्रदं महीयांसमिवाभिगम्यम् ॥४३॥
वक्तुं मिथो राहुविचेष्टितानि कर्णद्वयाभ्यर्णमुपेयिवांसौ । अलब्धकालाविव भानुचन्द्रौ रथाङ्गशङ्खौ दधतं कराभ्याम् ॥४४॥
द्वारस्थसेनापतिचोदितेन निवारिताः कञ्चुकिमण्डलेन । सुराः प्रमोदस्खलितैर्वचोभिः स्थित्वैव ते व्योमनि तुष्टुवुस्तम् ॥४५॥
नमः परस्मै पुरुषाय तुभ्यं गिरां धियामप्यपथि स्थिताय । अस्मान् पुनस्त्रातुमुदग्रमोहान् कृपाबलात् कल्पितविग्रहाय ॥४६॥
भागीरथी पादकुशेशयात्ते विनिर्गता विश्वमिदं पुनीते । कस्त्वां पुनर्भावयतो जनस्य शुद्धिं परिच्छेत्तुमलं मनीषी ॥४७॥
अनन्तशक्तेरपविक्रियस्य तिस्रस्त्रिलोकीश्वर शक्तयस्ते । वितन्वते स्थावरजङ्गमानामुत्पादनक्षेमविलोपनानि ॥४८॥
कटाक्षमात्रेण भवाम्बुराशेः पारं परं प्रापयितुस्त्रिलोकीम् । सकृन्नमस्या परमातरस्ते यत्नानुरूपं हि फलं क्रियाणाम् ॥४९॥
त्वं ज्योतिरापस्त्वमसि त्वमुर्वी त्वं व्योम वैश्वानरसारथिस्त्वम् । त्वं जीववर्गः परमस्त्वमात्मा यन्नासि किं नाम जगत्पते तत् ॥५०॥
नवाभ्रवर्णं नलिनायताक्षं पीताम्बरं हारकिरीटिनं त्वाम् । वयं तु सेवेमहि वीक्षमाणाः सायूज्यमन्विछति कः सुखार्थी ॥५१॥
अलं न निर्देष्टुमियत्तया त्वामशेषनाथ श्रुतिरग्रिमापि । स एव साक्षात्क्रियते पुनस्त्वमहो जितं नः सुकृतैरनल्पैः ॥५२॥
तृणाय मत्वा निखिलानि शार्ङ्गिन् पदानि वैधेयमनोहराणि । आवृत्तिशून्यं परमं पदं ते वाञ्छन्ति वैराग्यधना महान्तः ॥५३॥
इति स्तुतो देवगणेन देवो दयानिधिर्दानवकालरात्रिः । न्यषीददुत्थाय भरावभुग्ने भुजङ्गतल्पे भुवनैकनाथः ॥५४॥
विष्वक् स वैकुण्ठविलासिनीनां सलीलमान्दोलितचामराणाम् । निवारयन्नग्रकरारविन्दैः कोलाहलं काञ्चनकङ्कणोत्थम् ॥५५॥
प्रसादवत्या कमलासनादीन् सुरानशेषाननुगृह्य दृष्ट्या । उवाच वाचं दशनांशुपूरैः समेधयन् दुग्धमयं पयोधिम् ॥५६॥
अधिज्यकोदण्डधरो निषङ्गी सन्नाहवान् पाणिधृतैकबाणः । अयं समाजो भवतां द्विषद्भ्यो भयं समावेदयति स्फुटं मे ॥५७॥
अलं विलम्बेन दिवौकसस्तन्निवेद्यतामद्य कुतो भयं वः । अयं करो दुष्टवधोत्सुकं मे सुदर्शनं न क्षमते निरोद्धुम् ॥५८॥
इत्यूचिवांसं परमं पुमांसं नत्वा शिरोभिर्बहुशः सुरास्ते । आरूढहर्षातिशयाः स्वमर्थमारेभिरे वक्तुमशेषमेव ॥५९॥
निवार्य सर्वानपि वक्तुकामान् सेनापतिस्तानमरान् करेण । सविभ्रमप्रेरितया पुरस्थं दृष्ट्या सरोजासनमाजुहाव ॥६०॥
अथागतस्तेन करे गृहीत्वा नीतः प्रभोरन्तिकमब्जयोनिः । वक्तुं नियुक्तः स कृतप्रणामो विज्ञापयामास विनीतवेषः ॥६१॥
वयं त्वया दत्तविभूतयोऽपि मोहातिरेकादभिमन्यमानाः । कृच्छ्रे पुनस्त्वां शरणं व्रजन्तः हा निस्त्रपाणां प्रथमे भवामः ॥६२॥
अपारदुःखार्णवपोतपात्रीं त्वया कृपामुद्वहतातिगुर्वीम् । कृतघ्नताजन्मभुवाममीषामस्माकमर्थे न किमन्वभावि ॥६३॥
मनस्विलोकस्य विगर्हणीये प्रतिग्रहे वर्जयता जुगुप्साम् । पुरा पुरस्ताद्बलिदानवस्य प्रसारितो नाग्रकरस्त्वया किम् ॥६४॥
दैत्याधिराजेन हिरण्यनाम्ना पर्याकुलं त्रातुमशेषलोकम् । इदं तु दिव्यं परिहृत्य रूपं न त्वं किमासीर्नरतिर्यगात्मा ॥६५॥
स्वविक्रमाक्रान्तसुरासुरस्य रक्षःपतेर्निग्रहणादरेण । भूत्वा सुतः पङ्क्तिरथस्य राज्ञस्तां तामवस्थां न किमन्वभूस्त्वम् ॥६६॥
अनेकधा पालयितारमेवं सम्प्रत्यपि त्वां शरणं प्रपन्नाः । सन्तापहारी ननु चातकानां भूयोऽपि भूयोऽपि पयोद एव ॥६७॥
विश्वं विदन्नप्यविदन्निव त्वं नाथानुयुङ्क्षे भयहेतुमस्मान् । अनुग्रहस्यैतदपि प्रभूणां प्रायः प्रकारान्तरमाश्रितेषु ॥६८॥
तपोभिरुग्रैर्भगवन् सुराणामवध्यभावं दनुजाः प्रपन्नाः । पातालमुर्वीं च विजित्य दर्पादुपक्रमं ते दिवमद्य जेतुम् ॥६९॥
न जातु शून्यः कुलिशेन पाणिर्वक्षो न मुक्तं मणिकङ्कटेन । शक्रस्य दैत्यागतिशङ्किनोऽस्य नासज्जितस्तिष्ठति वारणेन्द्रः ॥७०॥
दण्डं यमात्पाशमपामधीशाद्गदां कुबेरात्कुलिशं मघोनः । आदातुकामः प्रहिणोति दूतान् कंसः स्वदोर्विक्रमनिर्जिताशः ॥७१॥
रणे विनिर्जित्य बलं सुराणां पराक्रमेणाप्रतिमेन वीरः । भोजेश्वरः क्रीडति सावरोधो मूलेषु सम्प्रत्यमरद्रुमाणाम् ॥७२॥
धनुर्धराध्यासितवप्रशीर्षाः द्वाःपालनव्यग्रसमग्रयोधाः । प्रवीरनिर्भर्त्सितकान्दिशीका स्थातुं न जानाति पुरी सुराणाम् ॥७३॥
हाहेति विक्रोशदनाथमेतद्विश्वं जगत्पीडयतः प्रकामम् । त्वया विनाऽन्यस्त्रिषु विष्टपेषु न कर्तुमीष्टे नरकस्य भङ्गम् ॥७४॥
प्रलम्बकेशिप्रमुखास्तथान्ये परस्सहस्रं परियन्ति दैत्याः । निर्घातकल्पैर्निजसिंहनादैर्विदारयन्तो वियदाहवेषु ॥७५॥
षट् सूनवस्सन्ति हिरण्यनाम्नो दैत्यस्य पातालतलाधिवासैः । तैर्न्नः क्रियन्ते दुरितानि यानि वक्तुं न शक्यानि मुकुन्द तानि ॥७६॥
तेषां महीध्रप्रतिमाकृतीनां भारं मही सोढुमसावशक्ता । अस्मान् पुरस्कृत्य भवत्सकाशं प्राप्ता निजक्लेशनिवेदनाय ॥७७॥
तदेतदावेदनमस्मदीयं श्रुत्वा प्रमाणं प्रभुरित्युदीर्य । विधिर्व्यरंसीद्विहितप्रणामः स चापि गम्भीरमुवाच देवः ॥७८॥
अलं विषादेन दिवौकसो वः समीहितं हस्तगतं मनुध्वम् । व्रतं हि मे केवलमेतदेव संरक्षणं यच्छरणागतानाम् ॥७९॥
मामर्थयन्ते वसुदेवपत्न्यौ पत्नी च नन्दस्य सुतं गुणाढ्यम् । अंशद्वयेन व्रतकर्शिताङ्गीस्तिस्रोऽपि ताः पुत्रवतीर्विधास्ये ॥८०॥
इयं च लोकत्रितयस्य माता मायाभिधाना मम शक्तिरग्र्या । कार्याणि वः कान्यपि कर्तुकामा जनिष्यते जन्मविनाशशून्या ॥८१॥
तद्गच्छत स्वर्गमपेतखेदाः न कालहानिः परिशङ्कनीया । अनेन शार्ङ्गेण शपे शरैर्वः सद्यो मनःशल्यमपाकरिष्ये ॥८२॥
इति तममरलोकं सान्त्वयित्वा स देवः सपदि नवघनाभः पद्मनाभस्तिरोऽभूत् । स च विहितनमस्यस्तस्य वाचं प्रशंसन् निजपदमभिपेदे हर्षपर्याकुलात्मा ॥८३॥
इति सुकुमारकृतौ कृष्णविलासकाव्ये प्रथमः सर्गः ॥१॥

N/A

References : N/A
Last Updated : October 24, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP