संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|ब्रह्मसूत्रम् अनुभाष्यम्|प्रथमोध्यायः| प्रथमः पादः प्रथमोध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः प्रथमोध्यायः प्रथमोध्यायः - प्रथमः पादः ब्रह्मसूत्रम् अनुभाष्यम् Tags : anu bhashyambrahma sutramsanskritअनु भाष्यब्रह्म सूत्रसंस्कृत प्रथमः पादः Translation - भाषांतर नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः ।अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥१॥तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव ।विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥२॥प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः ।अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥३॥गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः ।यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥४॥वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता ।आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥५॥युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् ।दृश्यते ब्रह्मसूत्राणामेकधान्यत्र सर्वशः ॥६॥अतो नैतादृशं किञ्चित्प्रमाणतममिष्यते ।स्वयं कृतापि तद्वयाख्या क्रियते स्पष्टतार्थतः ॥७॥तत्र ताराथमूलत्वं सर्वशशस्त्रस्य चेष्यते ।सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः ॥८॥ओतत्ववाची ह्योङ्कारो वक्तयसौ तद्गुणोतताम् ।स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥९॥स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः ।भावनाच्चैव सुत्वाच्च सोऽयं पुरुष इत्यपि ॥१०॥स एव सर्ववेदार्थो जिज्ञास्योऽयं विधीयते ।ज्ञानी प्रियतमोऽतो मे तं विद्वानेव चामृतः ॥११॥वृणुते यं तेन लभ्य इत्याद्युक्तिबलेन हि ।जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते ॥१२॥द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥१३॥नर्ते त्वत्क्रियते किञ्चिदित्यादेर्न हरिं विना ।ज्ञानस्वभावतोऽपि स्यान्मुक्तिः कस्यापि हि क्वचित् ॥१४॥अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।आनन्ददश्च मुक्तानां स एवैको जनार्दनः ॥१५॥इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते ।मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः ॥१६॥मिथ्यात्वं यदि दुःखादेस्तद्वाक्याग्रतो भवेत् ।मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिनः ॥१७॥तच्च मिथ्याप्रमाणेन सता वा साध्यते त्वया ।सता चेद्द्वैतसिद्धिः स्यान्न सिद्धं चान्यसाधनम् ॥१८॥साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता ।स्वीकृतं ह्यविशेषस्य साध्या साधकता पुनः ॥१९॥तच्चाविशेषमानेन साध्यमित्यनवस्थितिः ।अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता ॥२०॥तस्माद्व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता ।व्यावहारिकमेतस्मात्सत्यमित्येव चागतम् ॥२१॥व्यवहारसतश्चापि साधकत्वं तु पूर्ववत् ।सत्त्रैविध्यं च मानेन सिद्धयेत्केनेति पृच्छ्यते ॥२२॥तस्याप्युक्तप्रकारेण नैव सिद्धिः कथञ्चन ।वैलक्षण्यं सदसतोरप्येतेन निषिध्यते ॥२३॥वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः ।असतश्चापि विश्वस्य तेनानिष्यं कथं भवेत् ॥२४॥यद्युच्यतेऽपि सर्वस्मादिति सद्भेदसंस्थितिः ।सन्मात्रत्वं ब्रह्मणोऽपि तस्मात्तदपि नो भवेत् ॥२५॥ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः ।विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम् ॥२६॥असद्विलक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि ।तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥२७॥अन्यथात्वमसत्तस्माद्भ्रान्तावेव प्रतीयते ।सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ॥२८॥तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः ।निर्विशेषे स्वयं भाते किमज्ञानावृतं भवेतः ॥२९॥मिथ्याविशेषोऽप्यज्ञानसिद्धिमेव ह्यपेक्षते ।नचाअवरणमज्ञानमसत्ये तेन चेष्यते ॥३०॥अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते ।अज्ञानाभावतः शास्त्रं सर्वं व्यर्थीभविष्यति ॥३१॥अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने ।अनवस्थितिस्तथाच स्यादन्योन्याश्रयताथवा ॥३२॥स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत् ।अविद्यादुर्घटत्वं चेत्स्यादात्मापि हि तादृशः ॥३३॥अतोऽधिकारिविषयफलयोगादिवर्जितम् ।अनन्तदोषदुष्टं च हेयं मायामतं शुभैः ॥३४॥सत्यत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः ।न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चन ॥३५॥यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत् ।ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः ॥३६॥सार्वज्ञ्यादिगुणं जीवाद्भिन्नं ज्ञापयति श्रुतिः ।ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी ॥३७॥उपजीव्यविरोधेन नास्यास्तन्मानता भवेत् ।स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्त्यैक्ययोरपि ॥३८॥सादृश्ये चैक्यवाक्सम्यक्सावकाशा यथेष्यतः ।अवकाशोज्खिता भेदश्रुतिर्नातिबला कथम् ॥३९॥अज्ञानासम्भवादेव मिथ्याभेदो निराकृतः ।अतो यथार्थबन्धस्य विना विष्णुप्रसादतः ॥४०॥अनिवृत्तेस्तदर्थं हि जिज्ञासात्र विधीयते ।यथा दृष्टया प्रसन्नः सन् राजा बन्धापनोदकृत् ॥४१॥एवं दृष्टः स भगवान् कुर्याद्बन्धविभेदनम् ।कार्यता च न काचित्स्यादिष्टसाधनतां विना ॥४२॥कार्यं न हि क्रियाव्याप्यं निषिद्धस्य समत्वतः ।न भविष्यत्क्रिया कार्यं स्रक्ष्यतीश इति ह्यपि ॥४३॥कार्यं स्यान्नैव चाकर्तुमशक्यं कार्यमिष्यते ।साम्यादेव निषिद्धस्य तदिष्टं साधनं तथा ॥४४॥कार्यं साधनमिष्टस्य भगवानिष्टदेवता ।मुख्येष्यं वा सुमनसां प्रेयस्तदिति च श्रुतिः ॥४५॥प्राणबुद्धिमनःखात्मदेहापत्यधनादयः ।यत्सम्पर्कात्प्रिया आसंस्ततः को न्वपरः प्रियः ॥४६॥इत्यादिवाक्यैराकाङ्क्षासन्निधिर्योग्यता यतः ।अस्मिन्नेव समस्तस्येतीष्ये व्युत्पत्तिरिष्यते ॥४७॥अत्त्यपूपांस्तव भ्रातेत्यादावावापतोऽपि च ।उद्वापाद्वर्तमानत्वादाकाङ्क्षादिबलादपि ॥४८॥बालो व्युत्पत्तिमप्येति नानयेत्यादिवाक्यतः ।आनीयमानदृष्टयैव व्युत्पत्तेः सम्भवे सति ॥४९॥एष्यदानयनायायं कुत एव प्रतीक्षते ।व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति ॥५०॥पुनर्दृष्ट्यैव शब्दश्रुत्पश्चात्व्युत्पत्तिमेष्यति ।वर्तमानमतीतं च भविष्यदिति च क्रमात् ॥५१॥आकाङ्क्षादियुतं यस्माद्विधेर्व्युत्पादनं कुतः ।दृष्ट्या ज्ञातपदार्थस्य पदाकाङ्क्षा भविष्यति ॥५२॥व्युत्पत्तिः प्रथमा तस्माद्वतर्माने गते ततः ।इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते ॥५३॥अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम् ।क्वापि चेष्या तदर्था स्यादत्तिर्हि रसवित्तये ॥५४॥वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि ।न च स्रुकस्रुववह्नयादावतात्पर्यं श्रुतेर्भवेत् ॥५५॥यत्किञ्चित्करणरस्यापि यज्ञतैवान्यथा भवेत् ।तस्मादुपासनार्थं च स्वार्थे तात्पर्यवद्भवेत् ॥५६॥इति शब्दोन्नयेऽग्नावित्युन्नीते स्मृतिर्भवेत् ।इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम् ॥५७॥आत्मानमेवेत्यादीनि योगेऽग्नावपि तत्समम् ।एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः ॥५८॥वाक्यभेदो न युक्तः स्याद्योगश्च स्यान्महाफले ।इति ब्रूयादिति वचो गतमग्नौ समीपगम् ॥५९॥कल्पनागौरवं चेत्स्यात्पृथक्तात्पर्यसम्भवे ।कल्पनागौरवादेव पदार्था न स्युरेव हि ॥६०॥प्रमाणावगतत्वं चेत्तात्पर्याणशं तथैव हि ।तस्मात्पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च ॥६१॥पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत् ।अवान्तरत्वाद्वाक्यानां वाक्यभेदो न दूषणम् ॥६२॥अङ्गीकृतत्वादपि तैः पदार्थानां पृथक्पृथक् ।क्रियापदेनान्वयस्य वाक्यभेदाद्धि दूषणम् ॥६३॥प्रत्यक्षादिविरोधेऽतो गौणार्थस्यापि सम्भवात् ।अतात्पर्यं पदार्थेऽपि न कल्प्यमविरोधतः ॥६४॥अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि ।मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद्भवेत् ॥६५॥कर्तव्या तेन जिज्ञासा श्रुतिप्रामाण्ययोगतः ।प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ॥६६॥अनवस्थान्यथा हि स्यादप्रामाण्यं तथान्यतः ।मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत् ॥६७॥न मानमपि वेदानामङ्गीकार्या हि नित्यता ।न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित् ॥६८॥अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोऽपि च ।कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥६९॥प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति चोदिते ।न बुद्धो धर्मदर्शी स्यात्पुंस्त्वादित्यनुमाहतिः ॥७०॥अधर्मवादिनो वाक्यमप्रयोजनमेव हि ।धर्माभावोऽपि नो तेन प्रत्यक्षावगतो भवेत् ॥७१॥अतः संशयसम्पत्तौ वाक्यं प्रत्यक्षवत्प्रमा ।शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ॥७२॥अतोऽन्विताभिधायित्वं गौरवं कल्पनेऽन्यथा ।नचाशक्याभिधायित्वं प्रवृत्तिश्च द्विधान्यथा ॥७३॥एतत्सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात् ।उक्तं विद्यापृथक्तवात्तु सङ्क्षेपेणात्र सूचितम् ॥७४॥प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः ।मानन्यायैस्तु तत्सिद्धैमीमांसा मेयशोधनम् ॥७५॥ब्रह्मतर्कं च भगवान् स एव कृतवान् प्रभुः ।पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ॥७६॥उद्धृत्य पञ्चसाहस्रं कृतवान् बादरायणः ।अतस्तदर्थं सङ्क्षेपादत इत्यभ्यसूचयत् ॥७७॥यतोऽनुभवतः सर्वं सिद्धमेतदतोऽपि च ।देवैश्च दुर्गमार्थेषु व्यापृतो नातिविस्तृतिम् ॥७८॥चकारैता ह्यवज्ञेया युक्तयः प्रतिपक्षगाः ।प्रत्यक्षेक्षाक्षमः पक्षं कमेवात्राभिवीक्षते ॥७९॥तस्मादक्षमपक्षत्वान्मोक्षशास्त्रेऽभ्युपेक्षितः ।स्वयं भगवता विष्णुर्ब्रह्मेत्येतत्पुरोदितम् ॥८०॥स विष्णुराह हीयन्ते देवशास्त्रस्य तेन हि ।आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम् ॥८१॥मध्यं तदाज्ञया पैलशेषाभ्यां कृतमञ्जसा ।अतस्तत्रैव विष्णुत्वसिद्धेर्ब्रह्मेत्यसूचयत् ॥८२॥दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः ।गुणा नारा इति ज्ञेयस्तद्वान्नारायणः स्मृतः ॥८३॥ब्रह्मशब्दोऽपि हि गुणपूर्तिमेव वदत्ययम् ।अतो नारायणस्यैव जिज्ञासात्र विधीयते ॥८४॥सिद्धत्वाद्ब्रह्मशब्दस्य विष्णौ स्पष्टतया श्रुतौ ।अम्भस्यपार इत्युक्तो नारायणपदेरितः ॥८५॥आपो नारा इति ह्याह स एवाप्स्वन्तरीरितः ।कामतो विधिरुद्रादिपददातृया स्वयं श्रिया ॥८६॥योनित्वेनात्मनो विष्णोस्तिष्ठन्तीत्युदितस्य च ।यस्मिन् देवा अधीत्युक्तवा समुद्रं स्थानमेव च ॥८७॥नाम चाक्षरमित्येव ऋच इत्युदितं तु यत् ।यतः प्रसूतेत्युक्तवा च तदेव ब्रह्म चाब्रवीत् ॥८८॥अन्तःसमुद्रगं विश्वप्रसूतेः कारणठ तु यत् ।सूक्तोपनिषदाद्युक्तं जन्माद्यस्येति लक्ष्यते ॥८९॥सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः ।बन्धमोक्षावपि ह्यासु श्रुतिषूक्ता हरेः सदा ॥९०॥यं नामानि विशन्त्यद्धा यो देवानामिति ह्यपि ।श्रुतेर्नामानि सर्वाणि विष्णोरेव यतस्ततः ॥९१॥अतो न मुख्यतो नाम तदन्यस्य हि कस्यचित् ।गुणाः श्रुता इति ह्यस्मान्न दोषोऽर्थः श्रुतेर्भवेत् ॥९२॥प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे ।सर्वेषामपि वाक्यानां महातात्पर्यमत्र हि ॥९३॥तद्विरोधे न मानत्वं फलं मुक्तिर्हि वाक्यतः ।न पुराणादिमानत्वं विरुद्धार्थे श्रुतेर्भवेत् ॥९४॥दर्शनान्तरमूलत्वान्मोहार्थं चाज्ञया हरेः ।न सर्वनामतान्येषां श्रुतावुक्ता हि कुत्रचित् ॥९५॥अदोषवचनाच्चैव नियमेन हरेः श्रुतौ ।अज्ञानं पारतन्त्र्यं च प्रळयेऽभाव एव च ॥९६॥अशक्तिश्चोदितान्येषां सर्वेषामपि च श्रुतौ ।जन्माद्यस्येति तेनैतद्विष्णोरेव स्वलक्षणम् ॥९७॥अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षणम् ।कृष्णद्धयानच्छलेनैव स्वयं भागवतेऽब्रवीत् ॥९८॥अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः ।न हि जन्मादिहेतुत्वं जीवस्य जगतो भवेत् ॥९९॥हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः ।निर्गुणत्वं च तेनैव निषिद्धं प्रभुणा स्वयम् ॥१००॥भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः ।कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः ॥१०१॥सदैव गुणवत्त्वेऽस्य भिन्नं स्यान्निर्गुणं सदा ।न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात् ॥१०२॥निर्गुणत्वं तदा च स्यादासुरत्वं नचान्यथा ।लक्ष्यलक्षणयोर्भेदोऽभेदो वा यदि वोभयम् ॥१०३॥इति पृष्टे तदैक्यस्य गतिरेव न विद्यते ।ऐक्याभेदे न शास्त्रेण ज्ञेयं तत्स्वप्रकाशतः ॥१०४॥भेदे मिथ्यात्वतो भेदसत्यत्वं स्याद्बलादपि ।भेदाभेदौ यदि तदा स्यादेव ह्यनवस्थितिः ॥१०५॥स्वनिर्वाहकता चेत्स्याद्बाह्यं बाहकमित्यपि ।पर्यायो भेदवान् वा स्यादनवस्थोभयत्र च ॥१०६॥सत्यज्ञानादिकेऽप्येव न व्यावृत्त्या प्रयोजनम् ।व्यावृत्तस्याविशेषत्वे तदखण्डं च खण्डितम् ।निर्विशेषत्वमेतेन मूकोऽहमितिवद्भवेत् ॥१०७॥अभिन्नेऽपि विशेषोऽयं बलादापतति ह्यतः ।विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत् ॥१०८॥भेदहीने त्वपर्यायशब्दान्तरनियामकः ।विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ॥१०९॥विशेषास्तेऽप्यनन्ताश्च परस्परविशेषिणः ।स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः ॥११०॥अतोऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते ।एवं धर्मानिति श्रुत्या तदभेदोऽप्युदीर्यते ॥१११॥शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ।तद्वाक्योपमयान्यच्च प्रमाणत्वेऽनुमीयते ॥११२॥ईशवाक्यत्वत इति चेत्तद्गव्यभिचारिणा ।अप्रामाण्यानुमा च स्यान्न पृथक्चानुमेश्वरे ॥११३॥पुंस्त्वहेतुबलादेव पूर्वोक्तेनैव वर्त्मना ।शास्त्रयोनित्वमेतेन कारणस्य बलाद्भवेत् ॥११४॥नावेदविन्न तर्केण मतिरित्यादिवाक्यतः ।तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन ॥११५॥वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः ।किञ्चिज्ज्ञानं हि पुंस्त्वेन शक्यं साधयितुं सुखम् ॥११६॥वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वाद्धि चैत्रवत् ।इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः ।शक्तं विज्ञापने चातिप्रसङ्गोऽनुमयेदृशा ॥११७॥वस्तुत्वात्तुरगः शृङ्गी पुष्पवत्खं सुतैर्युता ।चित्रिणी च रसः षष्ठो रसत्वात्सोत्तरो भवेत् ।उपक्रमादिलिङ्गेभ्यो नान्यास्यादनुमा ततः ॥११८॥त एवान्वयनामानस्तैः सम्यक्प्रविचारिते ।मुख्यार्थो भगवान् विष्णुः सर्वशास्त्रस्य नापरः ॥११९॥ईक्षणीयत्वतो विष्णुर्वाच्य एव नचान्यथा ।लक्ष्यत्वं क्वापि दृष्टं हि किं तदित्यनवस्थितिः ॥१२०॥माधुर्यादिविशेषाश्च तच्छब्दैरुदिताः सदा ।वाक्यार्थोऽपि हि वाक्यार्थशब्देनैवोदितो भवेत् ॥१२१॥नावाच्यं तेन किञ्चित्स्याद्यत इत्यादिकैर्वदन् ।अवाच्यत्वं कथं ब्रूयान्मूकोऽहमितिवत्सुधीः ॥१२२॥येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोऽवदत् ।एकस्यापि हि शब्दस्य गौणार्थस्वीकृतौ सताम् ॥१२३॥महती जायते लज्जा यत्र तत्राखिला रवाः ।अमुख्यार्था इति वदन् यस्तन्मार्गानुवर्तिनाम् ।कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः ॥१२४॥आत्मब्रह्मादयः शब्दाः साक्षात्पूर्णाभिधायिनः ।जन्मादिकारणं ब्रह्म लक्षितं च यदा तदा ॥१२५॥वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपि ।कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन् पदैः ॥१२६॥आत्मशब्दोदितस्यैव ज्ञानं मुक्तावसाधनम् ।आह श्रुतपरित्यागः स्याच्चास्याश्रुतकल्पनम् ॥१२७॥स्यात्सर्वत्र च यत्रैकमपि लोको जुगुप्सते ।नियमेनोभयं स्याद्धि यस्य स्वपरयोर्मते ॥१२८॥अलङ्कृतः सदैवायं दुर्घटैरेव भूषणैः ।अन्धन्तमो नित्युदुःखं तस्य स्याद्वसनद्वयम् ॥१२९॥अनन्दा नाम ते लोका अन्धेन तमसाऽवृताः ।तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसो बुधो जनाः ॥१३०॥असुर्या नाम ते लोका अन्धेन तमसाऽवृताः ।तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः ॥१३१॥इत्यादिश्रुतयो मानं शतशोऽत्र समन्ततः ।हेयत्वावचनाच्चैव नात्मा गौणः श्रुतौ श्रुतः ॥१३२॥तमेवैकं जानथान्या वाचो मुञ्चथ चेति ह ।उक्त आत्मा कथं गौणो हेयपक्षे ह्यसौ श्रुतः ॥१३३॥परिवारतया ग्राह्या अपि हेयाः प्रधानतः ।पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥१३४॥इति स्वस्यैव पूर्णस्य पूर्णेऽप्यय उदाहृतः ।कथं मायाव्यवच्छिन्नः पूर्णो मुख्यतया भवेत् ॥१३५॥पदं च निर्गुण इति कथं गौणं वदिष्यति ।गुणाभावोपलक्ष्यं चेत्पदं तदपि वाचकम् ॥१३६॥अतोऽनवस्थितिमुखसर्वदोषमहास्पदम् ।कथमेतन्मतं सद्भिराद्रियेत विचक्षणैः ॥१३७॥न च साङ्खयनिराकृत्यै सूत्राण्येतान्यचीकॢपत् ।भगवान्नह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ ॥१३८॥समन्वये प्रतिज्ञाते शब्दगोचरतैव हि ।प्रथमप्रतिपाद्या स्यात्तदभावे कुतोऽन्वयः ॥१३९॥कथं च लक्षणावादी ब्रूयाद्ब्रह्मसमन्वयम् ।योऽसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात्समन्वयः ॥१४०॥जन्मादिकारणे साक्षादाह देवः समन्वयम् ।उक्तं तदेव जिज्ञास्यं क्वावकाशोऽत्र निर्गुणे ॥१४१॥कथञ्चासम्भवस्तस्य मुख्यार्थस्य निराकृतौ ।मानेन केन विज्ञेयमवाच्याज्ञेयनिर्गुणम् ॥१४२॥अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन ।तस्माच्छास्त्रेण जिज्ञास्यमस्मदीयं गुणार्णवम् ॥१४३॥वासुदेवाख्यमद्वन्द्वं परं ब्रह्माखिलोत्तमम् ।विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः ॥१४४॥निर्गतं मनसो वाचो यदि तत्स्यादगोचरम् ।अस्तु तन्मा वदेद्वादी नचास्मच्छास्त्रगं तु तत् ॥१४५॥अवाच्यं वाच्यमित्युक्तवा किमित्युन्मत्तवन्मृषा ।अस्मच्छास्त्रस्य चौर्याय यतते स्वोक्तिदूषकः ॥१४६॥जन्मादिकारणं यत्तत्साक्षान्नारायणाभिधम् ।वदन्तु श्रुतयो ब्रह्म शास्त्रं चैतत्तदर्थतः ॥१४७॥स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् ।कथं सर्वज्ञता तस्य स्वज्ञानाधिगमं विना ॥१४८॥प्रवृत्तमस्त्ववाच्यं ते मैव ब्रूयाः कथञ्चन ।सर्वशब्दैरवाच्यं तदुक्तवा तद्विषयं पुनः ॥१४९॥वयं त्वां श्रुतियुक्तिभ्यां बद्ध्वास्मच्छास्त्रमञ्जसा ।विचारयामः श्रुतिभिर्युक्तिभिश्चैव सादरम् ॥१५०॥अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च ।अनन्तगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः ।अवाच्यमिति लोकेऽपि वक्तयाश्चार्यतमं भुवि ॥१५१॥एवं शास्त्रावगम्यत्वे विभागेन समन्वयम् ।आनन्दमय इत्यादिनाध्यायेन वदत्यजः ॥१५२॥तत्रान्यत्र प्रसिद्धानां विष्णावेव समन्वयम् ।शब्दानां प्रथमे पादे गुणिसामान्यवाचिनाम् ॥१५३॥गुणवाचिनां च प्रथममाह देवः समन्वयम् ।समुद्रशायिनं सर्वप्रसूतिप्रसवं श्रुतिः ॥१५४॥तदेव ब्रह्म परममिति सावधृतिर्जगौ ।यतोऽतो ब्रह्मशब्दस्य तत्रैव नियतत्वतः ॥१५५॥योऽन्नं ब्रह्मेत्यादिरूपादभ्यासात्तैत्तिरीयके ।अन्यासु चैतद्रूपासु शाखास्वपि सहस्रशः ॥१५६॥आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम् ।उपलक्षणत्वं शब्दानामानन्दमयपूर्विणाम् ॥१५७॥सूत्रस्याल्पाक्षरत्वेन सर्वशाखाविनिर्णये ।पुनश्च प्रापकाद्धेतोस्तत्राधिकरणान्तरम् ॥१५८॥सर्वे वेदा आमनन्ति यत्पदं त्विति हि श्रुतिः ।आनन्दमयरूपे तु ब्रह्मणः पुच्छतोक्तितः ॥१५९॥समस्ताब्रह्मताप्राप्तेरानन्दमयनाम हि ।ब्रह्मशब्दस्य चाभ्यासात्पञ्चरूपादिषु स्फुटम् ॥१६०॥ब्रह्मतावयवेऽपि स्यात्तथावयविनि स्वतः ।यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताखिला ॥१६१॥दर्शिता चैव पार्थाय निःसीमाः शक्तयोऽस्य हि ।ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ॥१६२॥विष्ण्वाख्यमुक्तमन्यत्र ह्यूर्ध्वरेतं च तत्प्रति ।विरूपाक्षाख्यमवरं ब्रह्मोक्तं तद्व्रते स्थितम् ॥१६३॥समानाधिकृतत्वं चेदुत्तरं नीललोहितम् ।कृष्णपिङ्गलरूपेण पुनरुक्तं भविष्यति ॥१६४॥ब्रह्माधिपतिरित्यत्र तापनीयश्रुतौ पुरः ।स्वरितब्रह्मशब्दान्तं बहुव्रीहित्वमेष्यति ॥१६५॥स्वाहेन्द्रशत्रुवर्धस्व यद्बहुव्रीहितामगात् ।महाव्याकरणे सूत्रमिति स्वरविनिर्णये ॥१६६॥पूर्वान्तस्वरिते पुंसोर्बहुव्रीहित्वमेष्यति ।महाव्याकरणे सूत्रमिति स्वरविनिर्णये ॥१६७॥ऋतं सत्यं परं ब्रह्मेत्याद्युद्देश्यद्वितीयका ।विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा ॥१६८॥तस्माद्विष्णुं परं ब्रह्म प्रति रुद्रो व्रते स्थितः ।ऊर्ध्वरेता इति ह्येव श्रुत्यर्थोऽवसितो भवेत् ॥१६९॥ऋतं सत्यं परं ब्रह्म प्रति विष्णुं सदाशिवः ।ऊर्ध्वरेता ध्यायति ह शङ्करो नीललोहितः ॥१७०॥इत्यर्थमेतमेवाह नीलग्रीवश्रुतिः परा ।आर्थर्वणी परं ब्रह्म तस्मादेको हरिः श्रुतौ ॥१७१॥तदेवर्तमिति प्राह कथमेवान्यथा श्रुतिः ।अवधारयन्ती तस्यैव ह्यृतत्वादिकमञ्जसा ॥१७२॥एको नारायण आसीन्न ब्रह्मा न च शङ्करः ।वासुदेवोऽग्र एवासीन्न ब्रह्मा न च शङ्करः ॥१७३॥नेन्द्रसूर्यौ न च गुहो न सोमो न विनायकः ।इत्यादिवाक्यतो विष्णोरुत्पत्तिरवतारगा ॥१७४॥मुख्यं ब्रह्म हरिस्तस्मात्प्रस्तावः परमित्यपि ।मुख्यब्रह्मग्रहे युक्ते नामुख्यं युज्यते क्वचित् ॥१७५॥असम्भवे हि मुख्यस्य गौणार्थाङ्गीकृतिर्भवेत् ।प्राचुर्यार्थाश्च मयटः सर्वेऽत्र प्रतिपादिताः ॥१७६॥भोग्यत्वमत्र चाद्यत्वमुपजीव्यतया हरेः ।महाभोक्ता महाभोग्य इत्यर्थोऽन्नमये भवेत् ॥१७७॥महाप्राणो महाबोधो महाविज्ञानवानपि ।विशेषसामान्यतया विज्ञानं मन इत्यपि ॥१७८॥एकस्य ज्ञानरूपस्य हरेरुक्तिर्विभागतः ।अभेदेऽपि विशेषेणैवान्य इत्युदितो हरिः ॥१७९॥भेदशब्दा विशेषं तु हरावन्यत्र भिन्नत्वात् ।ब्रूयुर्हरेर्जीवजडैरपि भेदं हि मुख्यतः ॥१८०॥ब्रह्मतर्कवचोऽप्येवमत एकः स पञ्चधा ।उक्तोऽन्नमय इत्यादि भृगोश्चैतद्वदिष्यति ॥१८१॥प्राप्यत्वेन मयट्प्रोक्तेर्न तत्राप्यन्यदुच्यते ।प्रचुरान्नादिरेवातो ह्यन्नमन्नमयेत्यपि ॥१८२॥उच्यते ह्यविशेषेण नान्यत्किञ्चिदिहोच्यते ।महानन्दत्व एवास्य हेतुः कोऽन्यादिति स्फुटम् ॥१८३॥उक्तः श्रुत्यन्तरे यस्मात्सुखं लब्ध्वा करोत्ययम् ।करोति नासुखी भूमा सुखं नाल्पे सुखं भवेत् ॥१८४॥इत्युक्तं यत्प्रवृत्तिश्च नृत्तगानादिका सुखात् ।दुःखाद्रोदादिका चैव सर्वकर्तृत्वतोऽस्य च ॥१८५॥सर्वशक्तेर्न दुःखं स्यादतः केवललीलया ।प्रवर्तको न चेदेष प्राण्यादन्याच्च कः पुमान् ॥१८६॥ब्रह्मवित्परमाप्नोतीति यत्प्रथमसूचितम् ।तदेव मन्त्रवर्णेन सत्यं ज्ञानमनन्तवत् ॥१८७॥लक्षितं तत्र सत्यत्वं सृष्टयान्नप्राणयोरपि ।उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम् ॥१८८॥अनन्तत्वं तथाऽनन्दमयवाचाप्युदाहृतम् ।सद्भावं यापयेद्यस्मात्सत्यं तत्तेन कथ्यते ॥१८९॥इति सृष्टिरिह प्रोक्ता जगत्सद्भावयापकम् ।ब्रह्मेति स्थापनायैव सत्त्वं जीवनमेव च ॥१९०॥विशीर्णता च सत्त्वं स्यात्सन्नमित्याहुरेव यत् ।अतोऽद्यतात्तृतान्नत्वं सत्यशब्दार्थ एव हि ॥१९१॥प्राणं देवा अनुप्राणन्ति मनुष्याः पशवश्च ये ।आयुः प्राणो हि भूतानामिति यद्गतिजीवने ॥१९२॥उक्ते सदितिधात्वर्थो गतिश्चातो हि सत्यता ।प्राणत्वमवबोधार्थो मनुधातुः प्रकीर्तितः ॥१९३॥नाल्पे सुखमिति प्रोक्तयैवानन्दमयतोक्तितः ।अनन्तत्वं सुनिर्णीतं पूर्णानन्दो हि नाल्पके ॥१९४॥अतो हि मन्त्रवर्णोक्तविस्तृतिस्तु समस्तया ।क्रियते परया यस्मादितरोऽत्र न कथ्यते ॥१९५॥पुरुषं वेत्ति यो मुच्येन्नान्यः पन्था हि विद्यते ।इति श्रुतेरन्यवेदी कथं मुक्तिं प्रयास्यति ॥१९६॥पुरुषः पर आत्माजो ब्रह्म नारायणः प्रभुः ।महानानन्द उद्विष्णुर्भर्ग ओम इतीर्यते ॥१९७॥स्वयं नारायणो देवो नान्यस्यैतानि कस्यचित् ।तस्मादोमित्युदाहृत्य यज्ञदानादि कुर्वते ॥१९८॥सूक्तेन पौरुषेणैनं यजन्त्यध्यात्मकोविदाः ।इति पैङ्गिश्रुतिस्तेन नान्यज्ञानाद्विमुच्यते ॥१९९॥ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च ।तस्मादाकाशसृष्टिं च प्रोवाचात्र चतुविर्धाम् ॥२००॥भूतं भूताभिमानी च तद्देहोऽन्तर्नियामकः ।हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव च ॥२०१॥आ समन्तात्काशते यदाकाशो मुख्यतो हरिः ।बलज्ञानस्वरूपत्वाद्वायुरग्निरगं नयन् ॥२०२॥आप आपालनाच्चैव पृथिवी प्रथितो यतः ।उष्यानामाश्रयत्वेन स एवोषधिनामकः ॥२०३॥ओषधीषु स्थितो विष्णुः क्षुधितैराश्रितो भवेत् ।पुरि शेते यतः सोऽथ पुरुषश्चेति गीयते ॥२०४॥क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः ।आकाशादिषु नान्यास्ति ह्यभिमानोऽभिमानिनः ॥२०५॥अभिमानिशरीरस्य साक्षाद्भूतस्य चोद्भवः ।एवं देहादिपर्यन्तमागतं हरिमेव तु ॥२०६॥परामृशति तस्यैव पञ्चरूपत्ववित्तये ।त्यक्तवा भूतादिकं सर्वं स वा एष इति श्रुतिः ॥२०७॥स इत्यात्मपदोद्दिष्ट एष जीवशरीरगः ।सारान्नमय एवायं न लोकान्नमयः प्रभुः ॥२०८॥इति तं रसशब्देन विशिनष्टि शरीरगम् ।इदमित्येव निर्देशो वस्त्रप्रावृतवद्विभोः ॥२०९॥शिर आदेर्भवेज्जीवशिर आदौ व्यवस्थितेः ।तं विदित्वास्य मुक्तिः स्यान्नान्यज्ञानात्कथञ्चन ॥२१०॥आदित्ये पुरुषे चायमिति भेदोपदेशतः ।नास्याभेदोऽस्ति जीवेन नानुमा कामचारिणी ॥२११॥विमतानि शरीराणि मद्भोगायतनानि यत् ।शरीराणीत्यादिका तु तत्त्वज्ञाने ह्यपेक्ष्यते ॥२१२॥प्रत्यक्षादिविरुद्धत्वादक्षागमभयोज्खिता ।अनुमा कामवृत्ता हि कुत्र नावसरं व्रजेत् ॥२१३॥जड आत्मैव वस्तुत्वात्प्रमेयत्वाज्जडं चितिः ।घन आकाश इत्याद्या वार्यन्ते केन हेतुना ॥२१४॥न जीवभेदसूत्राणां शङ्कयात्र पुनरुक्तता ।वाक्यान्तरद्योतकत्वात्पृथगित्यत्र पूर्णता ।योगमन्नमयाद्यैर्यत्फलत्वेनास्य शंसति ।स्थानद्वयेऽप्यतः कोशा एत इत्यतिसाहसम् ॥२१५॥उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति ।अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् ॥२१६॥अश्रुतस्यातिशब्दस्य स्थानं दद्यात्कथं पुनः ।श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम् ॥२१७॥मृतावेव परित्यागः कृतो ह्यन्नमयस्य च ।येऽन्नं ब्रह्मेत्याद्युपासां सामानाधिकरण्यतः ॥२१८॥उक्तवा पञ्चस्वरूपाणां पुनस्तत्प्राप्तिवादिनी ।स्थानद्वयगता वेदवाणी तदपलापिनाम् ॥२१९॥तमसोऽन्यत्र संस्थानं कथमेव सहेत सा ।अधीहि भगवो ब्रह्मेत्युक्तोऽन्नप्राणपूर्वकम् ॥२२०॥आह ब्रह्म कथं तन्न द्वारं तदिति वादिनः ।उपसत्तिं कथं विद्युरुपसन्नाय हि त्रिशः ॥२२१॥वक्तव्यं ब्रह्म गुरुणा चतुर्वारमथापि वा ।सकृद्वेत्यागमा ब्रूयुः सम्प्रदायविदोऽपि च ॥२२२॥तद्यत्किञ्चित्कथं ब्रूयादुपसन्नाय दिक्पतिः ।न वदेद्ब्रह्म च कथं मायावी न हि वारिराट् ॥२२३॥चष्ट इत्येव तच्चक्षुः श्रवणाच्छ्रोत्रमुच्यते ।वचनादेव वाग्ब्रह्म सृष्टिस्थित्यादिकारणम् ॥२२४॥तच्च वाघूलशाखायामष्टरूपमुदाहृतम् ।विज्ञानानन्दसहितं पृथक्सृष्टयादिलक्षणैः ॥२२५॥आवापोद्वापतष शाखा यत आहुः परं पदम् ।यतो भूतानि जायन्त इत्याद्यैर्लक्षणैः स्वयम् ॥२२६॥लक्षितं गुरुणा पश्चात्तपसैवापरोक्षतः ।दृष्ट्वैकैकं स्वरूपं तु समस्तोक्तानुदर्शनम् ॥२२७॥इच्छताऽज्ञां गुरोः प्राप्य तपसैवारोक्षितम् ।अब्रह्मेत्येव वदतां श्रुतहान्यश्रुतग्रहौ ॥२२८॥साक्षाल्लक्षणतां प्राप्ताविति लज्जा तदुक्तिषु ।समीपे सहभोगस्य मुक्तित्वेनोक्तितोऽसकृत् ॥२२९॥भेदो जीवेशयोर्मिथ्येत्येव मिथ्या स्वयं भवेत् ।एतेन मयटश्चैव द्वैविध्येनार्थकल्पनात् ।तदन्येषां मतमपि सत्संसत्सु न भासते ॥२३०॥अतो नारायणो देवो निःशेषगुणवाचकैः ।गुणिसामान्यवचनैरपि मुख्यतयोदितः ॥२३१॥अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः ।अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः ॥२३२॥जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये ।ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्ततः ॥२३३॥अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः ।शब्दप्रवृत्तिहेतूनां तस्मिन्मुख्यसमन्वयात् ॥२३४॥अन्यार्थेष्वल्पताहेतोस्तन्निमित्तत्वतस्तथा ।तद्वाचकत्वं शब्दानां बहुलातिप्रयोगतः ॥२३५॥रूढमित्येव साध्यं स्याद्रूढिर्हि द्विविधा मता ।अविद्वद्विद्वदाप्त्यैव मुख्या हि विदुषां तु सा ॥२३६॥विद्वद्रूढिर्वैदिका स्यात्सा योगादेव लभ्यते ।तस्मान्मुख्यार्थता विष्णोरिति कृत्वा हृदि प्रभुः ॥२३७॥समन्वयं साधयति देवानां तत्र शक्तताम् ।आशङ्कय तत्र रूढिं च तच्छब्दानामपि स्वयम् ॥२३८॥समुद्रान्तस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम् ।साधयित्वाभिदां तैश्च पुनरेव न्यवारयत् ॥२३९॥चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादतः ।अचेतनस्वभावस्तु विवरादिः कथं ततः ॥२४०॥इति शङ्कानिवृत्त्यर्थमाकाश इति नाम च ।परतोऽपिवरीयस्त्वपूर्वाल्लिङ्गाद्धरेर्भवेत् ॥२४१॥इति शङ्कानिवृत्त्यर्थमाकाश इति नाम च ।परतोऽपि वरीयस्त्व पूर्वाल्लिङ्गाद्धरेर्भवेत् ॥२४२॥प्राणादिहेतुतादृष्टेरतिदेशो हि तादृशः ।लिङ्गं बलवदेव स्यात्प्रेरकोऽस्यापि यद्धरिः ॥२४३॥नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः ।कथं प्रसिद्धबहुलशब्दानामयथार्थता ॥२४४॥इति चेत्तद्धरेरेव बाहुल्याच्छ्रुतिलिङ्गयोः ।तादृशत्वाच्च तच्छक्तेर्बाहुल्ये श्रुतिलिङ्गयोः ॥२४५॥अन्यस्य मुख्यवाच्यत्वमिति तन्नात्रगस्य हि ।विष्णोरेव तु लिङ्गानि प्राणस्थानि तु सर्वशः ॥२४६॥प्राणसंवादपूर्वाणि मुख्यतो जीवगानि च ।अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि ॥२४७॥तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः ।एको नारायणो देवो भण्यते नात्र संशयः ॥२४८॥वासुदेवादिरूपेण चतुर्मूर्तिश्च सर्वशः ।अथवा पञ्चमूर्तिः स प्रोक्तोऽधिकरणं प्रति ॥२४९॥प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथापि वा ।तैस्तैर्युक्तिश्रुतिन्यायविशेषैर्योग्यता यथा ॥२५०॥बृहत्तन्त्रप्रमाणेन बह्वर्थमपि सङ्ग्रहात् ।उच्यते नरबुद्धीनामपि किञ्चिद्ग्रहार्थतः ॥२५१॥ग्रन्थोऽयमपि बह्वर्थो भाष्यं चात्यर्थविस्तरम् ।बहुज्ञा एव जानन्ति विशेषणार्थमेतयोः ।तस्मान्महागुणो विष्णुर्नाम्नायपुनरुक्तितः ॥२५२॥॥ इति श्रीमदानन्दतीर्थभगवत्पादाचायर्विरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य प्रथमः पादः॥ N/A References : N/A Last Updated : July 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP