चतुर्थः भागः - शूकदोषाधिकारः
भावप्रकाशसंहिता
अथ त्रिपञ्चाशत्तमः शूकदोषाधिकारः ॥५३॥
अक्रमाच्छेफसो वृद्धिं योऽभिवाञ्छति मूढधीः
व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजाः ॥१॥
शूकदोषा दश चाष्टौ च भवन्ति
गौरसर्षपसंस्थाना शूकदुर्भगहेतुका
पिडिका श्लेष्मवाताभ्यां ज्ञेया सर्षपिका तु सा ॥२॥
कठिना विषमैर्भुग्नैर्वायुनाष्ठीलिका भवेत् ॥३॥
शूकैर्यत्पूरितं शश्वद् ग्रथितं नाम तत्कफात् ॥४॥
कुम्भिका रक्तपित्तात्स्याज्जाम्बुवास्थिनिभा सिता ॥५॥
अलजी स्यात्तथा यादृक्प्रमेहपिडका तथा
सा च रक्तासिता स्फोटचिता च कथिता बुधैः ॥६॥
मृदितं पीडितं यत्तु संरब्धं वातकोपतः ॥७॥
पाणिभ्यां भृशसंमूढे संमूढ पिडिका भवेत् ॥८॥
दीर्घा बह्व्यश्चपिडका दीर्यन्ते मध्यतस्तु याः
सोवमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत् ॥९॥
पिडिका पिडिकाव्याप्ता पित्तशोणितसम्भवा
पद्मकर्णिकसंस्थाना ज्ञेया पुष्करिकेति सा ॥१०॥
स्पर्शहानिन्तु जनयेच्छोणितं शूकदूषितम् ॥११॥
मुद्गमाषोपमा रक्ता रक्तपित्तोद्भवा च या
एषोत्तमाख्यपिडका शूकाजीर्णसमुद्भवा ॥१२॥
छिद्रै रणुमुखैलिङ्गं चिरं यस्य समन्ततः
वातशोणितजो व्याधिर्विज्ञेयःशतपोनकः ॥१३॥
वातपित्तकृतो ज्ञेयस्त्वक्पाको ज्वरदाहकृत् ॥१४॥
कृष्णैः स्फोटैः सरक्ताभिः पिडकाभिर्निपीडितम्
लिङ्गं वास्तुरुजश्चोग्रा ज्ञेयं तच्छोणितार्बुदम् ॥१५॥
मांसदुष्टं विजानीयादर्बुदं मांससम्भवम् ॥१६॥
शीर्यन्ते यस्य मांसानि यस्य सर्वाश्च वेदनाः
विद्यात् तं मांसपाकं तु सर्वदोषकृतं भिषक् ॥१७॥
विद्र धिं सन्निपातेन यथोक्तमभिनिर्दिशेत् ॥१८॥
कृष्णानि चित्राण्यथवा शुक्लानि सविषाणि तु
पातितानि पचन्त्याशु मेढ्रं निरवशेषतः ॥१८॥
कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिनः
सन्निपातसमुत्थांश्च तान्विद्यात्तिलकालकान् ॥१९॥
तत्र मांसार्बुदं यच्च मांसपाकश्च यःस्मृतः
विद्र धिश्च न सिध्यन्ति ये च स्युस्तिलकालकाः ॥२०॥
शूकदोषेषु सर्वेषु विषघ्नीं कारयेत्क्रियाम्
जलौकाभिर्हरेद्र क्तं रेचनं लघु भोजयेत्
गुग्गुलुं पाचयेच्चापि त्रिफलाक्वाथसंयुतम्
क्षीरेण लेपसेकांश्च शीतेनैव हि कारयेत् ॥२१॥
दार्वीसुरसयष्ट्याह्वैर्गृहधूमनिशायुतैः
सम्पक्वं तैलमभ्यङ्गान्मेढ्ररोगं हि नाशयेत् ॥२२॥
रसाञ्जनं साह्वयमेकमेव प्रलेपमात्रेण नयत्प्रशान्तिम्
सपूतिपूयव्रणशोथकण्डूशूलान्वितं सर्वमनङ्गरोगम् ॥२३॥
इति त्रिपञ्चाशत्तमः शूकदोषाधिकारः समाप्तः ॥५३॥
N/A
References : N/A
Last Updated : May 17, 2021
TOP