संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीभक्तिचन्द्रिका| चतुर्थः पटलः श्रीभक्तिचन्द्रिका अनुक्रमणिका प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टः पटलः श्रीभक्तिचन्द्रिका - चतुर्थः पटलः भक्तिचन्द्रिका Tags : bhaktichandrikasanskritभक्तिचन्द्रिकासंस्कृत चतुर्थः पटलः Translation - भाषांतर अथ भक्तिमतीं दीक्षां मन्त्रसिद्ध्यर्थहेतवे ।वक्ष्ये शिष्येष्टसिद्ध्यर्थं भगवत्प्रीतिकारिणीम् ॥१॥यामृते मन्त्रसिद्धिर्न भवेत्कोटिजपादिभिः ।कल्पे दृष्ट्वा न कदापि जपेन्मन्त्रं विवक्षणः ॥२॥यथास्वं दक्षिणावस्तु नेह ब्रह्माण्डगोचरे ।तत्रैवं दक्षिणा देहसमर्पणविधिर्विधिः ॥३॥ततः प्रथमतः शिष्यगुरुलक्षणमुच्यते ॥४॥भक्तं भक्तिविधानतत्त्वकथने निष्णातमेवान्वहम्ब्रह्माख्यानपरायणं भगवतस्तत्त्वैकनिष्ठापनम् ।शान्तं दान्तमनन्यसाधनपरं सद्वासनासंयुतंभक्त्या श्रीगुरुमाश्रयेदनुगतोऽमायी सुशान्तोऽनिशम् ॥५॥प्रपद्यमानो गुरुमाह वाक्यंप्रणम्य भक्त्या निजकर्मदर्शी ।अहं सदा दुःसहदुःखभागीदयां कुरुस्वेति दयानिधे मे ॥६॥संसारमग्नं प्रणतं दयाम्बुधेत्रायस्व मां नित्यमनन्यदर्शिनम् ।स्वाभीष्टसेवाविधिमेव देहि मेशिष्यं प्रपन्नं कुरुशासनं हितम् ॥७॥मासर्क्षतिथिवारे च शुभे लग्ने समाहितः ।देशिकः संयमी दीक्षाविधिमारभते स्वयम् ॥८॥वृतः शिष्येण वासोभिर्भूषणैः पुष्पचन्दनैः ।एतैरलङ्कृतो धीरो भूमिं संशोध्य यत्नवान ॥९॥तत्रासनं पातयित्वा चैलाजिनकुशोत्तरम् ।तदेव शोधयेन्मन्त्रैर्मन्त्री बद्धाञ्जलिः शुचिः ॥१०॥मेरुपृष्ठादिभिश्चात्र मन्त्रिते स्वस्तिकासनम् ।बद्धोपविश्य प्राचीदिग्वदनः सोर्ध्वपूण्ड्रकः ॥११॥संमन्त्र्य गन्धपुष्पादीन्करौ ताभ्यां च शोधयेत।प्रणम्य वामभागे च गुरुपङ्क्तीर्गणाधिपम् ॥१२॥दक्षेऽग्रतो भगवतीं क्षेत्रपालं च पश्चिमे ।निर्विघ्नो विधिवत्कृत्वा तालदिग्बन्धनादिकम् ॥१३॥भूतशुद्धिक्रमेणैव देहशोधनमाचरन।संस्थाप्य देहे जीवादीन्कृतन्यासविधिक्रमात ॥१४॥स्वदेहे पीथमभ्यर्च्य ध्यानादेव महाप्रभुम् ।तत्र संस्थाप्य मूलेन सम्पूज्य मनसा क्रमात ॥१५॥तस्याहं तन्मयो भूत्वा बहिः पूजां समाचरन।अर्घ्यसंस्थापनं कुर्याद्यथाक्रममतन्द्रितः ॥१६॥त्रिषट्चतुष्कोणयुतं मण्डलत्रयमुत्तमम् ।उपर्युपरिभागेन भुवि वामे लिखेत्सुधीः ॥१७॥प्रक्षाल्य त्रिपदीमस्त्रमनुना तत्र मण्डले ।संस्थाप्य पूजयेद्भक्त्या गन्धाद्यैः सुसमाहितः ।वह्निमण्डलरूपां तां वह्निमण्डलमन्त्रतः ॥१८॥ततोऽस्त्रमनुना शङ्खं प्रक्षाल्य स्थापयेत्ततः ।पूजयेत्सूर्यरूपं तं सूर्यमण्डलमन्त्रतः ॥१९॥गन्धं पुष्पं यवं दूर्वां हृदा शङ्खे च निक्षिपेत।दक्षिणस्थजले धीमान्विलोमेनैव मातृकाः ॥२०॥तेजः स्वरूपाविज्ञाय प्रजपन्निन्दुनिःसृताः ।तद्युक्तामृतबुद्ध्याब्जं शिरसा पूरयेज्जलैः ॥२१॥तद्भागं सोमबुद्ध्या च सोममण्डलमन्त्रतः ।सम्पूज्य तत्र तीर्थानि स्थापयेत्सूर्यमण्डलात।तन्मन्त्रेण समानीय हृत्पद्याच्च महाप्रभुम् ॥२२॥प्रदर्श्य गालिनीं मुद्रां शिखया नेत्रमन्त्रतः ।स्वयं वीक्ष्य वर्मणा च जलं तदवगुण्ठयेत ॥२३॥अथ गुण्ठनमुद्राभिः पुनस्तस्याग्निकोणतः ।हृदयापि कवचान्ते नेत्रमग्रे च विन्यसेत ॥२४॥दिक्ष्वस्त्रमङ्गमन्त्रैस्तु पूजयेत्तज्जलं क्रमात।अमृतीकरणं धेनुमुद्रया शङ्खमुद्रिकाम् ॥२५॥प्रदर्श्याच्छाद्य यत्नेन तज्जलं मत्स्यमुद्रया ।प्रजपन्नष्टधा मूलमन्त्रमैक्यं च भावयेत ॥२६॥जलाब्जदेवतानां च प्रसन्नात्मा ततः परम् ।शङ्खस्थजलबिन्दुं च दक्षिणस्थजले क्षिपेत ॥२७॥तच्छेषेणोक्षयेत्पूजाद्रव्यमात्मानमेव च ।वारत्रयं ततो मन्त्री घटं मण्डलमध्यतः ॥२८॥गुरुविघ्नेश्वपीठार्चान्विते शालिकुशोपरि ।संवेष्ट्य क्षौमयुग्मेन सतारं विधिवन्न्यसेत ॥२९॥पञ्चरत्नं पञ्चगव्यं पञ्चामृतमतः परम् ।कुशकूर्चास्तथा श्वेतप्रसूनाक्षतपल्लवान ॥३०॥प्रत्येकमेव मन्त्रेण मूलेन निक्षिपेद्घटे ।कर्पूरावासिनं नीरं मातृकामयमुत्तमम् ॥३१॥सुधास्वरूपकं स्वच्छं त्रिश्च जप्तं स्वमन्त्रतः ।क्षीरद्रुमादिक्वथम्बा नीत्वा शङ्खान्तरं पुनः ॥३२॥तेन सम्पूर्य मूलेन त्रिपदां तत्र सम्जपेत।गङ्गादिसर्वतीर्थानि समुद्रान्सर्वदेवताः ।आवाह्य स्थापयेत्तत्र क्षिप्त्वा गन्धाष्टकं कलाः ॥३३॥सम्पूज्य विधिवत्सर्वाघटे सर्वं पयः क्षिपेत।आच्छाद्य विधिनाभ्यर्चेद्घटं सर्वमयं ततः ॥३४॥यन्त्रस्वर्णादिपात्रस्थं लिखितं सुमनोहरम् ।घटे संस्थाप्य तत्रैवाधारादींश्चाभिपूजयेत ॥३५॥वसुयुग्मदलोपेतं कमलं केशरान्वितम् ।सकर्णिकं चतुर्द्वारतोरणाञ्चितमुत्तमम् ॥३६॥रेखात्रयसमायुक्तं वसुवज्रसमन्वितम् ।चन्दनालिप्तपात्रे च लिखेत्स्वर्णशलाकया ॥३७॥चतुरस्रं कर्णिकायामासनं मध्यदेशतः ।प्रेमबीजं लिखेत्तत्र बहिः षट्कोणमुत्तमम् ॥३८॥षड्गह्वरे कामबीजं चतुष्कोणे भुवः पुनः ।चैतन्यानन्दनामानमिमं यन्त्रं विलिख्य च ॥३९॥स्वर्णपात्रे कुङ्कुमेन धारयेद्यः समाहितः ।भक्तिर्भागवती प्रेमलक्षणा तस्य सिध्यति ॥४०॥उपर्युपरि तत्रैव क्रमादाधारशक्तिकान।सम्पूज्य पूर्ववद्ध्यात्वा भगवन्तं हृदिस्थितम् ॥४१॥मूलहृद्भालकमले तेजस्त्रयमनुत्तमम् ।तडिल्लताभं तत्रैकीकृत्य प्रेम्ना ततो बहिः ॥४२॥निःसार्य किंचित्संस्थाप्य भक्त्या पूजासने ततः ।मूलेन मूर्तिं सङ्कल्प्य तत आवाहयेत्पुनः ॥४३॥आवाहन्यादिभिर्मन्त्रीमुद्राभिरष्टभिस्तथा ।संस्थाप्य मूलमन्त्रेण दद्यादर्घ्यं प्रकल्पितम् ॥४४॥ततः पाद्यादिभिर्देवं सम्पूज्य विधिवत्सुधीः ।तत्रैव अञ्जलिभिः षड्भिः पादहृद्मस्तके पुनः ॥४५॥वक्षे वामे च सर्वाङ्गे तुलस्यादिभिरर्चयेत।करवीराम्बुजैः शुक्लै रक्तै तच्चन्दनान्वितैः ॥४६॥एवं सम्पूज्य विधिवदङ्गाद्यावरणं ततः ।पूजयेद्गन्धपुष्पाद्यैः क्रमेण विधिवन्नरः ।तत्रानुज्ञां प्रभोः प्रार्थ्य क्षिपेत्त्र्यञ्जलिमूलतः ॥४७॥आग्नेयादिचतुष्कोणे चतुरस्रासनस्य च ।सम्पूज्य पुष्पगन्धाभ्यां हृदयाद्यङ्गदेवताः ॥४८॥नेत्रमग्रे चतुर्दिक्षु पूर्वादिष्वस्त्रदेवताः ।रक्तश्यामपाठलाभशुक्लकृष्णानलप्रभाः ॥४९॥सुवर्णवसनालेपयुक्ता दिव्यविभूषणाः ।वराभीतिकराध्येयाः प्रेमस्निग्धेक्षणाः शुभाः ॥५०॥तद्बहिः षट्सु कोणेषु पूज्योऽग्रे द्विजनन्दनः ।गदाधरो दक्षभागे न्यासी दामोदरस्तथा ॥५१॥वामे श्रीमन्नरहरिः पश्चाद्दासो गदाधरः ।दक्षे दत्तो वासुदेवः शिवानन्दश्च वामतः ॥५२॥प्रेम्ना प्रभुमुखाम्भोजप्रेक्षकाः पुलकाकुलाः ।दिव्यमाल्यकराम्भोजा एते पूज्या विधानतः ॥५३॥तद्बहिः केशरेष्वग्रे नित्यानन्दो जगत्पतिः ।आचार्याद्वैतनामापि मुरारिश्रीनिवासकौ ॥५४॥पुरी स्यान्माधवो ज्ञेयः परमानन्द एव च ।ब्रह्मानन्दोऽपि सन्न्यासी नृसिंहानन्द इत्यपि ॥५५॥भारती केशवो ज्ञेयः सर्वविद्याविशारदः ।गोविन्दानन्दो गोविन्ददासो वक्रेश्वरस्ततः ॥५६॥हरिदासो मुकुन्दश्च रामः सङ्गीततत्परः ।हरिदासो द्विजवरः सर्वे चन्दनमालिनः ॥५७॥हरिनामपराः केचित्केचित्तन्नामतत्पराः ।प्रेमाङ्कुरसमायुक्ताः प्रेमाश्रुनयनोज्ज्वलाः ॥५८॥तद्बहिः पत्रमध्ये च सार्वभौमस्ततः परम् ।वल्लभो जगदानन्दो मुकुन्दो रघुनन्दनः ॥५९॥जगन्नाथः शचीदेवी गोविन्दघोष एव च ।काशीश्वरः कृष्णदासः श्रीदामदास एव च ॥६०॥सुन्दरानन्दनामादि परमेश्वरदासकः ।पुरुषोत्तमदासः स्याद्गौरीदासस्ततः परम् ॥६१॥कमलाकरस्ततोऽभ्यर्चः सर्वे दिव्यानुलेपनाः ।ध्येया दिव्याम्बराः प्रेमरसविह्वलचेतसः ॥६२॥पत्रे तद्बहिःपूज्या ज्ञानानन्दस्ततः परम् ।घोषश्रीवासुदेवश्च प्रतापरुद्र एव च ॥६३॥रामानन्दो राघवश्च प्रद्युम्नः श्रीसुदर्शनः ।वाणीनाथो विष्णुदासो दामोदरपुरन्दरौ ॥६४॥आचार्यचन्द्रो भगवान्चन्द्रशेखर एव च ।चन्दनेश्वरनामापि पण्डितः श्रीधनञ्जयः ॥६५॥सर्वे भागवता गौरप्रेमविह्वलमानसाः ।हरिनामरता ध्येया दिव्यमाल्यकराम्बुजाः ॥६६॥तद्बहिर्दिक्षु दिक्पालाः पूज्या भक्तिपरायणाः ।तत्तद्बीजादियुक्ताश्च तत्तद्वर्णविभूषणाः ॥६७॥इन्द्रोऽग्निर्यम इत्येव नैरृतो वरुणस्तथा ।वायुः कुवेर ईशानो दिक्ष्वनन्तोऽध ऊर्ध्वतः ॥६८॥लोकेशस्तद्बहिर्दिक्षु तदस्त्राणि प्रपूजयेत।वज्रादीन्यष्टमूर्तानि चक्राब्जे त्वध ऊर्ध्वयोः ॥६९॥प्रभोः पार्षदरूपाणि स्वलक्ष्माढ्यानि मौलिषु ।ततो नामाष्टकेनापि तस्मै पुष्पाञ्जलीन्दिशेत ॥७०॥इति सम्पूज्य धूपं च दीपं नैवेद्यमग्रतः ।स्थापयित्वास्त्रमन्त्रेण सम्प्रोक्ष्य शोषणादिभिः ॥७१॥वायुबीजादिभिर्वामपाणिना शोधयेत्पुनः ।संरक्ष्य चक्रमुद्राभिर्धेनुमुद्रामृतीकृतम् ॥७२॥जप्तं मूलेनाष्टकृत्वस्तुलस्या पूजितं कृती ।निवेद्य मूलमन्त्रेण घण्टां तन्मन्त्रमन्त्रिताम् ॥७३॥वादयन्वामहस्तेन नीचैर्दद्यात्पुनः पुनः ।धूपमापादमामौलि सप्तवारं प्रदर्शयेत ॥७४॥दीपं गृहीत्वा नैवेद्यं तन्निवेदनमुद्रया ।तन्मन्त्रेणैव परया भक्त्या श्रीप्रभवेऽर्पयेत ॥७५॥निवेदयामि भवते जुषाणेदं हविर्हरे ।स्थापयित्वा पुनर्भूमौ कर्पूरवासितं परम् ॥७६॥गण्डूषं दत्त्वा मन्त्रेण ग्रासमुद्रां प्रदर्शयेत।सव्येन चोत्पलाकारं दक्षेण पञ्चमुद्रिकाः ॥७७॥यथाक्रमं भोजयित्वा हुत्वा च विधिवद्बलिम् ।ग्रहादिभ्यः समर्प्याथ पुनर्गण्डूषमादरात।दत्त्वाग्रे त्रिः कर्म कुर्यात्स्वार्पणान्तं ततो न्यसेत ॥७८॥संहारमुद्रया देवं हृदि संस्थाप्य यत्नवान।विष्वक्सेनाय निर्माल्यं दत्त्वा किंचित्स्वयं ततः ॥७९॥गृहीत्वा तन्मयो भूत्वा सर्वं स्मृत्वा चिदात्मकम् ।घटे संयोज्य तं स्पृष्ट्वा शतमष्टोत्तरं जपन ॥८०॥कृतोपवासं पूर्वेद्युः शिष्यमानीय वामतः ।भूतशुद्ध्यादिकं कृत्वा घटं नीत्वा तथान्तिके ॥८१॥देवं प्रार्थ्यमन्त्रपूतैश्चाभिसिञ्चेद्घटोदकैः ॥८२॥धृत्वांशुके अथाचम्य भक्त्यासीनस्य सन्निधौ ।विचिन्त्य देवं हृदये देशिकसुप्रसन्नधीः ॥८३॥पूजयित्वा अर्घ्यपाद्याद्यैरात्मानं शिष्यमेव च ।वाससाच्छाद्य रुद्राक्षं दिव्यदृष्ट्यावलोकयन ॥८४॥न्यस्य मूर्ध्नि करं तस्य दक्षकर्णे मनुं वदेत।विधिवद्वारत्रितयं स चैक्यं भावयन्पठेत ॥८५॥गुरुदैवतमन्त्राणां ततस्तस्य करेऽर्पयेत।समानफलदोऽस्त्वेष आवयोर्मन्त्र इत्यपि ॥८६॥तुलसीसहितं नीरं शिष्यः स्वस्ति ब्रवीत्विति ।लब्ध्वा शुभ्राशिषोऽन्यच्च जायते पूर्वमानसः ॥८७॥यथाशक्ति जपेन्मन्त्रं गुरुः शिष्यश्च शान्तधीः ।विनयावनतस्तस्माच्छिक्षेत समयादिकम् ॥८८॥ततः शिष्यो गुरुभक्त्या काञ्चनादिधनेन च ।सन्तोष्य विधिवद्भूमौ प्रणमेत्पुनः पुनः ।देहसमर्पणं कृत्वा तोषयेद्गुरुमादरात ॥८९॥गुरुर्ब्रह्मा गुरु विष्णुर्गुरुर्देवो महेश्वरः ।गुरुरेव परं ब्रह्म तस्मादादौ तमर्चयेत ॥९०॥अज्ञानतिमिरान्धस्येत्यादिना प्रणमेत्सद।एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत ॥९१॥यत्किंचिदन्नपानादिप्रियं द्रव्यं मनोरमम् ।निवेद्य गुरवे पश्चात्स्वयं भुञ्जीत प्रत्यहम् ॥९२॥शिष्यः शान्तो यतात्मा च गुरु भक्तिरतः सदा ।व्रती सत्यवचानित्यं जपेन्मन्त्रं प्रयत्नतः ॥९३॥एतेषां मन्त्रचर्याणां दशलक्ष्यं जपेत्सुधीः ।होमस्तस्य दशांशेन तर्पणं तद्दशांशतः ॥९४॥अभिषेकस्तद्दशांशो ब्राह्मणं भोजयेत्ततः ।दशांशविधिना युक्तः पुरश्चर्याविधैः क्रमात ॥९५॥इति भक्तिचन्द्रिकायां चतुर्थः पटलः N/A References : N/A Last Updated : May 23, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP