संस्कृत सूची|संस्कृत साहित्य|संहिता|व्याससंहिता| चतुर्थोऽध्यायः व्याससंहिता प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः व्याससंहिता - चतुर्थोऽध्यायः संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत. Tags : samhitaसंहिता चतुर्थोऽध्यायः Translation - भाषांतर इति व्यासकृतं शास्त्रं धर्म्मसार समुच्चयेम् । आश्रमे यानि पुण्यानि मोक्षधर्म्माश्रितानि च ॥१॥ गृहाश्रमात् परो धर्म्मो नास्ति नास्ति पुनः पुनः । सर्वतीर्थ फलं तस्य यथोक्तं यस्तु पालयेत् ॥२॥ गुरूभक्तो भृत्यपोषी दयावाननसूयकः । नित्यजापी च होमी च सत्यवादी जितेन्द्रियः ॥३॥ स्वदारे यस्य सन्तोषः परदारनिवर्त्तनम् । अप्रवादोऽपि नो यस्य तस्य तीर्थफलं गृहे ॥४॥ परदारान् परद्रव्यं हरते यो दिने दिने । सर्वतीर्थाभिषेकेण पापं तस्य न नश्यति ॥५॥ गृहेषु सवनीयेषु सर्वतीर्थफलं ततः । अन्नदस्य त्रयो भागाः कर्त्ता भागेन लिप्यते ॥६॥ प्रतिश्रयं पादशौचं ब्राह्मणानाञ्च तर्पणम् । न पापं संस्पृशेत्तस्य वलिभिक्षां ददाति यः ॥७॥ पादोदकं पादधृतं दीपमन्नं प्रतिश्रयम् । यो ददाति ब्राह्मणेभ्यो नोपसर्पति तं यमः ॥८॥ विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी । तावत् पुष्करपात्रेषु पिवन्ति पितरोऽमृतम् ॥९॥ यत् फलं कपिलादाने कार्त्तिक्यां ज्येष्ठपुष्करे । तत् फलं ऋषयः श्रेष्ठा विप्राणां पादशौचने ॥१०॥ स्वागतेनाग्नयः प्रीता आसनेन शतक्रतुः । पितरः पादशौचेन अन्नाद्येन प्रजापतिः ॥११॥ मातापित्रोः परं तीर्थं गङ्गा गावो विशेषतः । ब्राह्मणात् परमं तीर्थं न भूतं न भविष्यति ॥१२॥ इन्द्रियाणि वशीकृत्य गृह एव वसेन्नरः । तत्र तस्य कुरूक्षेत्रं नैमिषं पुष्कराणि च ॥१३॥ गङ्गाद्वारञ्च केदारं सन्निहत्य तथैव च । एतानि सर्वतीर्थानि कृत्वा पापैः प्रमुच्यते ॥१४॥ वर्णानामाश्रमाणाञ्च चातुर्वर्णस्य भो द्विजाः । दानधर्म्मं प्रवक्ष्यामि यथा व्यासेन भाषितम् ॥१५॥ यद्ददाति विशिष्टेभ्यो यच्चाश्राति दिने दिने । तच्च वित्तमहं मन्ये शेषं कस्याभिरक्षति ॥१६॥ यद्ददाति यदश्राति तदेव धनिनो धनम् । अन्ये मृतस्य क्रीड़न्ति दारैरपि धनैरपि ॥१७॥ किं धनेन करिष्यन्ति देहनोऽपि गतायुषः । यद्वर्द्धयितुमिच्छन्तस्तच्छरीरमशाश्वतम् ॥१८॥ अशाश्वतानि गात्राणि विभवो नैव शाश्वतः । नित्यं सन्निहितोः मृत्युः कर्त्तव्यो धर्म्मसंग्रहः ॥१९॥ यदि नाम न धर्म्माय न कामाय न कीर्त्तये । यत् परित्यज्य गन्तव्यं तद्धनं किं न दीयते ॥२०॥ जीवन्ति जीविते यस्य विप्र मित्राणि बान्धवाः । जीवितं सफलं तस्य आत्मार्थे को न जीवति ॥२१॥ पशवोऽपि हि जीवन्ति केवलात्मोदरम्भराः । किं कायेन सुगुप्तेन बलिना चिरजीविनः ॥२२॥ ग्रासादर्द्धमपि ग्रासमर्थिभ्यः किं न दीयते । इच्छानुरुपो विभवः कदा कस्य भविष्यति ॥२३॥ अदाता पुरूषस्त्यागी धनं सन्त्यज्य गच्छति । दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति ॥२४॥ प्राणनाशस्तु कर्त्तव्यो यः कृतार्थो न सो मृतः । अकृतार्थस्तु यो मृत्युं प्राप्तः खरसमो हि सः ॥२५॥ अनाहूतेषु यद्दत्तं यच्च दत्तमयाचितम् । भविष्यति युगस्यान्तस्तस्यान्तो न भविष्यति ॥२६॥ मृतवत्सा यथा गौश्च कृष्णा लोभेन दुह्यते । परस्परस्य दानानि लोकयात्रा न धर्म्मतः ॥२७॥ अदृष्टे चाशुभे दानं भोक्ता चैव न दृश्यते । पुनरागमनं नास्ति तत्र दानमनन्तकम् ॥२८॥ मातापितृषु यद्दद्याद्भ्रातृषु श्वशुरेषु च । जायापत्येषु यद्दद्यात् सोऽनन्तः स्वर्गसंक्रमः ॥२९॥ पितुः शतगुणं दानं सहस्रं मातुरूच्यते । भगिन्यां शतसाहस्रं सोदरे दत्तमक्षयम् ॥३०॥ अहन्यहनि दातव्यं ब्राह्मनेषु मुनीश्वराः । आगमिष्यति यत् पात्रं तत् पात्रं तारयिष्यति ॥३१॥ किञ्चिद्वेदभयं पात्रं किञ्चित् पात्रं तपोमयम् । पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे ॥३२॥ यस्य चैव गृहे मूर्खो दूरे चापि गुणान्वितः । गुणान्विताय दातव्यं नास्ति मुर्खे व्यतिक्रमः ॥३३॥ देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥३४॥ ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्ज्जिते । ज्वलन्तमग्निमुत्मृज्य न हि भस्मनि हूयते ॥३५॥ सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् । भोजने चैव दाने च हन्यात्रिपुरूषं कुलम् ॥३६॥ यथा काष्ठमयो हस्ती यथा चर्म्ममयो मृगः । यश्च विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ॥३७॥ ग्रामस्थानं यथा शून्यं यथा कुपश्च निर्ज्जलः । यश्च विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ॥३८॥ ब्राह्मणेषु च यदृत्तं यच्च वैश्वानरे हुतम् । तद्धनं धनमाख्यातं धनं शेषं निरर्थकम् ॥३९॥ सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । सहस्रगुणमाचार्य्ये ह्यनन्तं वेदपारगे ॥४०॥ ब्रह्मबीजसमुत्पन्नो मन्त्रसंस्कारवर्ज्जितः । जातिमात्रोपजीवी च स भवेद्ब्राह्मणः समः ॥४१॥ गर्भाधानादिभिर्म्मन्त्रैर्वेदोपनयनेन च । नाध्यापयति नाधीते स भवेद्ब्राह्मणब्रुवः ॥४२॥ अग्निहोत्री तपस्वी च वेदमध्यापयेच्च यः । सकल्पं सरहस्यञ्च तमाचार्य्यं प्रचक्षते ॥४३॥ इष्टिभिः पशुबन्धश्चै चातुर्म्मास्यैस्तथैव च । अग्निष्टोमादिभिर्यज्ञैर्येन चेष्टं स इष्टवान् ॥४४॥ मीमांसते च यो वेदान् षड़्भिरङ्गैः सविस्तरैः । इतिहासपुराणानि स भवेद्वेदपारगः ॥४५॥ ब्राह्मणा येन जीवन्ति नान्यो वर्णः कथञ्चन । ईदृक्पथमुपस्थाय कोऽन्यस्तं त्यक्तुमुत्सहेत् ॥४६॥ ब्राह्मणः स भवेच्चैव देवानामपि दैवतम् । प्रत्यक्षञ्चैव लोकस्य ब्रह्मतेजो हि कारणम् ॥४७॥ ब्राह्मणस्य मुखं क्षेत्रं निष्कर्करमकण्टकम् । वापयेत् तत्र वीजानि सा कृषिः सार्वकामिकी ॥४८॥ सुक्षेत्रे वापयेद्वीजं सुपात्रेदापयेद्धनम् । सुक्षेत्रेच सुपात्रेच क्षिप्तं नैव विदुष्यति ॥४९॥ विद्याविनयसम्पन्ने ब्राह्मणे गृहमागते । क्रीड़न्त्योषधयः सर्वायास्यामः परमां गतिम् ॥५०॥ नष्टशौचे व्रतभ्रष्टे विप्रे वेदविवर्ज्जिते । दीयमानं रूदत्यन्नं भयाद्वै दुष्कृतं कृतम् ॥५१॥ प्रीतिपूर्णमुखं विप्रं सुभुक्तमपि भोजयेत् । न च मूर्ख निराहारं षड़्रात्रमुपवासिनम् ॥५२॥ यानि यस्य पवित्राणि कुक्षौ तिष्ठन्ति भो द्विजाः । तानि तस्य प्रयोज्यानि न शरीराणि देहिनाम् ॥५३॥ यस्य देहे सदाश्रन्ति हव्यानि त्रिदिवौकसः । कव्यानि चैव पितरः किम्भूतमधिकं ततः ॥५४॥ यद्भुङ्क्तेः वेदविद्विप्रः स्वकर्म्मनिरतः शुचिः । दातुः फलमसङ्ख्यातं प्रतिजन्म तदक्षयम् ॥५५॥ हस्त्यश्वरथयानानि केचिदिच्छन्ति पण्डिताः । अहं नेच्छामि मुनयः कस्यैताः शस्यसम्पदः ॥५६॥ वेदलाङ्गलकृष्टेषु द्विजश्रेष्ठेषु सत्सु च । यत् पुरा पातितं बीजं तस्यैताः शस्यसम्पदः ॥५७॥ शतेषु जायते शूरः सहस्रेषु च पण्डितः । वक्ता शतसहस्रेषु दाता भवति वा न वा ॥५८॥ नरणे विजयाच्छुरोऽध्ययनान्न च पण्डितः । न वक्ता वाक्पटुत्वेन न दाता चार्थदानतः ॥५९॥ इन्द्रियाणां जये शूरो धर्म्मं चरति पण्डितः । हितप्रियोक्तिभिर्वक्ता दाता सम्मानदानतः ॥६०॥ यद्येकपङक्त्यां विषमंददाति स्नेहाद्भयाद्वा यदि वार्थहेतोः । वेदेषु दृष्टं ऋषिभिश्च गीतं तद्ब्रह्महत्यां मुनयो वदन्ति ॥६१॥ उसरे वापितं बीजं भिन्नभाणडेषु गोदुहम् । हुतं भस्मनि हव्यञ्च मूर्खे दानमशाश्वतम् ॥६२॥ मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभोजने । अहमेवं न जनामि कां योनि स गमिष्यति ॥६३॥ शूद्रान्नेनोदरस्थेन यदि कश्चिन्म्रियेत यः । स भवेत् शूकरो नूनं तस्य वा जायते कुलम् ॥६४॥ गृध्रो द्वादश जन्मानि सप्त जन्मानि शूकरः । श्वानश्च सप्त जन्मानि इत्येवं मनुरव्रवीत् ॥६५॥ अमृतं ब्राह्मणान्नेन दारिद्रं क्षत्रियस्य च । वैश्यान्नेन तु शूद्रान्नं शूद्रान्नान्नरकं व्रजेत् ॥६६॥ यश्च भुङ्क्तेऽथ शूद्रान्नं मासमेकं निरन्तरम् । इह जन्मनि शूद्रत्वं मृतः श्वा चैव जायते ॥६७॥ यस्य शूद्रा पचेन्नित्यं शूद्रा वा गृहमेधिनी । वर्ज्जितः पितृदेवैस्तु रौरवं याति स द्विजः ॥६८॥ भाणडसङ्करसङ्कीर्णा नानासङ्करसङ्कराः । येनि सङ्करसङ्कीर्णा निरयं यान्ति मानवाः ॥६९॥ पङ्क्तिमेधी वृथापाकी नित्यं ब्राह्मणनिन्दकः । आदेशी वेद वेकेता पञ्चैते ब्रह्मघातकाः ॥७०॥ इदं व्यासकृतं नित्यमध्येतव्यं प्रयत्नतः । एतदुक्ताचारवतः पतनं नैव विद्यते ॥७१॥ इति श्रीवेदव्यासीये धर्म्मशास्त्रे चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : September 18, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP