योगपदः - आधाराधेयविधिपटलः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
अथातः संप्रवक्ष्यामि आधाराधेयलक्षणम् ।
आधारं स्थानमित्युक्तमाधेयमधि दैवतम् ॥१॥
आधाराधेय संबन्धाद्योगमित्यभिधीयते ।
योगं बहुविधं वत्स आधाराणां बहुत्वतः ॥२॥
योगिनां योगमित्युक्तं ज्ञानिनां ज्ञानमेव च ।
वक्ष्येहमधुनायोगं संक्षेपान्नतु विस्तरात् ॥३॥
योगिनां साधकं पूर्वं मच्छृणुष्व हि साधके ।
प्रथमञ्चासनञ्चैव द्वितीयं योगपट्टिका ॥४॥
तृतीयमक्षमाला च वेणुदण्डञ्चतुर्थकम् ।
कमण्डलु विजानीयात् पञ्चमन्तु विशेषतः ॥५॥
तेषान्तु लक्षणं वक्ष्ये चासनं कूर्मवत् कृतम् ।
खादिरोदेवदारू च मधुको बिल्व एव च ॥६॥
अथवा याज्ञिकै वृक्षैः कृत्वा कूर्मासनं तथा ।
पादोनं वा तदर्द्धं वा त्रिविधं त्वासनं तथा ॥७॥
दर्पणोदरसङ्काशमधस्तादवदं तथा ।
आसनं त्वेवमाख्यातं योगाभ्यासे विनायक ॥८॥
व्याघ्राजीनं तु प्रधमा कृष्णाजिनं द्वितीयकाः ।
अथवा तन्तुना कार्या त्रिविधायोगपट्टिका ॥९॥
विस्तारन्त्र्यङ्गुलं प्रोक्तं नमानमुपवीतवत् ।
जपमालाशिरोमाला हृंमाला बाहुमालका ॥१०॥
कर्णपृष्ठात् तु नाभ्यन्ता उरोमाला इति स्मृताः ।
शिरोमाला तु तन्नाहा भुजमालाभुजासमा ॥११॥
जपमालां समानेन संख्यामात्रं शृणुष्व हि ।
पञ्चविंशति रुद्राक्षैर्माक्षार्त्थिनाञ्जपं स्मृतम् ॥१२॥
षड्विंशति शिवार्थञ्च ज्ञानार्थं शत्रुनाशनम् ।
सप्तविंशति इत्यर्थं पुष्ट्यर्थमष्टविंशतिः ॥१३॥
त्रिंशज्जयार्थिनां कार्यं दशपञ्चाभिचारकः ।
जपमालासमाख्याता जपमालाविधिं शृणु ॥१४॥
प्रणवं सर्वमन्त्रेषु सर्वमुच्चार्यते यतः ।
प्रणवं संप्रवक्ष्यामि संक्षेपान्न तु विस्तरात् ॥१५॥
अकारञ्च उकारञ्च मकारं बिन्दुरूपकम् ।
अकारं ब्रह्मदैवत्यमुकारं विष्णु दैवतम् ॥१६॥
मकारं रुद्र दैवत्यं बिन्दोरीश्वर एव हि ।
नादं सदाशिवं प्रोक्तमित्येते अधिदेवताः ॥१७॥
अकारं तु हृदिस्थानं उकारं कर्णदेशकम् ।
तालुमध्यं मकारं स्यात् बिन्दोश्चैव ललाटकम् ॥१८॥
तस्योपरि च नादस्य स्थानं ह्येवं प्रकीर्तितम् ।
अकारादि त्रयोवर्णास्त्वनुस्वार विसर्गकौ ॥१९॥
पञ्चवर्णाः प्रशस्यन्ते अकाराक्षर संभवाः ॥२०॥
कादिभामक्षिकारेता यकारान्यस्तु बिन्दुके ।
जाताना देशकारान्यास्त्वेते पञ्चाशति स्मृताः ॥२१॥
प्रणवं सर्ववर्णाख्यं सर्वदेवमयं विदुः ।
ऋषिः सनत्कुमारस्तु ओंकारः शुक्लवर्णकः ॥२२॥
गायत्रीच्छन्द इत्युक्तं तस्य वै शिवतत्वकः ।
ओमित्येकाक्षरं * * * * * * * * वा हिनाम् ॥२३॥
प्रणवन्तु समास्योक्ता स्मृतपञ्चाक्षरं शृणु ।
नमःशिवाय पञ्चार्णमेतत् पञ्चाक्षरं स्मृतम् ॥२४॥
वाचिकायस्तु विज्ञेयस्तद्वाच्यस्य शिवः स्मृतः ।
जपं शक्तिप्रदंशस्तं मल्लयोमुक्तिरिष्यते ॥२५॥
ऋषिच्छन्दोवर्णतत्वा देवतास्तु शृणु क्रमात् ।
काश्यपः कौशिकश्चैव भारद्वाजस्तु गौतमः ॥२६॥
आत्रेयस्तु न कारादि मुनयः क्रमशस्तथा ।
अनुष्टुप् त्रिष्टुप् ब्रहति जगत्यति जगत्यपि ॥२७॥
च्छन्दांसिहि समाख्याता वर्णाद्यैश्चक्रमाच्छृणु ।
रक्तं कृष्णन्तथा श्यामं पीतं स्फटिकसन्निभम् ॥२८॥
पृथिव्यादीनि तत्वानि तेषां तत्वं प्रकीर्तितम् ।
सद्यादि पञ्चवक्त्राणि तेषां देवाः प्रकीर्तिताः ॥२९॥
प्रणवेन समायुक्तं जपकाले तथोच्यते ।
तदा षडक्षरं प्रोक्तं स्त्रीशूद्रादैस्तु वर्जितम् ॥३०॥
जपञ्चतुर्विधं प्रोक्तं सर्वेषां जपकांक्षिणाम् ।
मानसञ्चैव कण्ठेष्यमुपांशु व्यक्तमेव च ॥३१॥
व्यक्तंदशगुणोपांशु स्तस्मात् कण्ठेष्यकं शतम् ।
सहस्रं मानसं तस्मादङ्गुल्यादि जपं शृणु ॥३२॥
अङ्गुल्या जपसंख्यातु तुल्या एकफलं तथा ।
पर्वणाष्टगुणं प्रोक्तं दीपेशतगुणाधिकम् ॥३३॥
शतसङ्ख्याकुशग्रन्धी प्रवालैस्तु सहस्रकम् ।
मणिभिर्दशसाहस्रं मौक्तिकैर्ल्लक्षमुच्यते ॥३४॥
पद्माक्षैः कोटिगुणितं रुद्राक्षैस्तु न विद्यते ।
रुद्राक्षैस्तु ततोत्पत्तिं शृणुत्वं वक्ष्यतेऽधुना ॥३५॥
दिव्यवर्षसहस्रन्तु चक्षुरुन्मीलितं मया ।
मुञ्चन्ति मम नेत्राणि श्रितरुद्राक्षमुच्यते ॥३६॥
एकवक्त्रं शिवः साक्षादनन्तन्धारणे फलम् ।
सन्धार्यमृयते यस्तु सयाति परमाङ्गतिम् ॥३७॥
द्विवक्त्रं शक्तिरित्युक्तं त्रिवक्त्रं नादमेव च ।
चतुर्वक्त्रन्तु बिन्दु स्यात् पञ्चवक्त्रं सदाशिवम् ॥३८॥
षड्वक्त्रमीश्वरं प्रोक्तं रुद्रः सप्तमुखं स्मृतम् ।
अष्टवक्त्रं स्मृतो विष्णुर्नववक्त्रञ्चतुर्मुखम् ॥३९॥
नववक्त्रैकवक्त्रान्तं फलं शतगुणोत्तरम् ।
हस्ते कर्णेशिखेकण्ठे सन्धार्यं सहभस्मना ॥४०॥
सर्वपापात् प्रमुच्यन्ते शिवसायुज्यमाप्नुयात् ।
दर्शनं पापनाशन्तु स्पर्शनं सर्वसिद्धिदम् ॥४१॥
सर्वाङ्गधारणात् पुण्यं रुद्राक्षं धारयेत् सदा ।
प्रयाणकाले रुद्राक्षं भक्षयित्वा मृयन्ति ये ॥४२॥
ते रुद्र पदमाप्नोति पुनर्जन्म न विद्यते ।
तस्मात् सर्वप्रयत्नेन जप्यं रुद्राक्षकैः सदा ॥४३॥
जपकालञ्च देशञ्च वक्ष्यते तु समासतः ।
पूर्वाह्ने चैव मध्याह्ने चापराह्नेर्धरात्रिके ॥४४॥
चतुष्कालं त्रिकालं वा तद्देशन्तु ततः शृणु ।
नदीतटाकतीरे वा गोष्ठे देवालयेपि वा ॥४५॥
वने वाथ गिरौ देशे पुण्यस्थाने ग्रहे जपेत् ।
देशमेवं समाख्यातं जपसंख्यां ततः शृणु ॥४६॥
सहस्रं वा तदर्धं वा तदर्धं वा शताष्टकम् ।
जपेन् नित्यं सदायोगी सर्वपापविनाशकृत् ॥४७॥
सयाति जपमात्रेण शिवलोकमथाक्षयम् ।
जपसंख्या विधिप्रोक्तो वेणुदण्डविधिं शृणु ॥४८॥
विप्राणान्तु शिरोत्सेधं क्षत्रियाणां ललाटके ।
वैश्यानां नासिकोत्सेधं शूद्रादीनान्तु वर्जयेत् ॥४९॥
वेणुदण्डमृजुं स्निग्धं वक्रकोटरवर्जितम् ।
दण्डस्यैव विधिः प्रोक्ता कमण्डलुविधिं शृणु ॥५०॥
पूरितञ्चाढकैः शृएष्ठं मध्यं त्रिप्रस्थपूरितम् ।
द्विप्रस्थपूर्णमधमं मानमेवं कमण्डलोः ॥५१॥
सौवर्णं रजतं वापि ताम्रं वा मृण्मयं तु वा ।
यदुक्तं शिल्पशास्त्रेषु तत्तदुक्ता तु कारयेत् ॥५२॥
शैवाना साधनं प्रोक्तं पञ्चधा समुदाहृतम् ।
योगाष्टकांगौ वक्ष्यामि शृणुष्वेकाग्र मानसः ॥५३॥
यमनियमासनञ्च प्राणायामं ततः परम् ।
प्रत्याहारञ्च ध्यानञ्च धारणा च समाधिकम् ॥५४॥
अष्टाङ्गमिति विज्ञेयं योगिनां योगसाधनम् ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिग्रहम् ॥५५॥
यमन्तु पञ्चधा प्रोक्तं नियञ्च ततः शृणु ।
शौच सन्तोषकात्तच्च तपःस्वध्यायमेव च ॥५६॥
ईश्वर प्रणिधानञ्च नियमं पञ्चधा स्मृतम् ।
गोमुखं स्वस्तिकञ्चैव पद्मञ्चैवार्धचन्द्रकम् ॥५७॥
वीरयोगासनञ्चैव षड्विधश्चासनं स्मृतम् ।
वामजानूपनिन्यस्य दक्षिणञ्जानुमण्डलम् ॥५८॥
द्वयोः पादतले चैव न्यसेत् द्वौपृष्ठ पार्श्वयोः ।
एवं कृत्वा तु सुस्निग्धं गोमुखीलक्षणान्वितम् ॥५९॥
ऊरूपार्श्वे तलौ न्यस्त्वा जंघामघ्नन्तु स्वस्तिकम् ।
ऊरूपरितले न्यस्त्वा पद्मासनमिहोच्यते ॥६०॥
गुल्फत्रयं समं कृत्वा तलेगुह्ये च विन्यसेत् ।
अर्द्धचन्द्रं समाख्यातं वीरासनं ततः शृणु ॥६१॥
द्विभुजं पतितं वामपादं दक्षिणतोपरि ।
स्थिरं वीरासनं प्रोक्तं योगासनं ततः शृणु ॥६२॥
शरीरञ्जानु संबन्धं योगपट्टिकया वृतम् ।
कूर्परौ चैव विन्यस्तं योगासनमिहोच्यते ॥६३॥
कृत्वा चैवैकमेतेषां ततो योगं समाचरेत् ।
योगाभ्यासस्य पूर्वे तु प्राणायामत्रयं कुरु ॥६४॥
रेचकं पूरकञ्चैव कुंभकं योगमभ्यसेत् ।
योगाभ्यासस्य पूर्वे तु प्राणायामत्रयं कुरु ॥६५॥
रेचकं पूरकञ्चैव कुंभकञ्च द्वितीयकम् ।
रेचकं रविबिंबं स्यात् पूरकं चन्द्रमण्डलम् ॥६६॥
आग्नेयं कुंभकं ज्ञेयं सकायोद्ध्यान पूजयेत् ।
रेचनाद्रेचकं प्रोक्तं पूरणात्पूरकं ततः ॥६७॥
कुंभकन्तु निरोधेन प्रणवेनाभ्यसेत्त्रयम् ।
रेचकात् द्वादशं मात्रं तन्मात्रं पूरकं स्मृतम् ॥६८॥
कुंभकं द्वादशं मात्रमिहशास्त्रे तु निश्चितम् ।
रेचकं ब्रह्मदैवत्यं पूरकं विष्णुदैवतम् ॥६९॥
कुंभकं रुद्रदैवद्यमधि देवास्त्रयं स्मृतम् ।
रेचकं पूरकञ्चैव योगिनान्तु अहर्निशि ॥७०॥
सूतकं प्रोतकं मुक्त्वा कुंभकेन तु पूरयेत् ।
प्राणायामक्रमं प्रोक्तं प्रत्याहारं ततः शृणु ॥७१॥
इन्द्रियाणीन्द्रियार्थेषु प्रतिस्थाने व्यवस्थितः ।
यावत् तावत् स्थितीभूतः प्रत्याहारः स उच्यते ॥७२॥
आधारेषु च संकल्प्य यथासनं स्वरूपकम् ।
ध्यानमेवं विजानीयात् सर्वदुःखनिवारणम् ॥७३॥
आधारलक्षणं वक्ष्ये संक्षेपान्नतु विस्तरात् ।
नाभेस्तु चतुरंगुल्य मधस्तादग्निमण्डलम् ॥७४॥
कदंबपुष्पवज्जुष्टं पत्रं जुष्टं त्रिकोणकम् ।
मूलाधारमधः प्रोक्तं द्वितीयं नाभिमूलके ॥७५॥
भुजङ्गवलयाकारमष्टवर्तुलमेव च ।
कुण्डलाख्या महानाडी भानुमण्डलमुच्यते ॥७६॥
नाभेरूर्ध्वन्तु यत्पद्मं चंद्रमण्डलमुच्यते ।
हृदये कर्णमूले तु तालुमूले ललाटके ॥७७॥
मूर्ध्निस्थाने तु संकल्प्य ध्यायेत् पद्मकपुष्पवत् ।
हृत् पद्मलक्षणं वक्ष्ये यथा वदनुपूर्वशः ॥७८॥
नाभौ तन्नालमूलन्तु ऊर्ध्वनालमधोमुखम् ।
कदलीपुष्पवत् पद्ममष्टपत्रं सकर्णिकम् ॥७९॥
इहशास्त्रेन वा धारं हृत्पद्मेन समायुतम् ।
आधारलक्षणं प्रोक्तमाधेयञ्च ततः शृणु ॥८०॥
आधेयं यत्प्रयुक्तञ्च समाधीत्येवमिश्रितम् ।
इडा च पिङ्गला चैव वीणादण्डस्य पार्श्वयोः ॥८१॥
सुषुम्ना मध्यगा तत्र मध्ये तु सुषिरं तथा ।
जीवप्राणसमायुक्तास्तेषु मध्येषु सञ्चरेत् ॥८२॥
सञ्चरन्निह तत्काले आधारेषु व्यवस्थितम् ।
संयुक्ते योगमाख्यातं योगी खगं समाश्रयेत् ॥८३॥
मूलाधारे ततस्त्वग्नि संयुक्ते योगमभ्यसेत् ।
योगाभ्यासेन तद्योगी अग्निलोकन्तु संस्पृशेत् ॥८४॥
तदूर्ध्वे भास्करन्ध्यात्वा रविलोकमवाप्नुयात् ।
एवं ध्यात्वा तदूर्ध्वे तु चंद्रलोकं स गच्छति ॥८५॥
ब्रह्माणं हृदये स्मृत्वा ब्रह्मलोकमवाप्नुयात् ।
विष्णुं ध्यात्वा तदूर्ध्वे तु कण्ठमूले व्यवस्थितम् ॥८६॥
पुरुषं व्यापयेद्योगी योगाभ्यासेन तत्गुणैः ।
तालुमूले स्मरेद्रुद्रं रुद्रलोकपदेच्छया ॥८७॥
पुरुषोपरिवेशान्तं व्यापकं स्वेन तेजसा ।
ललाटे ईश्वरं ध्यात्वा तल्लोकं तदवाप्नुयात् ॥८८॥
सदाशिवन्तु शिरसि ध्यात्वा तत्रैव भूज्यते ।
हृत्पद्ममध्यं गत्वा तु बिन्दुनादञ्च शक्ति च ॥८९॥
चतुरङ्गुलमात्रेण दीपाकारं विचिन्तयेत् ।
चतुस्थानेषु संपूज्य तत्तत्स्थान स्वरूपकैः ॥९०॥
शिरोपरिन्यसेत् ब्रह्ममव्ययं निष्कलान्वितम् ।
तस्माद्योग समायुक्तो योगीयोगफलं लभेत् ॥९१॥
अणुमात्रं लभेद्यस्मादणिमेत्यभिधीयते ।
सहस्रैर्वा यथा गत्वा मूलवर्णप्रदेशकम् ॥९२॥
स्वेच्छया लभते यस्मात् तस्मात् सा लघिमा स्मृता ।
भूमौ मनो जपं कृत्वा पूज्यते शास्त्रवादिभिः ॥९३॥
सर्वत्र पूजितो यस्मात् तस्मात् सा महिमा भवेत् ।
सर्वद्रव्याणि संप्राप्तिः प्राप्तिरेषामुदाहृता ॥९४॥
प्रकाम्येषु शरीरेषु प्रकाशन्तु प्रवेशिता ।
सूर्यादिष्वनवाप्तत्वादीशत्वं समुदाहृतम् ॥९५॥
यदीशत्वन्तु तत्रैव तदीशित्वं विधीयते ।
शिवसायुज्य सामर्थ्यात्तच्छिवत्वमिति स्मृतम् ॥९६॥
अणिमाद्यष्ट सिद्धिञ्च लभेद्योगी विशेषतः ।
सालोक्यादि चतुर्थश्च प्राप्यते योगी लक्षणम् ॥९७॥
सालोक्यञ्चैव सामीप्यं सा रूप्यं सा युज्यकं तथा ।
ध्यानलोकन्तु संप्राप्य सा लोक्यन्तद्विधीयते ॥९८॥
तद्देवस्यं समीपत्वात् सामीप्यमिति चोच्यते ।
तत्तद्रूपन्तु लब्ध्वा तत् सारूप्यमिति च स्मृतम् ॥९९॥
शिवे संयोजितं रूपं सा युज्यमिति कत्थ्यते ।
योगं समासात् संप्रोक्तं ज्ञानपादं ततः शृणु ॥१००॥
तद्योगपादं क्रमशः प्रमाणैर्यत्प्रोक्तमत्रैव समासतस्तत् ।
नाडी तु चक्रन्त्वथ कालचक्रमाधारयुक्तं पटलत्रयेण ॥१०१॥
इति आधाराधेय विधिपटलस्तृतीयः ॥३॥
इति सुप्रभेदेयोगपादः समाप्तः
N/A
References : N/A
Last Updated : October 11, 2022
TOP