संस्कृत सूची|पूजा विधीः|आदिशङ्कराचार्यपूजाविधिः| अभिषेकः आदिशङ्कराचार्यपूजाविधिः आचम्य आसनविधिः कलशार्चनम् शंखपूजा श्रीमहागणपति पूजा अथ नामपूजा आत्मपूजा द्वारदेवता पूजा पीठपूजा अभिषेकः श्रीगन्धम्, अक्षतम् भस्मोद्धूलनम् अथ पत्रपूजा , पुष्पपूजा धूपम्, दीपम् नैवेद्यम्, ताम्बूलम् मङ्गलनीराजनम्, रक्षाधारणम् प्रसन्नार्घ्यम्, प्रार्थना पुनः पूजा आदिशङ्कराचार्यपूजाविधिः - अभिषेकः श्रीशङ्करभगवत्पाद पूजाविधिः Tags : poojasanskritshankaracharyavidhiपूजाविधीशंकराचार्यसंस्कृत अभिषेकः Translation - भाषांतर वाराणसीपुरी रम्यगङ्गातीरनिषेवक । गङ्गादितीर्थैः श्रीरुद्रमन्त्रैस्त्वां स्नपयाम्यहम् ॥ ॐ तच्छं योरावृणीमहे । गातुं यज्ञाय। गातुं यज्ञपतये । दैवी।"स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे।"। शम् चतुष्पदे । ॐ शान्तिश्शान्तिश्शान्तिः ॥ ॐ सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । स भूमि।म् विश्वतो वृत्वा । अत्यतिष्टद्दशाङ्गुलम् । पुरुष एवेदं सर्वम् । यद्भूतं यच्च भव्यम् । उतामृतत्वस्येषानः । यदन्नेनातिरोहति । एतावानस्य महिमा । अतो ज्यायांश्च पूरुषः । पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि । त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाऽऽभवात्पुनः । ततो विश्वङ्व्यक्रामत् । साशनानशने अभि । तस्मा।"द्विराडजायत । विराजो अधि पूरुषः । स जातो अत्यरिcयत । पश्चाद्भूमिमथो पुरः । यत्पुरुषेण हविषा । देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यम । ग्रीष्म इध्मश्शरद्धविः । सप्तास्यासन् परिधयः । त्रिस्सप्त समिधः कृताः । देवा यद्यज्ञ।म् तन्वानाः । अबध्नन् पुरुषं पशुम् । तं यज्ञं बर्हिषि प्रौक्ष्हन। पुरुषं जातमग्रतः । तेन देवा अयजन्त । साध्या ऋषयश्च ये । तस्मांद्यज्ञाथ्सर्व हुतः । स।म्भृत।म् पृषदाज्यम् । पशूंस्तांश्चक्रे वायव्यान् । आरण्यान् ग्राम्याश्च ये । तस्मांद्यज्ञाथ्सर्वहुतः । ऋचस्सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्मात् । यजुस्तस्मादजायत । तस्मादश्वा अजायन्त । ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् । तस्माज्जाता अजावयः । यत्पुरुष।म् व्यदधुः । कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू । कावूरू पादावुcयेते । ब्राह्मणो।"ऽस्य मुखमासीत् । बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः । पद्भ्यां शूद्रो अजायत । चन्द्रमा मनसो जातः । चक्षोस्सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत । नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौस्समवर्तत । पद्भ्या।म् भूमिर्दिशः श्रोत्रात् । तथा लोकां अकल्पयन् । वेदाहमेतं पुरुषं महान्तम । आदित्यवर्णं तमसस्तु पारे। सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन् यदास्त । धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान् प्रदिशश्चतस्रः । तमेव।म् विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते । यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् । ते ह नाकम् महिमानस्सचन्ते । यत्र पूर्वे साध्यास्सन्ति देवाः । अद्भ्यः स।म्भूतः पृथिव्यै रसाच्च । विश्वकर्मणस्समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसः परस्तात् । तमेवम् विद्वानमृत इह भवति । नान्यः पन्था विद्यतेयऽनाय । प्रजापतिश्चरति गर्भे अन्तः । अजायमनो बहुधा विजायते। तस्य धीराः परिजानन्ति योनिम्। मरीचीनां पदमिच्छन्ति वेधसः ॥ यो देवेभ्य आतपति । यो देवानां पुरोहितः । पूर्वो यो देवेभ्यो जातः । नमो रुचाय ब्राह्मये । रुचं ब्राह्मम् जनयन्तः । देवा अग्रे तदब्रुवन । यस्त्वैवं ब्राह्मणो विद्यात् । तस्य देवा असन् वशे । ह्रीश्च ते लक्ष्मीश्च पत्न्यौ । अहोरात्रे पार्श्वे । नक्षत्राणि रूपम् । अश्विनौ व्यात्तम्। इष्टम् मनिषाण । अमु।म् मनिषाण । सर्वम् मनिषण ॥ तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे"। शम् चतुष्पदे । ॐ शान्तिश्शान्तिश्शान्तिः ॥ ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमश्शंभवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कूल्याय च नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नम आतार्याय चालाद्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च ॥ ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृता"त् ॥ ॐ यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु ॥ ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे । तान् यज्ञस्य मायया सर्वानव यजामहे । मृत्यवे स्वाहा मृत्यवे स्वाहा ॥ ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि । प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः । तेनान्नेना"प्यायस्व ॥६॥ नमो रुद्राय विष्णवे मृत्युर्मे पाहि । सदाशिवोम् ॥ ॐ शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॥ ॐ इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि शंसिषद्विश्वेदेवाः सूक्तवाचः पृथिवीमातर्मा मा हिंसीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासं शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥ अश्वपूर्वां रथमध्यां हस्तिना।"दप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा।" देवी जुषताम् ॥३॥ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् ॥८॥ गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥ मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥ कर्दमेन प्रजाभूतामयि सम्भव कर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥ आपः सृजन्तु स्निग्धानि चिक्लीत वसमे गृहे । निच देवीं मातरं श्रियं वासय मे कुले ॥१२॥ आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥ आर्द्रां यः करिणीं यष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावोदास्योऽश्वान् विन्देयं पुरुषानहम् ॥१५॥ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॥ ॐ जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥१॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरसितरसे नमः ॥२॥ अग्ने त्वं पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥३॥ विश्वानि नो दुर्गहा जातवेदस्सिन्धुन्ननावा दुरिताऽतिपर्षि । अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोद्ध्यविता तनूनाम् ॥४॥ पृतनाजितं सहमानमुग्रमग्निं हुवेम परमाथ्सधस्थात् । स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरितात्यग्निः ॥५॥ प्रत्नोषिकमीड्यो अध्वरेषु सनाच होता नव्यश्च सथ्सि । स्वाञ्चा।"ग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व ॥६॥ गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णोरनुसञ्चरेम । नाकस्य पृष्ठमभिसंवसानो वैष्णवीं लोक इहमादयन्ताम् ॥७॥ कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात् ॥ ॐ भूर्भुवस्स्अः । अमृताभिषेकोऽस्तु ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः स्नानाङ्गमाचमनीयमाचमनीयं समर्पयामि ॥ वस्त्रयुग्मम् ॐ सप्तास्यासन् परिधयः । त्रिस्सप्त समिधः कृताः । देवा यद्यज्ञ।म् तन्वानाः । अबध्नन् पुरुष।म् पशुम् । भाष्यभागीरथीपाथः पवित्रीकृतभूतल । भाष्यप्रवचनासक्त वस्त्रयुग्मं ददामि ते ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः वस्त्रयुग्मं समर्पयामि ॥ श्रीशङ्करभगवत्पादाचार्यस्वामिने नमः आचमनीयमाचमनीयं समर्पयामि ॥ N/A References : N/A Last Updated : October 23, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP