संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|ब्रह्मसूत्रम् अनुभाष्यम्|चतुर्थोध्यायः| प्रथमः पादः चतुर्थोध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थोध्यायः चतुर्थोध्यायः - प्रथमः पादः ब्रह्मसूत्रम् अनुभाष्यम् Tags : anu bhashyambrahma sutramsanskritअनु भाष्यब्रह्म सूत्रसंस्कृत प्रथमः पादः Translation - भाषांतर समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने ।विचारितेष्वशेषेषु साधनेषु विशेषतः ॥१॥नित्यशः कार्यमत्यन्तमवश्यं भावि साधनम् ।चिन्त्यते प्रथमं तत्र श्रवणादिसकृत्क्रिया ॥२॥आवृत्तिर्वेति सन्देहे कर्तव्याऽवृत्तिरेव हि ।उपदेशोऽतत्त्वमसीत्यादिर्ह्यसकृदेव यत् ॥३॥लिङ्गाल्लातव्यतः पूर्वमृजोबर्रह्मत्वतः शतात् ।शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः ॥४॥सार्द्धं परार्द्धं विष्णोस्तु गुणान् भक्तया सदोद्यतः ।तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः ॥५॥दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः ।पदयोग्यात्सुमनसः सुनन्दो नाम चाशृणोत् ।उपासां चक्र उद्युक्तो मन्वन्तरचतुष्ययम् ॥६॥सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ।सुरूपः शान्तरूपश्च मन्वन्तरचतुष्ययम् ।अशृण्वतां सुमनसो मन्वन्तरमुपासताम् ॥७॥ततः प्रोक्तास्तु ते सर्वे भक्तयोग्रतपआदयः ।अपश्यन् परमं विष्णुं तत्प्रसादेधिताः सदा ।इत्युक्तं विष्णुना साक्षाद्ग्रन्थे सत्तत्वसञ्ज्ञिते ॥८॥आत्मेति नाम कथितं साक्षान्नारायणस्य हि ।आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः ॥९॥विष्णुर्नारायणोऽनन्त इति श्रीपतिरीर्यते ।इति पिङ्गश्रुतिश्चैव तथैव परमश्रुतिः ॥१०॥ओमात्मा भगवान् विष्णुरात्मानन्दोऽक्षरः स्वराट् ।विश्वत्राता नृसिंहोऽजो नारायण उरुक्रमः ॥११॥अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ।दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥१२॥इति भागवते चैव तस्मादात्मा जनार्दनः ।तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा ॥१३॥तथैवोपासते सन्तस्तथैवोपदिशन्ति च ।आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत् ।स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा ॥१४॥स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः ।कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत् ॥१५॥इति सत्तत्त्ववचनं षाड्गुण्यवचनं परम् ।मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ।इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः ॥१६॥प्रतीकविषयत्वेन न कार्या विष्णुभावना ।प्रतीकं नैव विष्णुर्यन्मिथ्योपासा ह्यनथर्दा ॥१७॥योऽन्यथा सन्तमात्मेशमन्यथा प्रतिपद्यते ।किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥१८॥योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।किं तेन न कृतं पापं चोरेणेशापहारिणा ॥१९॥योऽन्यथैव स्थितं विष्णुमन्यथा प्रतिपद्यते ।किं तेन न कृतं पापं चोरेण ब्रह्मचारिणा ॥२०॥स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा ।चेतनाचेतनं वान्यद्ध्यायेद्यः केशवस्त्विति ।किं तेन न कृतं पापं चारेणेशापहारिणा ॥२१॥योऽन्यद्विष्णुरिति ध्यायेज्जानीयाद्वा हरिं तथा ।अन्धे तमसि मज्जेत्स यत्र नैवोत्थितिः क्वचित् ॥२२॥योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा ।अन्यथा ध्यानदोषेण महातमसि मज्जति ॥२३॥योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा ।महातमसि मग्नस्य तस्य नैवोत्थितिः क्वचित् ॥२४॥यत्किञ्चिदन्यथा संस्थमन्यथा ध्यातमञ्जसा ।ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः ॥२५॥यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा ।महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः ॥२६॥यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा ।अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः ॥२७॥न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् ।किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित् ॥२८॥तस्माद्वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा ।कारणं पुरुषार्थस्य नान्यथा भवति क्वचित् ॥२९॥इति श्रुतिपुराणोक्तिबलतो न प्रतीकता ।ध्येया विष्णोः क्वचिद्यस्मान्मिथ्याज्ञानमनर्थदम् ॥३०॥इत्यभिप्रेत्य न हि स इत्याह भगवान् प्रभुः ।प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्नचान्यथा ॥३१॥ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा ।उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मता यतः ॥३२॥आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु ।ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्तया निरन्तरम् ।इति प्रकाशिकायां च वचनं विष्णुनेरितम् ॥३३॥नात्मेति सूत्रमीशस्य जीवत्वप्रतिपादकम् ।आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् ।स्वशब्दात्प्राणभृच्चैव नोक्त इत्येव वेदराट् ॥३४॥यद्यात्मशब्दो जीवेऽपि कथं स विनिवारयेत् ।आत्मशब्दोदितस्तस्माद्विष्णुरेव नचापरः ॥३५॥आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।न वदन्ति यतो नाप्ता क्वापि तैर्गुणपूर्णता ।नारायणाध्यात्मगतमिति यद्वैष्णवं वचः ॥३६॥यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते ।आत्मशब्दं कथं तस्मान्निवारयति युक्तितः ॥३७॥भेदस्य व्यपदेशं च स्थितिं चादनमेव च ।भेददार्ढ्ये हेतुमाह सतात्पर्यं जगत्पतिः ॥३८॥व्यावहारिकभेदश्चेत्क्वासावव्यावहारिकः ।व्यावहारिकमित्येव वचनं व्यावहारिकम् ॥३९॥उत नेति विकल्पे तु यदि स्याद्व्यावहारिकम् ।तस्यापि बाध्यता चेत्स्याद्भेदः स्यात्पारमार्थिकः ॥४०॥अव्यावहारिकत्वं चेद्भेदोऽयं सत्यतां गतः ।एकस्यासत्यतायां हि द्वयोरेव विरुद्धयोः ।अन्यस्य सत्यतैव स्यादिति केन निवार्यते ॥४१॥असत्यं नोक्तमित्युक्ते सत्यमुक्तमिति प्रजाः ।जानन्त्युक्तं तु नो सत्यमित्युक्तेऽसत्यतामपि ॥४२॥न स्वप्नेऽपि द्वयं मिथ्या तत्रैकं सत्यमेव हि ।भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः ॥४३॥भावस्य हि निषेधे तु नाभावस्य निषेधनम् ।स्ववाचोऽसत्यता चेत्स्यात्तस्माद्भेदस्य सत्यता ॥४४॥तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते ।एतस्मादात्मशब्दोऽयं परमात्माभिधा भवेत् ॥४५॥प्रतीकविषयत्वेन विष्णुदृष्टिर्न तद्भवेत् ।प्रतीके विष्णुरित्येव तस्मात्कार्या ह्युपासना ॥४६॥न च विष्णुः प्रतीकं यत्तस्मान्नात्मेत्युपासना ।इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुद्धयते ।स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता ॥४७॥यद्यप्युत्कर्षमात्रेण ह्यतद्भवेऽप्युपासना ।उत्कर्ष आत्मनोऽपि स्याच्चेतनत्वादचेतनात् ।तसमादतत्त्वं नोपास्यमिति वेदविदो मतम् ॥४८॥उत्कर्षाद्ब्रह्मताध्याने यदि स्यात्फलमञ्जसा ।ब्रह्मणो नीचताध्यानादनर्थः किं न जायते ॥४९॥अचेतनस्य ब्रह्मत्वध्याने तुष्यिर्नहि क्वचित् ।नीचस्य स्वात्मताध्याने कुप्यति ब्रह्म लोकवत् ॥५०॥चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि ।को विशेषः परिज्ञाते नृपेण स्यात्कथञ्चन ॥५१॥पुरतो नरदेवस्य चण्डालो यदि पूज्यते ।राजवत्किं न कोपः स्याद्राज्ञो लोके हि पश्यति ॥५२॥राज्ञस्तु पुरतः प्रोक्ते चण्डालं नृप इत्यपि ।आत्मानं स इति प्रोक्तमितिवद्धयेव कुप्यति ॥५३॥अभेदे नैतयोर्ध्याने को विशेषो वचस्यपि ।अयं राजा त्वमित्युक्ते चण्डालेऽथ नृपेऽपि च ।चण्डाल इति तु प्रोक्ते सममेव हि दूषणम् ॥५४॥ध्याते त्वेकस्य तद्भावे तद्भावोऽन्यस्य किं न तत् ।नचैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित् ॥५५॥तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः ।तस्माद्यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः ॥५६॥तथोपास्याञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ।करोति निखिलं पूर्वं पाश्चात्त्यस्याप्यसङ्गताम् ।करोति तद्द्विषश्चैवं पुण्यनाशोऽप्यसङ्गता ॥५७॥यदेव विद्ययेत्यत्र पूर्वोक्ताद्धि विशिष्टते ।पूर्वं स्वर्गादिलब्ध्यर्थं वीर्यवत्त्वेन चोदितम् ।कर्म विद्यायुतं पश्चान्मोक्षे वीर्यप्रदं त्विति ॥५८॥ततो भोगेन पुण्यं च क्षपयित्वेतरत्तथा ।ब्रह्मद्विड्ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः ॥५९॥ब्रह्माणं शतकालात्तु पूर्वमारब्धसङ्क्षयः ।ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद्ब्रह्मणस्तथा ।रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश ॥६०॥अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः ।ब्रह्मणैव सहातश्च परं नारायणं व्रजेत् ।इति सत्तत्त्ववचनं स्वयं भगवतोदितम् ॥६१॥॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः॥ N/A References : N/A Last Updated : July 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP