संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवधनुर्वेदः| अथ स्थानमुष्टयाकर्षणलक्षणानि शिवधनुर्वेदः अथ धनुर्वेदः अथ गुणलक्षणानि अथ शरलक्षणानि अथ फललक्षणानि अथ फलपायनम् अथ नाराचनालीकौ अथ स्थानमुष्टयाकर्षणलक्षणानि अथ गुणमुष्टयः अथ धनुर्मुष्टिसंधानम् अथ व्यायाः अथ लक्ष्यम् अथ अथानध्यायः अथ श्रमक्रिया शिवधनुर्वेदः - अथ स्थानमुष्टयाकर्षणलक्षणानि शिवधनुर्वेदः Tags : sanskritshivshiv dhanurvedशिव धनुर्वेदसंस्कृत अथ स्थानमुष्टयाकर्षणलक्षणानि Translation - भाषांतर स्थानान्यष्टौ विधेयानि योजने भिन्नकर्मणाम्मुष्टयः पञ्च समाख्याता व्यायाः पञ्च प्रकीर्तिता ॥७५॥अग्रेता वामपादं च दक्षिणं जानु कुञ्चितम्आलीढं तु प्रकर्तव्यं हस्तद्वयसविस्तरम् ॥७६॥प्रत्यालीढं तु कर्तव्यं सव्यं चेवानुकुञ्चितम्दक्षिणं च पुरस्तद्वद्दूरपाते विशिष्यते ॥७७॥पादौ सुविस्तरौ कार्यौ समौ हस्तप्रमाणतःविशाखस्थानकं ज्ञेयं कूटलक्ष्यस्य वेधने ॥७८॥समपादे समौ पादौ निष्कम्पौ च सुसंगतौअसमे च पुरो वामो हस्तमात्रे नतं वपुः ॥७९॥आकुञ्चितोरू द्वौ यत्र जानुभ्यां धरणिं गतौदर्दुरक्रममित्याहुः स्थानकं दृढभेदने ॥८०॥सव्यं जानु गतं भूमौ दक्षिणं च सकुञ्चितम्अग्रतो यत्र वातव्यं तं विद्याद्गरुडक्रमम् ॥८१॥पद्मासनं प्रसिद्धं तु उपविश्य यथाक्रमम्धन्विनां तत्तु विज्ञेयं स्थानकं शुभलक्षणम् ॥८२॥ N/A References : N/A Last Updated : May 23, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP