ज्ञानपदः - अध्वाविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि अध्वानञ्च समासतः ।
अध्वानं षड्विधं प्रोक्तं तत्वाध्वादिविनायक ॥१॥

तत्वाध्वा प्रथमं विद्धि भुवनाध्वा द्वितीयकम् ।
मन्त्राध्वा वै तृतीयन्तु वर्णाध्वा वै चतुर्थकम् ॥२॥

पदाध्वा पञ्चमं ज्ञेयं कलाध्वा षष्ठमं स्मृतम् ।
षड्विधैरध्वभिर्मार्गैः संविशेदेकमीश्वरम् ॥३॥

तत्वाध्वानं समासेन भूकटाहादिकं शृणु ।
पृथिव्यादीनिमायान्तमध्वानं वर्ण्यते क्रमात् ॥४॥

कालाग्नेः शतरुद्रान्तं ब्रह्माण्डमिति संस्मृतम् ।
अथाण्डकटहोत्सेधं योजनाकोटिरुच्यते ॥५॥

कालाग्नि रुद्रदेवस्य तस्योर्ध्वे भुवनं विदुः ।
अनेक कोटिरुद्रैस्तु परिवृत्तस्तु तिष्ठति ॥६॥

सिंहासनं महादीपं नानारत्नोपशोभितम् ।
सहस्रत्रयविस्तारं सहस्रयोजनोच्छ्रयम् ॥७॥

भूमेरुपरितप्तेन कोटिषट्कं विधीयते ॥८॥

कोटयः सप्तदशकाः कालाग्नेस्तु घनंमहत् ।
तस्योर्ध्वे नरकं विद्यात् चत्वारिंशच्छताधिकम् ॥९॥

तेषां प्रयत्याद्वात्रिंशत् प्रधानास्तेषु ते त्रयः ।
उपर्युपरि संस्थास्तु द्वात्रिंशन्नरकान् शृणु ॥१०॥

रौरवं प्रथमं प्रोक्तं महारौरं द्वितीयकम् ।
शीतोष्णं हि तृतीयन्तु सन्तापनञ्चतुर्त्थकम् ॥११॥

पञ्चमं पद्ममेवं स्यात् महापद्मन्तु षष्ठकम् ।
कमलं सप्तमञ्चैव सूचिमुखमथाष्टकम् ॥१२॥

कृष्णसूत्रन्तु नवमं श्रीमुखं दशमं स्मृतम् ।
एकादशंक्षुराधारमसिधारन्तु द्वादशम् ॥१३॥

एकादशं नरकाणामदीप्ते रौरवं स्मृतम् ।
कुंभीपाकस्तु प्रथमो हुंकारं द्वितयस्तथा ॥१४॥

रेश्चीनोकहयस्तुण्डा स्त्रितयः परिकीर्तिताः ।
असृक् पूयश्चतुर्त्थन्तु गजपादस्तु पञ्चमम् ॥१५॥

कृकरच्छेदषष्ठस्तु तप्तमोहस्तु सप्तमम् ।
त्रपुलोमाष्टमप्रोक्ता नवमस्तप्तवालुकः ॥१६॥

अस्तिभङ्गस्तु दशमं कुंभीपाकप्रधानतः ।
अवीचि प्रथमं विद्धि जलूकस्तु सदानदी ॥१७॥

हैमवर्णस्तृतीयं हि शाल्मली च चतुर्त्थकम् ।
अनध्वासो निरुच्छ्वासं पूतिमां सानुदक्षणः ॥१८॥

जतुपंकञ्चलोहञ्च युग्मपर्वत एव च ।
नरकाणां नवानान्तु अवीच्येषु प्रथानकः ॥१९॥

रौरवं कुंभिपाकञ्च अविचिञ्च इमेत्रयः ।
राजराजेश्वरा ह्येते नरकास्तु त्रय स्मृताः ॥२०॥

रौरवस्तु तथा मेध्यं कुंभिपाकस्तु तापनम् ।
अवीच्या क्रिमिनिचयं अन्तर्भूतं विचिन्तयेत् ॥२१॥

सप्तसप्तोपनरकैः त्रयाणां परिवारितैः ।
एकोनत्रिंशन्नरकां स्त्रिभिस्त्रिभिरथा वृतान् ॥२२॥

एवं नरकमाख्यातञ्चत्वारिंशत् तदादिकम् ।
अतिघोरस्तु नरका स्त्रिकोणा कृतिसंस्थिताः ॥२३॥

पापिनां नरकं प्रोक्तं धर्मिणां स्वर्ग उच्यते ।
देवद्रव्यापहारश्च शिवशास्त्रविदूषकाः ॥२४॥

पित्रघातश्च ब्रह्मघ्ना एवमाद्यास्त्वनेकशः ।
यातना स्थानमाश्रित्य पतितं नरकार्णवे ॥२५॥

अक्रोधशौचमाचार क्षान्तियुक्ति समायुतः ।
यत्पुण्यं शिवभक्त्या तु सर्वं प्राणिदयान्वितम् ॥२६॥

एवमाद्यानराः सर्वे गच्छन्ति नरकं न हि ।
उच्छ्रयं नरकाणान्तु शृणुवत्स समाहितः ॥२७॥

नवं नवतिलक्षाणि एकैकस्योच्छ्रयं विदुः ।
पक्षमात्रान्तरं ज्ञेयं शतलक्षमिति स्मृतम् ॥२८॥

एवन्तु त्रिशतं लक्षं नरकाणां प्रकीर्तितम् ।
अधोरौरवमित्युक्तं कुंभिपाकन्तु मध्यमम् ॥२९॥

अवीचिच्छोर्ध्वतो ज्ञेयं तेषां त्रिस्थानमुच्यते ।
नरकाणामधोर्ध्वे तु विंशत् साहस्रसंयुतम् ॥३०॥

नरकाधिपतिःसोयं कूश्माण्डस्तत्र संस्थितः ।
नवन्नवति साहस्रं पुरन्तस्य प्रकीर्तितम् ॥३१॥

शतसहस्रमिति ज्ञेयं लक्षमित्यभिधीयते ।
कुश्माण्डाधिपतिः सोपि नरकाणां प्रभु स्मृतः ॥३२॥

तस्योपरिष्ठात् पातालं अथयामि समासतः ।
महातलं सुतलञ्च रसातलं तलातलम् ॥३३॥

पातालं शङ्करञ्चैव आभासञ्चैव सपकम् ।
महातलानां सप्तानां पाताल इति संज्ञितः ॥३४॥

नागाश्चराक्षसश्चैव देवाश्चाप्सरसस्तथा ।
महातले तूपस्वस्थे सक्रीडमुदितात्मनः ॥३५॥

नवलक्षाणि चोत्सेध मन्तरं लक्षमुच्यते ।
लक्षमात्रान्तरश्चैव पातालानां प्रमाणतः ॥३६॥

ततः सौवर्णपातालं दशलक्षप्रमाणतः ।
तस्योर्ध्वे तु वसुर्देवो हाटकः परमेश्वरः ॥३७॥

नानालङ्कारसंयुक्तं पुरकोटिसमावृतम् ।
तत्सर्वं हाटकं यस्मात् तस्माद्वेहाटकेश्वरः ॥३८॥

तस्योर्ध्वे नवलक्षाणि अन्तरिक्षे प्रकीर्तितम् ।
भूकटं दशलक्षाणां मृच्छ्रयन्तु विधीयते ॥३९॥

कूश्मायुधिष्ठितं स्थानं शतलक्षमिति स्मृतम् ।
शन्तलक्षं कोटिविज्ञेयं पञ्चाशत् कोटयं स्मृतः ॥४०॥

भूम्यन्तं लक्षणं प्रोक्तं भूलोकानि ततः शृणु ।
समुद्रैः सप्तभिर्युक्तं भूलोकमिति विश्रुतम् ॥४१॥

भूलोकं तु वलोकश्च स्वल्लोकश्च महस्तथा ।
जनलोकस्तपोलोकः सत्यलोकस्तु सप्तमः ॥४२॥

प्रमाणं सप्तलोकानां लक्षणञ्च वदाम्यहम् ।
भूलोकं प्रथमं वक्ष्ये समासात् तु शृणुष्व हि ॥४३॥

नानाजन पदाकीर्णं नानावस्तु समायुतम् ।
जंबूद्वीपादि संयुक्तं क्षीरमं बोधि संयुतम् ॥४४॥

तस्यमध्ये महामेरुर्हेमरूपेण तिष्ठति ।
लक्षयोजनमानेन कर्णिकारूपवत् क्रमात् ॥४५॥

षोडशैस्तु सहस्राणि भूम्यधस्तात् प्रविष्टकम् ।
चतुराशीतिसाहस्रं योजनोर्ध्वे विधीयते ॥४६॥

ऊर्ध्वभागः समंमूलं द्विगुणं मूर्ध्निविस्तरम् ।
नानाशिखरसंयुक्तं नानाभूमिमलतान्वितम् ॥४७॥

तस्योर्ध्वे तु सभाः विद्यात् ब्रह्मणश्च महात्मनः ।
नाम्नामनोवती चैव सर्वरत्नसमासतः ॥४८॥

चतुर्दशसहस्राणि योजनानां प्रमाणतः ।
नानालङ्कारसंयुक्ता ऋषिसिद्धगणायुताः ॥४९॥

तस्योर्ध्वे शानदिग्भागे ज्योतिः शिखर उच्यते ।
विंशतिश्च सहस्राणि विस्तारोत्सेधमेव च ॥५०॥

नानालङ्कारसंयुक्तो नानावर्णसमासतः ।
हेमप्रासादसंयुक्तं हेमप्राकारतोरणम् ॥५१॥

सगन्धर्वसमायुक्तं सर्वदेव गणावृतम् ।
गणैः सर्वैः समायुक्तं त्रिंशत् साहस्रशोभितम् ॥५२॥

उमादेव्या सहैवाहं वसेन्नित्यं हि तत्र वै ।
तस्य पश्चिमदिग्भागे वै कुण्ठः शिखरं भवेत् ॥५३॥

सर्वालङ्कारसंयुक्तं मुनिसिद्धगणावृतम् ।
चतुर्दशसहस्राणि विस्तारोत्सेधमेव च ॥५४॥

सर्वरत्नमयं भासं हेमप्राकारतोरणम् ।
तत्रैव वसते विष्णुः सर्वदेवगणावृतः ॥५५॥

भूलोकरक्षणार्थाय वसन्तिमुदितात्मनः ।
सृष्टिस्थितिश्चस्संहारान् कुर्वन्ति क्रमशः तथा ॥५६॥

मूर्ध्निभागादधस्तात् तु योजनानां सहस्रकम् ।
पूर्वे त्विन्द्रस्य विख्याता पूर्नाम्नात्वमरावती ॥५७॥

आग्ने तेजोवती नाम्ना पूर्वह्नेस्तु प्रकीर्तिता ।
यमस्य दक्षिणे भागे नानासंयमनी पुरी ॥५८॥

कृष्णाङ्गनापुरीनाम्ना नि-ऋतोराक्षसालयम् ।
पश्चिमे वरुणस्यैव नाम्नाशुद्धवती पुरी ॥५९॥

वायोश्च वायुदिग्भागे नाम्नागन्धवती पुरी ।
सोमस्योत्तरभागे तु पुरीनाम्नामहोदया ॥६०॥

ईशानस्यैशदिग्भागे पूरीनाम्ना च धावती ।
पुरैः कोटिसहस्रैस्तु सर्वैः सर्वप्रशोभितः ॥६१॥

गङ्गाजलेन सुस्नात्वा क्रीडन्तिमुदितात्मनः ।
चतुर्निष्कं भगिरयः पूर्वाद्यास्तु यथा क्रमात् ॥६२॥

मन्दरः पूर्वदिग्भागे दक्षिणे गन्धमादनः ।
पिङ्गलः पश्चिमे भागे सुपाशश्चोत्तरे तथा ॥६३॥

श्वेतं हरितकी नीलं डाडिमी कुषुमप्रभम् ।
योजनानि सहस्राणि तेषां पञ्चाशदुच्छ्रितम् ॥६४॥

भूम्ने नाथोष्ट साहस्रञ्चत्वारिंशत् द्वयोच्छ्रितम् ।
तेषान्तु मूलविस्तारं द्विगुणोपरिविस्तृतम् ॥६५॥

मन्दरोपरिसंस्थन्तु कदंबो नामकवृतः ।
सहस्रयोजनोत्सेधं स्कन्धैः साहस्र शोभितम् ॥६६॥

कुंभाकारन्तु तत्पुष्पं शङ्खाभञ्च सहस्रकम् ।
गन्धमादनमूर्ध्निस्थो जंब्वाख्यं तत्र वृक्षकः ॥६७॥

कदंबद्विगुणोत्सेधं स्कन्धाः शाखास्तथैव च ।
महागज प्रमाणानि तस्य जंबू फलानि तु ॥६८॥

पतितानां फलानान्तु तेन जांबूनदी भवेत् ।
तत्र वेगवतीनाम्ना कृत्वा मेरुप्रदक्षिणम् ॥६९॥

तेन प्रवेशितं सर्वं कनकं देव भूषणम् ।
ये तत्र वासिनः सर्वे जांबूनदमयास्तथा ॥७०॥

अश्वत्थं केतुनाम्ना वै विपुलोपरि संस्थितिः ।
सहस्रयोजनोत्सेद्धं स्कन्धैः साहस्रशोभितम् ॥७१॥

अश्वत्थ फलवत् ज्ञेयं वृत्तनाम्नासु शोभितम् ।
तस्यपार्श्वे तु न्यग्रोधस्तस्योपरितु संस्थितम् ॥७२॥

गणैः सप्तैः समायुक्तं विचित्रैर्विविधैः शुभैः ।
चतुर्वणानि चोक्तानि पूर्वादिनि च चोत्तराः ॥७३॥

पूर्वे चैत्ररथं नाम्ना वनं पुष्पोपशोभितम् ।
तस्य मध्ये तटाकोस्ति नाम्ना वै वारुणोदयः ॥७४॥

नक्रैर्मत्स्यैरनेकैश्च मण्डितं पद्मपुष्पकैः ।
दक्षिणे नन्दनं नामवनं तत्र विशेषतः ॥७५॥

तटाकं मानसं नाम तस्यमध्ये प्रकीर्तितम् ।
वै भ्राजं पश्चिमे भागे तटाकं विपुलोदकम् ॥७६॥

सौम्ये पत्रवनं नाम तटाकं सुमनोहरम् ।
ईदृशैर्ल्लक्षणैर्युक्तो मेरुस्तत्र प्रकीर्तितः ॥७७॥

मेरुपार्श्वे तु वर्षाणि पारुषाणि समासतः ।
लवणोदधिपर्यन्तो जंबूद्वीपं प्रकीर्तितम् ॥७८॥

जंबूशाककुशक्रौञ्च शाल्मकोमेदपुष्करः ।
सप्तद्वीपाः समाख्याताः समुद्राश्च ततः शृणु ॥७९॥

क्षारंक्षीरोदधिः सर्पिरिक्षूदकमधूदकम् ।
समोदकस्त्विति ख्याता सुमुद्राः सप्तकीर्तिताः ॥८०॥

लक्षयोजनविस्तारं जंबूद्वीपं विनायक ।
कमलाक्षोदितं विद्यात् लवणांभस्ततो बहिः ॥८१॥

द्विगुणेना वृतं बाह्ये शाकद्वीपस्तु नामतः ।
द्विगुणात् द्विगुणं ह्येवं द्वीपात् द्वीपसमुद्रकम् ॥८२॥

स्वादूदकान्तामेर्वादि प्रमाणं पञ्चकोटयः ।
सप्तलक्षाधिकाः प्रोक्तास्वाधिपत्यान्ततः शृणु ॥८३॥

देवाश्चराक्षसाश्चैव ईश्वरेण सुचोदिताः ।
स्वयंभुवमनुः पूर्वं सप्तद्विपान् सुरक्षितः ॥८४॥

तस्यपुत्रो महावीर्यः प्रियव्रतः सुरक्षकः ।
दशपुत्राः समुत्पन्नाः तस्यवीर्यान् महाबलाः ॥८५॥

अग्निधृत् त्वग्निबाहुश्च मेधामेधातिथिर्विभुः ।
ज्योतिष्ठान् धृतिमान् भव्योवसनः पुत्र एव च ॥८६॥

अग्निबाहुश्च मेधावी पुत्रा प्रवृजितास्त्रयः ।
शेषाणां सप्तपुत्राणां सप्तद्वीपांशभागिनः ॥८७॥

अग्निधृत् बाहुवीर्येण जंबूद्वीपः सुरक्षितः ।
नाभिः किं पुरुषश्चैव हरिश्चैव जलावृतः ॥८८॥

भद्राश्च केतुमालश्च पुष्यकस्तु हिरण्मयः ।
पुत्रनामाथ नवमो नवपुत्राः प्रकीर्तिताः ॥८९॥

जंबूद्विपन्तु तेषां वै नवभागं प्रकल्पितम् ।
त्रयस्तु दक्षिणाख्यातो चोत्तरे त्रय एव तु ॥९०॥

त्रयस्तु मध्यमे ख्याताः पर्वतान्तरितः तथा ।
दक्षिणे हिमवाह्ने मकूटस्तस्यैव चोत्तरे ॥९१॥

निषधस्य समाख्यातो हेमकूटस्य चोत्तरे ।
नीलश्चेत्तु स्त्रिशृंगश्च उत्तरस्य च निर्गतः ॥९२॥

समुद्रादधिकाशस्ता स्थिता प्राक् पश्चिमायता ।
सर्वैश्वर्य समायुक्ता षडेते गिरयस्तदा ॥९३॥

पूर्वपऽऽस्चिम मेरोस्तु माल्यवान् गन्धमादनौ ।
निषधनील पर्यन्तौ नगौ सौम्योत्तराथतौ ॥९४॥

योजनाशीति विस्तारौ सहस्रद्वयकोच्छ्रितौ ।
हिमवान् हिमवर्णस्तु हेमकूटस्तु हेमवत् ॥९५॥

निषधः पद्मरागाभो नीलाभोगन्धमादनः ।
माल्यवान् पीतवर्णस्तु नीलोरत्तमयस्तथा ॥९६॥

श्वेतस्तु सितवर्णः स्यात् त्रिशृंगी चन्द्रकान्तवत् ।
सीमास्तु गिरयप्रोक्ता देशां देशाधिपान् शृणु ॥९७॥

त्रिशृंगस्योत्तरे पार्श्वे दक्षिणे लवणोदधेः ।
क्मरदेशस्त्वितिख्यातः स्वधिपाश्च गुरुर्भवेत् ॥९८॥

धन्वाकारः सविज्ञेयो नवसाहस्रयोजनः ।
भूमिसुवर्णवत् ज्ञेया वालुकाश्च तथा स्थिता ॥९९॥

जनावसन्ति सर्वत्र कामवृक्षफलाशिनः ।
त्रिशतानि सहस्राणि जीवन्ति वत्सराणि वै ॥१००॥

द्वेद्वेपुत्रौ प्रसूयन्ते स्त्रीप्रजानां तथैव च ।
श्यामपुष्पनिभाकारा भयदुःखविवर्जिताः ॥१०१॥

सूर्यकान्तेषु कान्तश्च तत्रैव कुलपर्वतौ ।
रुरोर्नामना तु तं विद्धि कुरु विन्दस्ततस्तु वै ॥१०२॥

चन्द्रदिपं समाख्यातं प्रविश्यलवणोदधिम् ।
तस्य वायव्यदिक्भागे द्विपो भद्राकर स्मृतः ॥१०३॥

सहस्रायुर्जनास्तत्र सुदिव्याम्र फलाशिनः ।
त्रिशृंग श्वेतयोर्मध्ये हिरण्यं वर्षको भवेत् ॥१०४॥

नवसाहस्र विस्तारं समुद्रावधि दीर्घकम् ।
जनास्त्विन्दुमुखाः सर्वे वकुलस्य फलाशिनः ॥१०५॥

जीवन्नेवं सहस्राब्दं तेषामायुः प्रकीर्तितम् ।
सुनील श्वेतयोर्मध्ये रम्यं वर्षमिति स्मृतम् ॥१०६॥

विस्तारं नवसाहस्रं समुद्रान्तायुतं महत् ।
न्यग्रोधस्य फलं प्राश्य नीलोत्पलसमप्रभाः ॥१०७॥

द्वादशाब्दसहस्राणि जीवन्ति भयवर्जिताः ।
मेरु प्रदक्षिणं देशमवधूतनरं तथा ॥१०८॥

नवसाहस्र विस्तारं योजनानां समन्ततः ।
तस्येन्दु रश्मय स्थित्यामेरुदीप्त्यासुदीपिता ॥१०९॥

जंबूफलरसं पीत्वा जनारोगविवर्जिताः ।
त्रयोदशसहस्राब्दं तेषामायुः प्रकीर्तितम् ॥११०॥

समुद्रस्य तु पूर्वे तु गन्धमादनपश्चिमे ।
केतुमालाख्य वर्षस्तु जनाः श्याम निभास्तथा ॥१११॥

पनसस्य फलं भुक्त्वा जीवन्त्ययुतवत् सराः ।
चतुस्त्रिंशत् सहस्राणि योजनादक्षिणोत्तरे ॥११२॥

पूर्वपश्चिममायामं द्वात्रिंशच्च सहस्रकम् ।
उदधेः पश्चिमे भागे पूर्वे वै वाह्यवत्गिरेः ॥११३॥

भद्राश्वनामवर्षं हि जनाश्चंद्र निभास्तथा ।
ते कृष्णाम्रफलं प्राश्य लभेदयुतमायुषम् ॥११४॥

तस्य दीर्घञ्च विस्तारं केतु मालाद्रिवर्ततः ।
दक्षिणे निषधस्यैव हेमकूटस्य चोत्तरे ॥११५॥

तं विद्धि हरिवर्षन्तु समुद्रान्तायुतं स्मृतम् ।
विस्तारन्नवसाहस्रं योजनानां प्रमाणतः ॥११६॥

जनस्त्विक्षुर संपीत्वा रौप्याभास्तत्र वासिनः ।
द्वादशैव सहस्राब्दं तेषामायुः प्रकीर्तितम् ॥११७॥

दक्षिणे हेमकूटस्य सौम्ये हिमवतस्तथा ।
मध्ये किं पुरुषं वर्षं विस्तारायामपूर्ववत् ॥११८॥

जनाः सुवर्णवर्णाश्च जीवन्ति प्लक्षभोजनाः ।
द्वादशाब्दं सहस्रायुस्तेषा जीवान्तमुच्यते ॥११९॥

हिमवत् दक्षिणे भागेप्युत्तरे लवणोदधेः ।
नाभेश्च वृक्षोत् भवनो भरतस्तत्सुत स्मृतः ॥१२०॥

तन्नाम्नाभरतं वर्षं धन्वाकारन्तदुच्यते ।
नवसाहस्रविस्तारं समुद्रान्तरितायतम् ॥१२१॥

नानाजन पदाकीर्णञ्जनारोगभयान्वितम् ।
कल्पसौख्यं महादुःखं जनाः कृष्यान्नभोजनम् ॥१२२॥

तेषां शताब्दमायुष्यं चतुर्युगवशात् पुनः ।
गुणमेवं विजानीयात् शुभाशुभफलार्जनम् ॥१२३॥

कर्मभूमिरियं विद्धि स्वर्गभूमिस्तथापरा ।
मुक्तिभुक्तिफलं प्राप्यं शिवं सांप्राप्ययत् ततः ॥१२४॥

ततो भारतवर्षञ्च नवभागं प्रकल्पितम् ।
नवपुत्रास्तु जायन्ते भरतस्येन्द्र पूर्वकाः ॥१२५॥

इन्द्रश्चैव कशेरुश्च ताम्रवर्णो गभस्तिमान् ।
नागः सौम्यश्च गन्धर्वो वरुणश्च कुमारिकाः ॥१२६॥

तेषां नाम्नैव बोद्धव्या द्वीपश्चैकैकशः क्रमात् ।
इन्द्र द्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् ॥१२७॥

नागद्वीपञ्च सौम्यञ्च गान्धर्वो वरुणं तथा ।
नवमा तु कुमाराख्या तेषां भेदाः प्रकीर्तिताः ॥१२८॥

सागरान्तरितः कृत्वा स्थलं पञ्चशतं भवेत् ।
कुमारद्वीपाधान्यास्तु म्लेश्चद्वीपाः प्रकीर्तिताः ॥१२९॥

चतुर्वणसमायुक्तञ्चतुराश्रम संयुतम् ।
गंगादीनां नवानान्तु ज्ञेयाः पञ्चशतानि तु ॥१३०॥

तीर्थानां कोटयः प्रोक्ता महापुण्यफलोदयाः ।
हिमवत्यन्तरे पार्श्वे कैलासशिखरं महत् ॥१३१॥

रौप्यवर्णं महाशेष मुनिसिद्धैर्निषेवितम् ।
सर्वालङ्कारसंयुक्तं द्रुमैः सर्वत्र शोभोतम् ॥१३२॥

तत्रैव वसतो नित्यमुमादेवी समन्वितः ।
अष्टषष्टि महाक्षेत्रं पुराणस्यादि संस्थितम् ॥१३३॥

जंबूद्वीपादि षट्द्वीपाः सागरेषु व्यवस्थिताः ।
महेन्द्रोमन्धरः सख्यशुक्तिमानृक्ष पर्वतः ॥१३४॥

विन्ध्यश्च पारीपात्रश्च इत्येते कुलपर्वताः ।
मलयद्वीपगालंका चामीकरमयाशुभा ॥१३५॥

नानाविचित्र संयुक्ता रमन्ते राक्षसेस्वरैः ।
जंबूद्वीपं समाख्यातं लवणोदञ्च मच्छृणु ॥१३६॥

लक्षद्वयन्तु विस्तारं लवणोदधिरावृतम् ।
भूधराद्वादशाश्चैव प्रविष्टा लवणोदधौ ॥१३७॥

प्रभावश्चैव धूम्रश्च दुन्दुभिः पूर्वभागतः ।
चक्रञ्चैव तु मैनाकं वलाहं दक्षिणे तथा ॥१३८॥

मैनाकचक्रयोर्मध्ये संस्थितो बडबानलाः ।
वराहः सोमके तु श्वनन्दनं पश्चिमे दिशि ॥१३९॥

कंकश्चन्द्रस्तथा द्रोणश्चोत्तरे संव्यवस्थिताः ।
लवणोदधिरित्युक्तच्छाक द्वीपं ततः शृणु ॥१४०॥

शाकद्वीपाधिपो यावान् पुष्पवान् कुशद्वीपके ।
ज्योतिष्मान् क्रौञ्च द्वीपे तु शाल्मल्यां द्युतिमां तथा ॥१४१॥

गोमेदेध नवान् प्रोक्तवासीनस्तु महाबलाः ।
दौपुत्रौ तु समाख्यातौ द्विभागौ तत्र कीर्तितौ ॥१४२॥

पर्वतं वलयाकारं मानसोत्तरनामतः ।
कृतादियुगवत्कालः शाकादिद्वीपवासिनाम् ॥१४३॥

स्वादूदान्तन्तु मेर्वादि विस्तारं पञ्चकोटयः ।
सप्तलक्षाधिकं तत्र समासात् परिकीर्तितम् ॥१४४॥

ततो हेममयं भूमि विस्ताराद्दशकोटिकाः ।
देवानां क्रीडनार्थाय प्रोच्यते त्रमया ततः ॥१४५॥

लोकालोक स्वनाम्ना तु पर्वतं वृत्तरूपतः ।
सहस्रयोजनन्तारमुत्सेधं लक्षयोजनम् ॥१४६॥

लोकपाला स्थितास्तत्र सिद्धामर निषेविताः ।
तस्यान्तर्भासते सूर्यस्त्वन्धकारस्त्वथा परः ॥१४७॥

लोकालोकः समावृत्य गर्भोदधिसमुद्रकान् ।
गर्भोदधिसमावृत्य पार्थिवा वरणं स्मृतम् ॥१४८॥

पात्थिवन्तु समावृत्य कटाहं कोटिविस्तृतम् ।
कटाहं मेरुमध्यान्तं पञ्चाशत् कोटय स्मृताः ॥१४९॥

दशदिक्षु समंज्ञेयं प्रमाणः शतकोटयः ।
भूलोकश्च समाख्यातो भुवलोकं ततः शृणु ॥१५०॥

लक्षयोजनमानेन सूर्यलोकं विधीयते ।
द्वादशादित्य वसवो रुद्राश्चैकादशः तथा ॥१५१॥

अश्विनौ द्वौस्त्रयस्त्रिंशत् सञ्चरन्ति शिवेच्छया ।
मेरु प्रदक्षिणे नैव भुवलोकमिति स्मृतम् ॥१५२॥

तस्योपरितुं क्षेण चन्द्रलोकं विधीयते ।
चन्द्रोर्ध्वे लक्षमात्रेण स्थितं नक्षत्रमण्डलम् ॥१५३॥

लक्षद्वये बुधं विद्यात् द्विलक्षे भार्गव स्मृतः ।
लक्षद्वये तु चाङ्गारो द्विलक्षे तु बृहस्पतिः ॥१५४॥

सौरिलक्ष द्वये प्रोक्तो मुनयो लक्षयोजने ।
अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥१५५॥

भृग्वङ्गिरामरीचिश्च मुनयः सप्तकीर्तिताः ।
उपरिष्टाधृवः प्रोक्तस्त्वेक लक्षप्रमाणतः ॥१५६॥

चन्द्रलोकाद्धृवान्तश्च स्वर्ल्लोकमिति कीर्तितम् ।
दशपञ्च च लक्षाणि भूतपृष्ठाद्धृवान्तकम् ॥१५७॥

ततोपरिमहल्लोकं द्विकोटियोजनं स्मृतम् ।
पञ्चाशीति च लक्षाणि जनलोकमिति स्मृतम् ॥१५८॥

अष्टकोटित पोलोकमुपर्युपरि संस्थितम् ।
द्वादशैव तथा कोटिः सत्यलोकं विधीयते ॥१५९॥

महर्ल्लोकादि सत्यान्तं रुद्रास्तत्र निवासिनः ।
कोटिषोडशमानेन ब्रह्मलोकं विधीयते ॥१६०॥

कोटियोजनमानेन विष्णुलोकं प्रकीर्तितम् ।
नवकोटिप्रमाणेन रुद्रलोकमिहोच्यते ॥१६१॥

कटाहेस्य घनंकोटिः पञ्चाशत्कोटय स्मृताः ।
शतयोजनकोट्येवं कोट्या ब्रह्माण्ड तत्र वै ॥१६२॥

ब्रह्माण्डधारकास्तत्र शतसंख्या शृणुष्वहि ।
कपालीशो ह्यजोबुद्धो वज्रदेहः प्रमर्दनः ॥१६३॥

विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ।
इन्द्रस्यबलमाक्रम्य प्रभुशक्ति समन्विताः ॥१६४॥

विचरन्ति महारुद्राः शक्रराजस्य पूजिताः ।
अग्निरुद्रोहुताशश्च पिङ्गलः कादको हरः ॥१६५॥

ज्वलनोदहनो बभ्रू भस्मान्तकक्षयान्तकः ।
अग्नेस्तु बलमाक्रम्य प्रभुशक्ति समन्विताः ॥१६६॥

विचरन्ति महारुद्रा वह्निराजस्य पूजिताः ।
याम्येऽमृत्युहरोधाता विधाता कर्तृकालकः ॥१६७॥

संयोक्ता च वियोक्ता च धर्माधर्म वृतिस्तथा ।
धर्मस्य बलमाक्रम्य प्रभुशक्ति समन्विताः ॥१६८॥

विचरन्ति महादेवायमराजेन पूजिताः ।
नै-ऋतोमारणो हन्ता क्रूर दृष्टिर्भयानकः ॥१६९॥

ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रवान् ।
नि-ऋतेः बलमाक्रम्य प्रभुशक्ति समन्विताः ॥१७०॥

विचरन्ति महादेवा राक्षसेन सुपूजिताः ।
वारुणं बलमाक्रम्य प्रभुशक्ति समन्विताः ॥१७१॥

विचरन्ति महादेवा वारुणेन सुपूजिताः ।
शीघ्रोलघुर्वायुवेगः सूक्ष्मस्तीक्ष्ण क्षयान्तकः ॥१७२॥

पञ्चान्तकः पञ्चशिखः कपर्दीमेखवाहनः ।
वायोस्तु बलमाक्रम्य प्रभुशक्ति समन्विताः ॥१७३॥

विचरन्ति महादेवाः सोमराजेन पूजितः ।
विद्याधरश्च सर्वज्ञो ज्ञानधृग्वेदपारगः ॥१७४॥

सुरेश्वरश्च सर्वेशो भूतपालोबलि प्रियः ।
सुखकृद्दुःखकृच्छैते शैवेन तु समासतः ॥१७५॥

ईशानबलमाक्रम्य प्रभुशक्ति समन्विताः ।
विचरन्ति महादेवा ईशानेन तु पूजिताः ॥१७६॥

वृषोवृषधरः कान्तो क्रोधेशस्वनिलाशनः ।
ग्रसनोदुंबरश्चैव फणीन्द्रो वज्रदंष्ट्रवान् ॥१७७॥

विष्णोस्तु बलमाक्रम्य प्रभुशक्ति समन्विताः ।
विचरन्ति महादेवा विष्णुनामसुपूजिताः ॥१७८॥

प्रोक्तोयं पृथिवी पश्चात् आप्यन्तत्वमतः शृणु ।
ब्रह्माण्ड परितः स्थाप्य दद्याद् दशगुणावृतम् ॥१७९॥

अमरेशं प्रभावञ्च नैमीशं पुष्करं तथा ।
आषाढीशञ्च पिण्डीशं हारभूतञ्च वाकुलम् ॥१८०॥

प्रोष्टं गुह्याष्टकं ह्येवं जलावरणमाश्रितम् ।
ऊर्ध्वे दशगुणेनैव वह्नेरावरणं महत् ॥१८१॥

हरिश्चंद्रं सुशैलञ्च जल्पेरम्रातिकेश्वरम् ।
महाकालं मध्यमञ्च केदारं भैरवं तथा ॥१८२॥

अतिगुह्याष्टकं ह्येवं अग्न्यावरणमाश्रितम् ।
वाय्वावरणमूर्ध्वे तु विह्नेर्दशगुणं महत् ॥१८३॥

गया चैव कुरुक्षेत्रं नखलं नाखलं तथा ।
विमलञ्चाट्टहासञ्च महेन्द्रं भीम एव च ॥१८४॥

गुह्यात्गुह्याष्टकं ह्येवं अनिलावरणैः स्थितम् ।
तदूर्ध्वन्तु भवेद् व्योमं स्थितं दशगुणावृतम् ॥१८५॥

वस्त्रापदं रुद्रकोटिं रविमुक्तं महालयम् ।
गोकर्णं भद्रकर्णञ्च सुवर्णाक्षञ्च स्थाणुकम् ॥१८६॥

पवित्राष्टकमेवं हि व्योमावरणमाश्रिताः ।
अत ऊर्ध्वमहंकारं स्थितं दशगुणेन तु ॥१८७॥

खगलेन्दु करण्डञ्चोमाकोटि मण्डलेश्वरम् ।
कौञ्जरं शंखुकर्णञ्च स्थूलेश्वरं स्थलेश्वरम् ॥१८८॥

स्थानाष्टकमिदं विद्यात् पूर्वाद्यैः शान्तकं स्थितम् ।
श्वेतगुह्याष्टकं प्रोक्तं रक्तं चैवाजगुप्सितम् ॥१८९॥

गुह्यात्गुह्याष्टकं पीतं कृष्णञ्चैव पवित्रकम् ।
स्थानाष्टकं स्फटीकाभमेवं पञ्चाष्टकं स्मृतम् ॥१९०॥

पक्षाकारस्तु भवताभ्युच्य वै तु निवासता ।
एते श्रीकण्ठनाथस्य भोगस्थानं प्रकीर्तिताः ॥१९१॥

अथ चोर्ध्वे भवेत् बुद्धि स्थिता दशगुणावृता ।
पैशाचं राक्षसं याक्षं गान्धर्वञ्चैंद्रमेव च ॥१९२॥

सौम्यं प्राजेश्वरं ब्राह्मं देवयोन्यष्टकं स्मृतम् ।
एतत् पुर्यष्टकं विद्धि बुद्ध्यावरणमाश्रितम् ॥१९३॥

स्थानान्युक्तानि दिव्यानि सर्वैश्वर्ययुतानि च ।
गुणावरणमूर्ध्वे तु बुद्धेर्दशगुणं स्मृतम् ॥१९४॥

अकृतञ्च कृतञ्चैव भैरवं ब्राह्म एव च ।
वैष्णवञ्चाथकौमारं कौमिश्रैकर्णमेव वा ॥१९५॥

प्रोक्ता योगाष्टकं ह्येवं गुणावरणामाश्रितम् ।
योगेश्वरेषु यो भोक्ता योगं पूजन्ति तत्पराः ॥१९६॥

तेषां स्थानानि दिव्यानि योगैश्वर्ययुतानि तु ।
अव्यक्तमत ऊर्ध्वे तु स्थितं दशगुणावृतम् ॥१९७॥

क्रोधश्चण्डश्च संवक्तो ज्योतिः पिङ्गलसूरकः ।
पञ्चान्तकैक वीरश्च शिवेन सहितेश्वरः ॥१९८॥

महादेवाष्टकं ह्येवं तद्व्यक्तावरणे स्थितम् ।
अव्यक्त प्रकृतिश्चैव प्रधानमिति चोच्यते ॥१९९॥

अत ऊर्ध्वं भवेदन्यद्रागाख्यावरणं विदुः ।
तत्प्रधानात् शतगुणं पौरुषन् तत्वमुत्तमम् ॥२००॥

तत्र रुद्रो महातेजो वाम देवौ भवोद्भवौ ।
एकलिङ्गेक्षणेशान भुवनैश्च परस्परम् ॥२०१॥

अङ्गुष्ठमात्रास्ते देवास्त्वङ्गुष्ठात्मक संज्ञकाः ।
माया ज्ञानविनिर्मुक्ता परमेश प्रभावकाः ॥२०२॥

तत्रैव पुरुषो ज्ञ्यो रागाख्यावरणाश्रिताः ।
षट्कौशिकानि भूतानि भूतानि विषयाणि च ॥२०३॥

मनोबुद्धिरहंकार स्त्रिगुणश्च विशेषतः ।
एतैर्युक्तस्तु पुरुष आत्मतत्वे भुवि स्थितः ॥२०४॥

विद्यातत्वन्तदूर्ध्वन्तु रागाच्छतगुणं भवेत् ।
वामदेवोधभीमश्च उग्रश्चैवस्तथा पि च ॥२०५॥

शर्वैशानैक वीरश्च ईश्वरश्च प्रचण्डधृत् ।
ईश्वरोथ उमाभक्त अजेशोनन्द एव च ॥२०६॥

ततो ह्येक शिवश्चैव विद्यावरणमाश्रिताः ।
कालतत्वं भवेदूर्ध्वं विद्यायास्तु शताधिकम् ॥२०७॥

उच्छ्रच्छुष्कश्चांबरश्च मातंगोघोररूपकः ।
याम्योहलाहलश्चैव क्रोधेशोवसवामुखः ॥२०८॥

स्थूलरुद्रोवर्ष रुद्रोरुद्रोगलगुरुस्तथा ।
द्वादशैते महावीर्या कलावरणमाश्रिताः ॥२०९॥

अत ऊर्ध्वं भवेन्माया कलायास्तु शताधिकाः ।
संपुटद्वितये माया रुद्रैर्द्वादश संस्थिताः ॥२१०॥

अधश्च संपुटे विद्यादूर्ध्वश्वासं पुटे परम् ।
गहने शस्त्वव्ययश्च तथा हरिहर प्रभुः ॥२११॥

दशैशानस्तथा चैव त्रिकालो गोपतिस्तथा ।
अधोमाया पुटान्ते तु षड्रुद्रास्ते प्रकीर्तिताः ॥२१२॥

क्षेमीशो ब्रह्मचारी च विद्येशानस्तथैव च ।
विश्वेश्वरः शिवश्चैव अनन्तस्तु षडेव हि ॥२१३॥

ऊर्ध्वजा या पुटान्तास्तु एते रुद्रा प्रकीर्तिताः ।
तेषां मध्ये सभगवाननन्तेशो जगत्पतिः ॥२१४॥

उत्पत्तिं भावयित्वा तु कुरुते स्वेच्छया प्रभुः ।
मायाद्यवनि पर्यन्ता ये रुद्राः संस्थिताः क्रमात् ॥२१५॥

भुंजते तत्र तत्रैव भोगादिमुदितात्मनः ।
पश्चात् ज्ञानं समाश्रित्य शिवतत्वं समाश्रिताः ॥२१६॥

मायान्तं लक्षणं प्रोक्तं तदूर्ध्वं लक्षणं शृणु ।
मायोर्ध्वे तु भवेदात्मा स्थितिः शतगुणेन तु ॥२१७॥

तदात्मा विमलः शुद्धः सर्वज्ञत्वादिभिर्गुणैः ।
जगत् बीजमिदं ज्ञेयं शिवव्यक्तिकरं परम् ॥२१८॥

माययासं वृतो ह्यात्मा शिवव्यक्तिकराय च ।
पशुपाश पतित्वञ्च त्रिगुणं विद्यते तथा ॥२१९॥

आत्मानमेवं वेत्तव्यं विद्यातत्वं तथा शृणु ।
आत्मनस्तु सहस्रांशात् विद्यातत्वन्तु संस्थितम् ॥२२०॥

ईश्वरः संस्थितस्तत्र ब्रह्माङ्गादि समन्वितः ।
तदूर्ध्वे चैव सादाख्यं तत्र संस्थः सदाशिवः ॥२२१॥

तदूर्ध्वे बिन्दुतत्वन्तु तदूर्ध्वे नादमेव तु ।
तदूर्ध्वे शक्तितत्वं हि चोर्ध्वे प्रथमशक्तिकम् ॥२२२॥

तदूर्ध्वे शिवतत्वन्तु सर्वतत्वोपरि स्थितः ।
शिवा?द्यवनि पर्यन्तं व्यापकन्तेन तेजसा ॥२२३॥

पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
अहङ्कारस्तथा बुद्धिर्गुणमव्यक्तमेव च ॥२२४॥

रागत्वञ्च ततः तस्मिन् दशपञ्चेन्द्रियाणि च ।
विद्याकालकला माया आत्मानन्तु तथैव च ॥२२५॥

शुद्धविद्या चं सादाख्यं बिन्दुनादन्तथैव च ।
द्वितीयं शक्तितत्वं च प्रथमं शक्तिमेव च ॥२२६॥

षट्त्रिंशत्तत्वमेतानि शिवतत्वोद्भवा इह ।
ब्रह्माण्डं पृथिवी ज्ञेया प्रकृत्यञ्जलकं स्मृतम् ॥२२७॥

तेजो विद्यान्तमेवं हि वायुः सदाशिवान्तकम् ।
व्योमः शक्त्यन्तमेषां वै पञ्चतत्वेषु संस्थितम् ॥२२८॥

एतानि पञ्चतत्वानि सुतत्वे तु स्थितानि तु ।
मायान्तानि च तत्वानि शिवतत्वमुदीरितम् ॥२२९॥

आत्मैव चात्म तत्वस्य सर्वतत्व प्रभुः स्मृतम् ।
विद्या तत्वादिशक्त्यन्तं विद्यातत्वमिति स्मृतम् ॥२३०॥

प्रकृति: पुरुषश्वैव ईश्वरश्चक्रयो भवेत् ।
माया प्रकृतिचात्मानं तत्वस्य पुरुषस्थित: ॥२३१॥

विद्यां चैवेश्वर: प्रोक्तस्सर्वतत्वं हि तन्मयम् ।
तेषु रुद्रैर्युतं ध्यानं तथाद्ध्वातुप्रकीर्तित: ॥२३२॥

तत्वाद्‍ध्वानमिदं प्रोक्तं भुवनाध्वानकं श्रृणु ।
पृथिव्यादीनि तत्वानि भुवनाद्‍ध्वानि संस्थित: ॥२३३॥

भुवनेषु स्थितारुद्रा भुवनेशा: प्रकीर्तिता: ।
रुद्रैस्तु भुवनैर्ध्यानं भुवनाद्‍ध्वाप्रकीर्तिता: ॥२३४॥

दशबीजमिदं मन्त्रं पञ्चतत्वे व्यवस्थितम् ।
प्रणवं पृथिवी ज्ञेयं मकारादि क्रयञ्जलम् ॥२३५॥

व्योमतत्वमयं चेजो व्यापिनो वायुरेव च ।
आकाश: प्रणव: प्रोक्तो मन्त्राद्‍धात्विहसं स्मृत: ॥२३६॥

लवरयहकारश्च पृथिव्याप्ता: प्रकीर्तिता: ।
लकार: पृथिवी ज्ञेयो वकारस्त्वाप उच्यते ॥२३७॥

रेफो वै वह्निबीजं तु यकारो वायुरेव च ।
हकारो गगनश्चैव वर्णाध्वासं प्रदर्शित: ॥२३८॥

दशाक्षरं पदं प्रोक्तं बीजाक्षरं चरणेन तु ।
भूताक्षरै: प्रदानीह संयोज्याद्‍ध्वापदं स्मृतम् ॥२३९॥

सद्यमन्त्रकलाचाष्टौ वामाख्यस्य त्रयोदश ।
अघोरस्य कलाश्चाष्टौ पुरुषस्य चतुष्कला: ॥२४०॥

ईशानस्य कला: पञ्च पञ्चब्रह्मसमुद्भवा: ।
अष्टत्रिंशत् कलाश्चैता: श्रृणु वै शोषिण: कला: ॥२४१॥

शशिनी चाड्गदा इष्टा मरीची ज्वलिनी तथा ।
ईशानस्य कला: पञ्च प्रोक्तास्तत्पुरुषे श्रृणु ॥२४२॥

निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ।
पुरुषस्य कला ह्येताश्चकस्त्रस्तु विशेषका: ॥२४३॥

तमो मोह: क्षयो निष्ठा व्याधिमृत्यु: क्षुत्तृट् ।
कलाश्चाष्टौ त्वघोरस्य वामदेवकला: श्रृणु ॥२४४॥

रजो रक्षातीपाल्या कामासंयमनी क्रिया ।
हुं क्रोधिका च धात्री च ब्राह्मिणी मोहिनी वरा ॥२४५॥

त्रयोदशकला ह्येतोरस्सद्यो जातकलाश्पृणु ।
सिध्दिर्वृध्दिर्द्दुतिर्ल्लक्ष्मीर्मेधाकान्तिस्वधाधृति: ॥२४६॥

सद्योजातकलानह्यष्टौ भूताक्षरसमन्विता: ।
न्यस्त्वा ध्यात्वा कलाश्च ता द्विविधास्तु कलास्तथा ॥२४७॥

षडिवधाध्वेहमार्गे तु विंशत्येकं शिवं पदम् ।
इत्येवं षडिवधं ज्ञानं ज्ञाक्त्वाध: पाशहा स्मृता: ॥२४८॥

ज्ञानपादं समासेन प्रोक्तमेवं विनायक ।
शिवसृष्टिमार्गमद्ध्वा ह्यखिलं समासाद्ज्ञानमशेषमुक्तम् ॥२४९॥

संक्षेपतस्तत्तदभावपूर्वं तथा समाप्तं त्वथ सुप्रभेदम् ॥२५०॥
इति श्रद्ध्वाविधिपटलस्तृतीय:

इति सुप्रभेदे ज्ञानपादसमाप्त:

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP