अथ गर्भप्रकरणम्
द्वादशाद्वत्सरादूर्ध्वमापञ्चाशत्समाः स्त्रियः
मासि मासि भगद्वारा प्रकृत्यैवार्तवं स्रवेत् ॥१॥
आर्तवस्रावदिवसादृतुः षोडश रात्रयः
गर्भग्रहणयोग्यस्तु स एव समयः स्मृतः ॥२॥
आर्तवस्रावदिवसादहिंसा ब्रह्मचारिणी
शयीत दर्भशय्यायां पश्येदपि पतिं न च ॥३॥
करे शरावे पर्णे वा हविष्यं त्र्यहमाहरेत्
अश्रुपातं नखच्छेदमभ्यङ्गमनुलेपनम् ॥४॥
नेत्रयोरञ्जनं स्नानं दिवास्वापं प्रधावनम्
अत्युच्चशब्दश्रवणं हसनं बहुभाषणम्
आयासं भूमिखननं प्रवातञ्च विवर्जयेत् ॥५॥
अज्ञानाद्वा प्रमादाद्वा लोभाद्वा दैवतश्च वा ॥६॥
सा चेत्कुर्यान्निषिद्धानि गर्भो दोषांस्तदाऽप्नुयात्
एतस्या रोदनाद्गर्भो भवेद्विकृतलोचनः ॥७॥
नखच्छेदेन कुनखी कुष्ठी त्वभ्यङ्गतो भवेत्
अनुलेपात्तथा स्नानाद् दुःखशीलोऽञ्जनाददृक् ॥८॥
स्वापशीलो दिवास्वापाच्चञ्चलः स्यात्प्रधावनात्
अत्युच्चशब्दश्रवणाद्बधिरः खलु जायते ॥९॥
तालुदन्तौष्ठजिह्वासु श्यावो हसनतो भवेत्
प्रलापी भूरिकथनादुन्मत्तस्तु परिश्रमात्
स्खलते भूमिखननादुन्मत्तो वातसेवनात् ॥१०॥
पूर्वं पश्येदृतुस्नाता यादृशं नरमङ्गना
तादृशं जनयेत्पुत्रं ततः पश्येत्पतिं प्रियम् ॥११॥
प्रवहत्सलिले क्षिप्तं द्र व्यं गच्छत्यधो यथा
तथा वहति रक्ते तु क्षिप्तं वीर्यमधो व्रजेत् ॥१२॥
आयुः क्षयभयाद्भर्त्ता प्रथमे दिवसे स्त्रियम्
द्वितीयेऽपि दिने रत्यै त्यजेदृतुमतीं तथा ॥१३
तत्र यश्चाहितो गर्भो जायमानो न जीवति
आहितो यस्तृतीयेऽह्नि स्वल्पायुर्विकलाङ्गकः ॥१४॥
अतश्चतुर्थी षष्ठी स्यादष्टमी दशमी तथा
द्वादशी वापि या रात्रिस्तस्यां तां विधिना भजेत् ॥१५॥
अत्रोत्तरोत्तरं विद्यादायुरारोग्यमेव च
प्रजासौभाग्यमैश्वर्यं बलञ्चाभिगमात् फलम् ॥१६॥
मनोभवागारमुखेऽबलानां तिस्रो भवन्ति प्रमदाजनानाम्
समीरणा चन्द्र मसी च गौरी विशेषमासामुपवर्णयामि ॥१७॥
प्रधानभूता मदनातपत्रे समीरणा नाम विशेषनाडी
तस्या मुखे यत् पतितं तु वीर्यं तन्निष्फलं स्यादिति चन्द्र मौलिः ॥१८॥
या चापरा चान्द्र मसी च नाडी कन्दर्पगेहे भवति प्रधाना
सा सुन्दरी योषितमेव सूते साध्या भवेदल्परतोत्सवेषु ॥१९॥
गौरीति नाडी यदुपस्थगर्भे प्रधानभूता भवति स्वभावात्
पुत्रं प्रसूते बहुधाङ्गना सा कष्टोपभोग्या सुरतोपविष्टा ॥२०॥
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ॥२१॥
स्नातश्चन्दनलिप्ताङ्गः सुगन्धसुमनोर्चितः
भुक्तवृष्यः सुवसनः सुवेशः समलङ्कृतः ॥२२॥
ताम्बूलवदनस्तस्यामनुरक्तोऽधिकस्मरः
पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे ॥२३॥
अत्याशितोऽधृतिः क्षुद्वान् सव्यथाङ्गः पिपासितः
बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रो गी च मैथुनम् ॥२४॥
पुरुषस्य गुणैर्युक्ता विहिता न्यूनभोजना
नारी ऋतुमती पुंसा सङ्गच्छेत्तु सुतार्थिनी ॥२५॥
रजस्वला व्याधिमती विशेषाद्योनिरोगिणी
वयोऽधिका च निष्कामा मलिना गर्भिणी तथा
एतासां सङ्गमात्पुंसां वैगुण्यानि भवन्ति हि ॥२६॥
कामान्मिथुनसंयोगे शुद्धशोणितशुक्रजः
गर्भः सञ्जायते नार्याः स जातो बाल उच्यते ॥२७॥
दम्पत्योः कुष्ठबाहुल्याद्दुष्टशोणितशुक्रयोः
यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितमिति ॥२८॥
ऋतौ स्त्रीपुंसयोर्योगे मकरध्वजवेगतः
मेढ्रयोन्यभिसङ्घर्षाच्छरीरोष्मानिलाहतः ॥२९॥
पुंसः सर्वशरीरस्थं रेतो द्रा वयतेऽथ तत्
वायुर्मेहनमार्गेण पातयत्यङ्गनाभगे ॥२९॥
तत् संस्रुत्य व्यात्तमुखं याति गर्भाशयं प्रति
तत्र शुक्रवदायातेनार्त्तवेन युतं भवेत् ॥३१॥
शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्त्ता सा च कीर्तिता
तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता ॥३२॥
यथा रोहितमत्स्यस्य मुखं भवति रूपतः
तत्संस्थानां तथा रूपां गर्भशय्यां विदुर्बुधाः ॥३३॥
शुक्रार्त्तवसमाश्लेषो यदैव खलु जायते
जीवस्तदैव विशति युक्तः शुक्रार्त्तवान्तरः ॥३४॥
सूर्यांशोः सूर्यमणित उभयस्माद्युताद्यथा
वह्निः सञ्जायते जीवस्तथा शुक्रार्तवाद्युतात् ॥३५॥
आत्मानादिरनन्तश्चाव्यक्तो वक्तुं न शक्यते
चिदानन्दैकरूपोऽयं मनसापि न गम्यते ॥३६॥
एवम्भूतोऽपि जगतो भाविनी बलवत्तया
अविद्यास्वीकृते कर्मवशो गर्भे विशत्यसौ ॥३७॥
स एव वेत्ता रसनो द्र ष्टा घ्राता स्पृशत्यसौ
श्रोता वक्ता च कर्त्ता च गन्ता रन्तोत्सृजत्यपि ॥३८॥
दिने व्यतीते नियतं संकुचत्यम्बुजं यथा
ऋतौ व्यतीते नार्यास्तु योनिः संव्रियते तथा ॥३९॥
बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ
यमावित्यभिधीयेते धर्मेतरपुरःसरौ ॥४०॥
आधिक्ये रेतसः पुत्रः कन्या स्यादार्त्तवेऽधिके
नपुंसकं तयोः साम्ये यथेच्छा पारमेश्वरी ॥४१॥
एवं तामभिसङ्गम्य पुनर्मासाद्भजेदसौ
शुक्रशोणितयोर्योनेरस्रावोऽथ श्रमोद्भवः
सक्थिसादः पिपासा च ग्लानिः स्फूर्त्तिर्भगे भवेत् ॥४२॥
स्तनयोर्मुखकार्ष्ण्यं स्याद्रो मराज्युद्गमस्तथा
अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः ॥४३॥
छर्दयेत्पथ्यभुक्चापि गन्धादुद्विजते शुभात्
प्रसेकः सदनं चैव गर्भिण्या लिङ्गमुच्यते ॥४४॥
पुत्रगर्भयुतायास्तु नार्या मासि द्वितीयके
गर्भो गर्भाशये लक्ष्यः पिण्डाकारोऽपरं शृणु ॥४५॥
दक्षिणाक्षिमहत्वं स्यात् प्राक्क्षीरं दक्षिणे स्तने
दक्षिणोरुः सुपुष्टः स्यात्प्रसन्नमुखवर्णता ॥४५॥
पुन्नामधेयद्र व्येषु स्वप्नेष्वपि मनोरथः
आम्रादिफलमाप्नोति स्वप्नेषु कमलादि च ॥४७॥
कन्या गर्भवती गर्भे पेशी मासि द्वितीयके
पुत्रगर्भस्य लिङ्गानि विपरीतानि चेक्षते ॥४८॥
नपुंसकं यदा गर्भे भवेद् गर्भोऽबुदाकृतिः
उन्नते भवतः पार्श्वे पुरस्तादुदरं महत् ॥४९॥
आसेक्यश्च सुगन्धी च कुम्भीकश्चेष्यर्यकस्तथा
अमी सशुक्रा बोद्धव्या अशुक्रः षण्ढसंज्ञकः ॥५०॥
पित्रोस्तु स्वल्पवीर्यत्वादासेक्यः पुरुषो भवेत्
स शुक्रं प्राश्य लभते ध्वजोन्नतिमसंशयम् ॥५१॥
यः पूतियोनौ जायेत स हि सौगन्धिको भवेत्
स योनिशेफसोर्गन्धमाघ्राय लभते बलम् ॥५२॥
स्वे गुदेऽब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्त्तते
स कुम्भीक इति ज्ञेयो गुदयोनिस्तु स स्मृतः ॥५३॥
दृष्ट्वा व्यवायमन्येषां व्यावाये यः प्रवर्त्तते
ईर्ष्यकः स तु विज्ञेयो दृष्टियोनिस्तु स स्मृतः ॥५४॥
यो भार्यायामृतौ मोहादङ्गनेव प्रवर्त्तते
तत्र स्त्रीचेष्टिताकारो जायते षण्ढसंज्ञकः ॥५५॥
ऋतौ ॠतौ पुरुषवत् प्रवर्त्तेताङ्गना यदि
तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता ॥५६॥
यदा नार्यावुपेयातां वृषस्यन्त्यौ कथञ्चन
मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते ॥५७॥
ऋतुस्नाता तु या नारी स्वप्ने मैथुनमाचरेत्
आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि ॥५८॥
मासि मासिप्रवर्द्धेत स गर्भो गर्भलक्षणः
कललं जायते तस्य वर्जितं पैतृकैर्गुणैः ॥५९॥
सर्पवृश्चिककूष्माण्डाकृतयो विकृताश्च ये
गर्भास्ते योषितस्ताश्च ज्ञेयाः पापकृतो भृशम् ॥६०॥
गर्भो वातप्रकोपेण दोहदे चापमानिते
भवेत् कुब्जः कुणिः पङ्गुर्मूको मिन्मिन एव च ॥६१॥
आहाराचारचेष्टाभिर्यादृशीभिः समन्वितौ
स्त्रीपुंसौ समुपेयातां तयोः पुत्रोऽपि तादृशः ॥६२॥
गर्भाशयगतं शुक्रमार्त्तवं जीवसंज्ञकः
प्रकृतिः सविकारा च तत्सर्वं गर्भसंज्ञकम् ॥६३॥
कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः
भवेत्तदा स मुनिभिः शरीरीति निगद्यते ॥६४॥
तस्य त्वङ्गान्युपाङ्गानि ज्ञात्वा सुश्रुतशास्त्रतः
मस्तकादभिधीयन्ते शिष्याः शृणुत यत्नतः ॥६५॥
आद्यमङ्गं शिरः प्रोक्तं तदुपाङ्गानि कुन्तलाः
तस्यान्तर्मस्तुलुङ्गं च ललाटं भ्रूयुगन्तथा ॥६६॥
नेत्रद्वयं तयोरन्तर्वर्त्तेते द्वे कनीनिके
दृष्टिद्वयं कृष्णगोलौ श्वेतभागौ च वर्त्मनी ॥६७॥
पक्ष्माण्यपाङ्गौ शङ्खौ च कर्णौ तच्छष्कुलीद्वयम्
पालिद्वयं कपोलौ च नासिका च प्रकीर्त्तिता ॥६८॥
ओष्ठाधरौ च सृक्किण्यौ मुख तालु हनुद्वयम्
दन्ताश्च दन्तवेष्टश्च रसना चिबुकङ्गलः ॥६९॥
द्वितीयमङ्गं ग्रीवा तु यया मूर्द्धा विधार्यते
तृतीयं बाहुयुगलं तदुपाङ्गान्यथ ब्रुवे ॥७०॥
तत्रोपरि मतौ स्कन्धौ प्रगण्डौ भवतस्त्वधः
कफोणियुग्मं तदधं प्रकोष्ठयुगलन्तथा ॥७१॥
मणिबन्धौ तले हस्तौ तयोश्चाङ्गुलयो दश
नखाश्च दश ते स्थाप्या दशच्छेद्याःप्रकीर्त्तिताः ॥७२॥
चतुर्थमङ्गं वक्षस्तु तदुपाङ्गान्यथ ब्रुवे
स्तनौ पुंसस्तथा नार्या विशेष उभयोरयम् ॥७३॥
यौवनागमने नार्याः पीवरौ भवतः स्तनौ
गर्भवत्या प्रसूतायास्तावेव क्षीरपूरितौ ॥७५॥
हृदयं पुण्डरीकेण सदृशं स्यादधोमुखम्
जाग्रतस्तद्विकसति स्वपतस्तु निमीलति ॥७५॥
आशयस्तत्तु जीवस्य चेतनास्थानमुत्तमम्
अतस्तस्मिंस्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि ॥७६॥
कक्षयोर्वक्षसः सन्धी जत्रुणी समुदाहृते
कक्षे उभे समाख्याते तयोः स्यातां च वङ्क्षणौ ॥७७॥
उदरं पञ्चमञ्चाङ्गं षष्ठं पार्श्वद्वयं मतम्
सपृष्ठवंशं पृष्ठं तु समस्तं सप्तमं स्मृतम् ॥७८॥
उपाङ्गानि च कथ्यन्ते तानि जानीहि यत्नतः
शोणिताज्जायते प्लीहा वामतो हृदयादधः ॥७९॥
रक्तवाहिशिराणां स मूलं ख्यातो महर्षिभिः
हृदयाद्वामतोऽधश्च फुप्फुसो रक्तफेनजः ॥८०॥
अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः
तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम् ॥८१॥
अधस्तु दक्षिणे भागे हृदयात् क्लोम तिष्ठति
जलवाहिशिरामूलं तृष्णाऽच्छादनकृन्मतम् ॥८२॥
मेदः शोणितयोः साराद्वृक्कयोर्युगलं भवेत्
तौ तु पुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः ॥८३॥
अर्द्धव्यामेन हीनानि योषितोऽन्त्राणि निर्दिशेत्
उक्ता सार्द्धास्त्रयो व्यामापुंसामन्त्राणि सूरिभिः ॥८४॥
उन्दुकश्च कटी चापि त्रिकं वस्तिश्च वङ्क्षणौ
कण्डराणां प्ररोहःस्यान्मेढ्रोऽध्वा वीर्यमूत्रयोः ॥८५॥
स एव गर्भस्याधानं कुर्याद्गर्भाशये स्त्रियाः
शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्त्ता सा च कीर्त्तिता ॥८६॥
तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता
वृषणौ भवतः सारात्कफासृङ्मांसमेदसाम् ॥८७॥
वीर्यवाहिशिराधारौ तौ मतौ पौरुषावहौ
गुदस्य मानं सर्वस्य सार्द्धं स्याच्चतुरङ्गुलम् ॥८८॥
तत्र स्युर्वलयस्तिस्रः शङ्खावर्तनिभास्तु ताः
प्रवाहिणी भवेत्पूर्वा सार्द्धाङ्गुलमिता मता ॥८९॥
उत्सर्जनी तु तदधः सा सार्द्धाङ्गुलसम्मिता
तस्याधः संवरणी स्यादेकाङ्गुलसमा मता ॥९०॥
अर्द्धाङ्गुलप्रमाणं तु बुधैर्गुदमुखं मतम्
मलोत्सर्गस्य मार्गोऽय पायुर्देहे विनिर्मितः ॥९१॥
पुंसः प्रोथौ स्मृतौ यौ तु तौ नितम्बौ च योषितः
तयोः कुकुन्दरे स्यातां सक्थिनोत्वङ्गमष्टमम् ॥९२॥
तदुपाङ्गानि च ब्रूमो जानुनी पिण्डकाद्वयम्
जंघे द्वे घुटिके पार्ष्णी तले च प्रपदे तथा ॥९३॥
पादावङ्गुलयस्तत्र दश तासां नखा दश
अथ दोषाः प्रवक्ष्यन्ते धातवस्तदनन्तरम् ॥९४॥
आहारादेर्गतिस्तस्य परिणामश्च वक्ष्यते
आर्त्तवं चाथ धातूनां मलास्तदुपधातवः ॥९५॥
आशयाश्च कलाश्चापि मर्माण्यथ च सन्धयः
शिराश्च स्नायवश्चापि धमन्यः कण्डरास्तथा ॥९६॥
रन्ध्राणि भूरि स्रोतांसि जालैः कूर्च्चाश्च रज्जवः
सेवन्यश्चाथ सङ्घाताः सीमान्ताश्च तथा त्वचः ॥९७॥
लोमानि लोमकूपाश्च देह एतन्मयो मतः
वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः ॥९८॥
विकृताविकृता देहं घ्नन्ति ते वर्द्धयन्ति च
ते व्यापिनोऽपि हृन्नाभ्योरधो मध्योर्ध्वसंश्रयाः
वयोऽहोरात्रिभुक्तानामन्तमध्यादिगाः क्रमात् ॥९९॥
धातवश्च मलाश्चापि दुष्यन्त्येभिर्यतस्ततः
वातपित्तकफा एते त्रयो दोषा इति स्मृताः ॥१००॥
ते धातवोऽपि विद्वद्भिर्गदिता देहधारणात् ॥१०१॥
दोषधातुमलादीनां नेता शीघ्रः समीरणः
रजोगुणमयः सूक्ष्मो रूक्षः शीतो लघुश्चलः ॥१०२॥
उत्साहोच्छ्वासनिःश्वासचेष्टावेगप्रवर्त्तनैः ॥१०३॥
सम्यग् गत्या च धातूनामन्द्रि याणाञ्च पाटवैः
अनुगृह्णात्यविकृतो हृदयेन्द्रि यचित्तधृक् ॥१०४॥
रजोगुणमयः सूक्ष्मः शीतो रूक्षो लघुश्चलः
खरो मृदुर्योगवाही संयोगादुभयार्थकृत् ॥१०५॥
दाहकृत् तेजसा युक्तः शीतकृत्सोमसंश्रयात्
विभागकरणाद्वायुः प्रधानं दोषसंग्रहे ॥१०६॥
पक्वाशयकटीसक्थिश्रोत्रास्थिस्पर्शनेन्द्रि यम्
स्थानं वातस्य तत्रापि पक्वाधानं विशेषतः ॥१०७॥
उदानस्तदनुप्राणः समानोऽपान एव च
व्यानश्चैतानि नामानि वायोः स्थानप्रभेदतः ॥१०८॥
कण्ठे हृदि तथाऽधस्तात्कोष्ठवह्नेर्मलाशये
सकलेऽपि शरीरेऽसौ क्रमेण पवनो वसेत् ॥१०९॥
उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः
तेन भाषितगीतादिप्रवृत्तिः कुपितस्तु सः ॥११०॥
ऊर्ध्वजत्रुगतान् रोगान्विदधाति विशेषतः
यो वायुः प्राणनामाऽसौ मुखं गच्छति देहधृक् ॥१११॥
सोऽन्न प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते
प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान् ॥११२॥
आमपक्वाशयचरः समानो वह्निसङ्गतः
सोऽन्न पचति तज्जांश्च विशेषान्विविनक्ति हि ॥११३॥
स दुष्टो वह्निमान्द्यातिसारगुल्मान् करोति हि
पक्वाशयालयोऽपानः काले कर्षति चाप्ययम् ॥११४॥
समीरणः शकृन्मूत्रशुक्रगर्भार्त्तवान्यधः
क्रुद्धस्तु कुरुते रोगान् घोरान्वस्तिगुदाश्रयान् ॥११५॥
शुक्रदोषप्रमेहांश्च व्यानापानप्रकोपजान्
कृत्स्नदेहचरो व्यानो रससंवाहनोद्यतः ॥११६॥
स्वेदाऽसृक्स्रावणश्चापि पञ्चधा चेष्टयत्यपि
प्रस्पन्दनञ्चोद्वहनं पूरणञ्च विरेचनम् ॥११७॥
धारणञ्चेति पञ्चैताश्चेष्टाः प्रोक्ताः नभस्वतः
गत्यपक्षेपणोत्क्षेपनिमेषोन्मेषणादिकाः
प्रायः सर्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम् ॥११८॥
क्रुद्धः सः कुरुते रोगान् प्रायशः सर्वदेहगान्
युगपत् कुपिता एते देहं भिन्द्युरसंशयम् ॥११९॥
पित्तमुष्णं द्र वं पीतं नीलं सत्त्वगुणोत्तरम्
सरं कटु लघु स्निग्धं तीक्ष्णमम्लन्तु पाकतः ॥१२०॥
पाचकं रञ्जकञ्चापि साधकालोचके तथा
भ्राजकञ्चेति पित्तस्य नामानि स्थानभेदतः ॥१२१॥
अग्न्याशये यकृत्प्लीह्नोर्हृदये लोचनद्वये
त्वचि सर्वशरीरेषु पित्तं निवसति क्रमात् ॥१२२॥
पाचकं पचते भुक्तं शेषाग्निबलवर्द्धनम्
रसमूत्रपुरीषाणि विरेचयति नित्यशः ॥१२३॥
इत्यलमप्रकृतिचिन्तनेन पुनः प्रकृतमनुसरति
रञ्जकं नाम यत्पित्तं तद्र सं शोणितं नयेत्
यत्तु साधकसंज्ञं तत्कुर्याद्बुद्धिं धृतिं स्मृतम् ॥१२४॥
यदालोचकसंज्ञं तद्रू पग्रहणकारणम्
भ्राजकं कान्तिकारि स्याल्लेपाभ्यङ्गादिपाचकम् ॥१२५॥
श्लेष्माश्वेतो गुरुः स्निग्धः पिच्छिलः शीतलस्तथा
तमोगुणाधिकः स्वादुर्विदग्धो लवणो भवेत् ॥१२६॥
कफस्यैतानि नामानि क्लेदनश्चावलम्बनः
रसनः स्नेहनश्चापि श्लेषणः स्थानभेदतः ॥१२७॥
आमाशयेऽथ हृदये कण्ठे शिरसि सन्धिषु
स्थानेष्वेषु मनुष्याणां श्लेष्मा तिष्ठत्यनुक्रमात् ॥१२८॥
क्लेदनः क्लेदयत्यन्नमात्मशक्त्याऽपराण्यपि
अनुगृह्णाति च श्लेष्मस्थानान्युदककर्मणा ॥१२९॥
रसयुक्तात्मवीर्येण हृदयस्यावलम्बनम्
त्रिकसन्धारणं चापि विदधात्यवलम्बनः ॥१२९॥
उभावपि ततः सौम्यौ तिष्ठतश्चान्तिके यतः
यतो रसान्विजानीतो रसनारसनौ समौ ॥१३१॥
स्नेहनः स्नेहदानेन समस्तेन्द्रि यतर्पणः
श्लेषणः सर्वसन्धीनां संश्लेषं विदधात्यसौ ॥१३२॥
एते सप्त स्वयं स्थित्वा देहं दधति यन्नृणाम्
रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ॥१३३॥
प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे
गर्भोत्पादश्च कर्माणि धातूनां कथितानि हि ॥१३४॥
गत्यर्थो रस धातुर्यस्ततोऽभवदयं रसः
सद्र वं सकलं देहे रसतीति रसः स्मृतः ॥१३४॥
सम्यक्पक्वस्य भुक्तस्य सारो निगदितो रसः
स तु द्र वः सितः शीतः स्वादुः स्निग्धश्चलो भवेत् ॥१३५॥
सर्वदेहचरस्यापि रसस्य हृदयं स्थलम्
समानमरुता पूर्वं यदयं हृदये धृतः ॥१३६॥
आरुह्य धमनीर्गत्वा धातून् सर्वानयं रसः
पुष्णाति तदनु स्वीयैर्व्याप्नोति च तनुं गुणैः ॥१३७॥
मन्दवह्निविदग्धस्तु कटुर्वाऽम्लो भवेद्र सः
स कुर्याद्बहुलान् रोगान् विषकृत्यं करोत्यपि ॥१३८॥
यदा रसो यकृद्याति तत्र रञ्जकपितत्तः
रागंपाकं च सम्प्राप्य स भवेद्र क्तसंज्ञकः ॥१३९॥
रक्तं सर्वशरीरस्थं जीवस्याधारमुत्तमम्
स्निग्धं गुरु चलं स्वादु विदग्धं पित्तवद्भवेत् ॥१४०॥
यकृत् प्लीहा च रक्तस्य मुख्यस्थानन्तयोः स्थितम्
अन्यत्र संस्थितवतां रक्तानां पोषकं भवेत् ॥१४१॥
शोणितं स्वाग्निना पक्वं वायुना च घनीकृतम्
तदेव मांसं जानीयात्तस्य भेदानपि ब्रुवे ॥१४२॥
यथाऽथमूष्मणा युक्तो वायुः स्रोतांसिदारयेत्
अनुप्रविश्य पिशितं पेशीर्विभजते तथा ॥१४३॥
मांसपेश्यः समाख्याता नृणां पञ्च शतानि हि ॥१४४॥
तासां शतानि चत्वारि शाखासु कथितान्यथ
कोष्ठे षडुत्तरा षष्टिः कथिता मुनिपुङ्गवैः
ग्रीवाया ऊर्ध्वगास्तास्तु चतुस्त्रिंशत् प्रकीर्त्तिताः ॥१४५॥
स्त्रीणामपि भवन्त्येताः किन्तु विंशतिरुत्तराः
गर्भाशये गर्भमार्गे योनौ च स्तनयोरपि ॥१४५॥
पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता मेहनमुष्कजाः
स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः ॥१४७॥
शिरास्नाय्वस्थिपर्वाणि सन्धयश्च शरीरिणाम्
पेशीभिःसंवृतान्येव बलवन्ति भवन्ति हि ॥१४८॥
यन्मांसं स्वाग्निना पक्वं तन्मेद इति कथ्यते
तदतीव गुरु स्निग्धं बलकार्यतिबृंहणम् ॥१४९॥
मेदो हि सर्वभूतानामुदरेष्वस्थि संस्थितम्
अत एवोदरे वृद्धिः प्रायो मेदस्विनो भवेत् ॥१५०॥
मेदो यत् स्वाग्निना पक्वं वायुना चातिशोषितम् ॥१५१॥
तदस्थिसंज्ञां लभते स सारः सर्वविग्रहे
अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः ॥१५२॥
अस्थिसारैस्तथा देहा ध्रियन्ते देहिनो ध्रुवम्
तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम्
अस्थीनि न विनश्यन्ति सारा एतानि सर्वथा ॥१५३॥
शल्यतन्त्रेऽस्थिखण्डानांशतत्रयमुदाहृतम् ॥१५४॥
तान्येवात्र निगद्यन्ते तेषां स्थानानि यानि च
सविंशतिशतं त्वस्थ्नां शाखासु कथितं बुधैः ॥१५५॥
पार्श्वयोः श्रोणिफलके वक्षःपृष्ठोदरेषु च
जानीयाद्भिषगेतेषु शतं सप्तदशोत्तरम्
ग्रीवायामूर्ध्वगां विद्यादस्थ्नां षष्टिंत्रिसंयुताम् ॥१५६॥
एतान्यस्थीनि पञ्चविधानि भवन्ति तानि यथा
तरुणानि कपालानि रुचकानि भवन्ति हि
वलयानीति तानि स्युर्नलकानि च कानि चित् ॥१५७॥
अक्षिकोश श्रुतिघ्राणग्रीवासु तरुणानि च ॥१५८॥
शिरः शङ्खकपोलेषु ताल्वं सप्रोथजानुषु
कपालानि भवन्त्येषु दन्तेषु रुचकानि च ॥१५९॥
पार्ष्ण्योः पार्श्वयुगे पृष्ठे वक्षोजठरपायुषु
पादयोर्वलयानि स्युर्नलकानि ब्रुवेऽधुना ॥१६१॥
हस्ते पादाङ्गुलितले कूर्च्चे च मणिबन्धके
बाहूजङ्घाद्वये चापि जानीयान्नलकानि तु ॥१६१॥
मांसान्यन्त्राणि बद्धानि शिराभिः स्नायुभिस्तथा
अस्थीन्यालम्बनं कृत्वा न दीर्यन्ते पतन्ति च ॥१६२॥
अस्थि यत् स्वाग्निना पक्वं तस्य सारो भवेद्घनः
यः स्वेदवत् पृथग्भूतः स मज्जेत्यभिधीयते ॥१६३॥
स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तरे स्थितः ॥१६४॥
रसाद्र क्तं ततो मांसं मांसान्मेदः प्रजायते
मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रस्य सम्भवः ॥१६५॥
यात्यामाशयमाहारः पूर्वं प्राणानिलेरितः
माधुर्यं फेनभावं च षड्रसोऽपि लभेत सः ॥१६६॥
षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता
आमपक्वाशयान्तःस्था ग्रहणी साऽभिधीयते ॥१६७॥
तत्रग्रहण्यामामाशयपक्वाशयमध्यवर्त्तिपाचकाख्यपित्ताधिष्ठानेनाग्निनाऽहारः पच्यते स कटुश्च भवतीत्याहग्रहण्यां पच्यते कोष्ठे वह्निना जायते कटुः इति ॥१६८॥
भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः
पञ्चाहारगुणान् स्वान् स्वान्पार्थिवादीन् पचन्त्यनु ॥१६९॥
पञ्च भूतात्मके देहे आहारः पाञ्चभौतिकः
विपक्वः पञ्चधा सम्यग्गुणान्स्वानभिवर्द्धयेत् इति ॥१७०॥
मिष्टः पटुश्च मधुरमम्लोऽम्ल पच्यते रसः
कटुतिक्तकषायाणां विपाको जायते कटुः इति ॥१७१॥
आहारस्य रसः सारः सार हीनो मलद्र वः
शिराभिस्तज्जलं नीतं वस्तिं मूत्रत्वमाप्नुयात् ॥१७२॥
शेषं किट्टञ्च यत्तस्य तत्पुरीषं निगद्यते
समानवायुना नीतन्तत्तिष्ठति मलाशये ॥१७३॥
मूत्रञ्चोपस्थमार्गेण पुरीषं गुदमार्गतः
अपानवायुना क्षिप्तं बहिर्याति शररीतः ॥१७५॥
रसस्तु हृदयं याति समानमरुतेरितः
स तु व्यानेन विक्षिप्तः सर्वान् धातून् विवर्द्धयेत् ॥१७५॥
केदारेषु यथा कुल्याः पुष्णन्ति विविधौषधीः
तथा कलेवरे धातून् सर्वान् वर्द्धयते रसः ॥१७६॥
स्थूलः सूक्ष्मस्तन्मलश्च तत्र तत्र त्रिधा रसः
स्वं स्थूलॐऽश परं सूक्ष्मस्तन्मलो याति तन्मलम् ॥१७७॥
धातौ रसादौ मज्जान्ते प्रत्येकं क्रमतो रसः
अहोरात्रात्स्वयं पञ्च सार्द्धदण्डं च तिष्ठति ॥१७८॥
स्वाग्निभिः पच्यमानेषु मज्जान्तेषु रसादिषु
षट्सु धातुषु जायन्ते मलानि मुनयो जगुः ॥१७९॥
यथा सहस्रधा ध्माते न मलं किल काञ्चने
तथा रसे मुहुः पक्वे न मलं शुक्रताङ्गते ॥१८०॥
ओजः सर्वशरीरस्थं स्निग्धं शीतं स्थिरं सितम्
सोमात्मकं शरीरस्य बलपुष्टिकरं मतम् ॥१८१॥
गुरु शीतं मृदु स्निग्धं सान्द्रं स्वादु स्थिरं तथा
प्रसन्नं पिच्छिलं सूक्ष्ममोजो दशगुणं स्मृतम् ॥१८२॥
अष्टविन्दुप्रमाणं तदीषद्र क्तं सपीतकम्
अग्नीषोमात्मकत्वेन द्विरूपं वर्णितन्तु तत् ॥१८३॥
ओजश्च तेजो धातूनां शुक्रान्तानां परं स्मृतम्
हृदयस्थमपि व्यापि देहस्थितिनिबन्धनम् ॥१८४॥
यस्य प्रवृद्धौ देहस्य तुष्टिपुष्टिबलोदयाः
यन्नाशे नियतो नाशो यस्मिंस्तिष्ठति जीवनम् ॥१८५॥
निष्पद्यन्ते यतो भावा विविधा देहसंश्रयाः
उत्साहप्रतिभाधैर्यलावण्यसुकुमारताः ॥१८६॥
ततः स्थूलो भागो रसो मासेन पुंसां शुक्रं स्त्रीणान्त्वार्त्तवं शुक्रञ्च भवति उक्तञ्च सुश्रुते एवं मासेन रसः शुक्रो भवति स्त्रीणामार्त्तवञ्चेति चकारात् स्त्रीणामपि शुक्रं भवति अत एवोक्तं सुश्रुते योषितोऽपि स्रवत्येव शुक्रं पुंसः समागमे तत्र गर्भस्य किञ्चित्तुन करोतीति न चिन्त्यते ॥१८७॥
स्त्रीणां गर्भोपयोगि स्यादार्त्तवं सर्वसम्मतम्
तासामपि बलं वर्णं शुक्रं पुष्टिं करोति हि ॥१८८॥
रसाद्र क्तं ततो मांसं मांसान्मेदः प्रजायते
मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रस्य सम्भवः ॥१८९॥
रसः शरीरे शब्दार्च्चिर्जलसन्तानवत् त्रिधा
सञ्चरत्यनुरूपोऽय नित्यमेव हि देहिनाम् ॥१९०॥
वाजीकरिण्य ओषध्यः स्वप्रभावगुणोच्छ्रयात्
विरेचयन्ति ताः शुक्रं विरेकिद्र व्यवन्नृणाम् ॥१९१॥
दुग्धं माषाश्च भल्लात फलमज्जामलानि च
जनकानि निगद्यन्ते रेचनानि च रेतसः ॥१९२॥
बालानां शुक्रमस्त्येव किन्तु सौक्ष्म्यान्न दृश्यते
पुष्पाणां मुकुले गन्धो यथा सन्नपि नाप्यते ॥१९३॥
तेषां तदेव तारुण्ये पुष्टत्वाद्व्यक्तिमेति हि
कुसुमानां प्रफुल्लानां गन्धः प्रादुर्भवेद्यथा ॥१९४॥
रोमराज्यादयः पुंसां नारीणामपि यौवने
जायतेऽत्र च यो भेदो ज्ञेयो व्याख्यानतः स च ॥१९५॥
वार्द्धके वर्द्धमानेन वायुना रसशोषणात्
न तथा धातुवृद्धिः स्यात्ततस्तत्रानिलं जयेत् ॥१९६॥
शुक्रं सौम्यं सितं स्निग्धं बलपुष्टिकरं स्मृतम्
गर्भबीजं वपुःसारो जीवस्याश्रय उत्तमः ॥१९७॥
जीवो वसति सर्वस्मिन्देहे तत्र विशेषतः
वीर्ये रक्ते मले यस्मिन् क्षीणे याति क्षयं क्षणात् ॥१९८॥
स्फटिकाभं द्र वं स्निग्धं मधुरं मधुगन्धि च
शुक्रमिच्छन्ति केचित्तु तैलक्षौद्र निभञ्च तत् ॥१९९॥
यथा पयसि सर्पिस्तु गूढश्चेक्षौ रसो यथा
एवं हि सकले काये शुक्रं तिष्ठति देहिनाम् ॥२००॥
द्व्यङ्गुले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्यधः
मूत्रस्रोतःपथाच्छुक्रं पुरुषस्य प्रवर्त्तते ॥२०१॥
कृत्स्नदेहस्थितं शुक्रं प्रसन्नमनसस्तथा
स्त्रीषु व्यायच्छतश्चापि हर्षात्तत् सम्प्रवर्त्तते ॥२०२॥
शुक्रं कामेन कामिन्या दर्शनात् स्पर्शनादपि
शब्दसंश्रवणाद् ध्यानात् संयोगाच्च प्रवर्त्तते ॥२०३॥
रसादेव रजः स्त्रीणां मासि मासि त्र्यहं स्रवेत्
तद्वर्षाद् द्वादशादूर्ध्वं याति पञ्चाशतः क्षयम् ॥२०४॥
मासेनोपचितं काले धमनीभ्यस्तदार्त्तवम्
ईषद्विवर्णं कृष्णञ्च वायुर्योनिमुखं नयेत् ॥२०५॥
शशासृक्प्रतिमं यच्च यद्वा लाक्षारसोपमम्
तदार्त्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत् ॥२०६॥
अतिरिक्ता गुणा रक्ते बह्नेर्मांसे तु पार्थिवाः
मेदस्यपां भुवश्चास्थ्नि पृथिव्यनिलतेजसाम् ॥२०७॥
मज्ज्ञि शुक्रे च सोमस्य मूत्रे च शिखिनोगुणाः
भुवस्तथाऽत्तवे त्वग्ने रसे क्षीरे तथाऽम्भसः ॥२०८॥
कफः पित्तं मलः खेषु प्रस्वेदो नखलोम च
नेत्रविट्त्वक्षु च स्नेहो धातूनां क्रमशो मलाः ॥२०९॥
वनितानां प्रसूतानां धमनीभ्यां स्तनौ गतात्
रसादेव हि जायेत स्तन्यं स्तनयुगाशयम् ॥२१०॥
शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्त्तिता
मेदसस्ताप्यमानस्य स्नेहो वा कथिता वसा ॥२११॥
स्तन्यं रजो वसा स्वेदो दन्ताः केशास्तथैव च
ओजश्च सप्तधातूनां क्रमात् सप्तोपधातवः ॥२१२॥
उरोरक्ताशयस्तस्मादधः श्लेष्माशयः स्मृतः
आमाशयस्तु तदधस्तल्लिङ्गं चरकोऽवदत् ॥२१३॥
आमाशयादधः पक्वाशयादूर्ध्वन्तु या कला
ग्रहणी नामिका सैव कथितः पाचकाशयः ॥२१४॥
ऊर्ध्वमग्न्याशयो नाभेर्मध्यभागे व्यवस्थितः
तस्योपरि तिलं ज्ञेयं तदधः पवनाशयः ॥२१५॥
पक्वाशयस्तुतदधः स एव तु मलाशयः
तदधः कथितो वस्तिः स हि मूत्राशयो मतः ॥२१६॥
कफाऽमपित्तवातानामाशया मलमूत्रयोः
पुरुषेभ्योऽधिकाश्चान्ये नारीणामाशयास्त्रयः ॥२१७॥
धरा गर्भाशयः प्रोक्तः पित्तपक्वाशयान्तरे
स्तनौ प्रवृद्धौ तावेव बुधैः स्तन्याशयौ मतौ ॥२१८॥
स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा
श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान्विदुः ॥२१९॥
धात्वाशयान्तरे धातोर्यः क्लेदस्त्वधितिष्ठति
देहोष्मणाऽभिपक्वश्च सा कलेत्यभिधीयते ॥२२०॥
आद्या मांसधरा प्रोक्ता द्वितीया रक्तधारिणी
मेदोधरा तृतीया तु चतुर्थी श्लेष्मधारिणी ॥२२१॥
पञ्चमी तु मलं धत्ते षष्ठी पित्तधरा मता
रेतोधरा सप्तमी स्यादिति सप्त कलाः स्मृताः ॥२२२॥
सन्निपातः शिरास्नायुसन्धिमांसास्थिसम्भवः
मर्माणि तेषु तिष्ठन्ति प्राणाः खलु विशेषतः ॥२२३॥
सप्तोत्तरशतं सन्ति देहे मर्माणि देहिनाम्
तान्येकादश मांसे स्युरष्टावस्थिषु सन्ति हि ॥२२४॥
सन्धीनां विंशतिस्तानि स्नायूनां सप्तविंशतिः
चत्वारिंशतत्तथैकञ्च शिरामर्माणि तत्र तु ॥२२५॥
द्वाविंशतिः सक्थियुगे तावत्येव भुजद्वये
द्वादशोरसि कुक्षौ च पृष्ठदेशे चतुर्दश ॥२२६॥
ग्रीवायामूर्ध्वभागे तु सप्तत्रिंशन्मतानि हि
मर्माणि तानि सन्तीह पञ्चधा च भवन्ति हि ॥२२७॥
सद्यः प्राणहराणि स्युर्मर्माण्येकोनविंशतिः
मर्मदेशास्त्रयस्त्रिंशत् स्युः कालान्तरमारकाः ॥२२८॥
चत्वारिंशच्च चत्वारि वैकल्यं जनयन्ति हि
मर्माष्टकं रुजाकारि विशल्यघ्नं त्रिकं मतम् ॥२२९॥
शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठशिरा गुदम्
हृदयं वस्तिनाभी च सद्यो घ्नन्ति हतानि चेत् ॥२२९॥
वक्षोमर्माणि सीमन्ततलक्षिप्रेन्द्र वस्तयः
वृहत्यौ पार्श्वयोः सन्धी कटीकतरुणे च ये
नितम्बाविति चैतानि कालान्तरहराणि तु ॥२३१॥
लोहिताक्षाणिजानूर्वी कूर्चा विटपकूर्पराः
कुकुन्दरे कक्षधरे विधुरे सकृकाटिके ॥२३२॥    
अंसांसफलकापाङ्गा नीले मन्ये फणे तथा
वैकल्यकरणान्याहुरावर्त्तौ द्वौ तथैव च ॥२३३॥
गुल्फौ द्वौ मणिबन्धौ द्वौ तथा कूर्चशिरांसि च
रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् ॥२३४॥
उत्क्षेपौ स्थपनी चैव विशल्यघ्नं त्रिकम्मतम् ॥२३५॥
सप्तरात्रान्तरे हन्युः सद्यः प्राणहराणि हि
कालान्तरप्राणहरं पक्षे मासे च मारकम् ॥२३६॥
सद्यः प्राणहरञ्चान्ते विद्धं कालेन मारयेत्
कालान्तरप्राणहरमन्ते विद्धन्तु दुःखदम् ॥२३७॥
मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम्
प्रायेण ते कृच्छ्रतमा भवन्ति वैद्येन यत्नैरपि साध्यमानाः ॥२३८॥
अथ सन्धयः
ते द्विविधाश्चेष्टावन्तः स्थिराश्च
शाखासु हन्वोः कट्याञ्च चेष्टावन्तो भवन्ति हि
शेषास्तु सन्धयः सर्वे स्थिरास्तज्ज्ञैरुदाहृताः ॥२३॥९॥
कथिता देहिनां देहे सन्धयो द्वे शते दश
शाखासु तेऽष्टषष्टिश्च कोष्ठे त्वेकोनषष्टिका ॥२४॥०॥
ग्रीवाया ऊर्ध्वदेशे तु त्र्यशीतिस्ते प्रकीर्त्तिताः
प्रथमं परिगण्यन्ते तेषु शाखागता इह ॥२४१॥
कोरोदूखलसामुद्गाः प्रतरस्तूणसेवनी
काकतुण्डं मण्डलञ्च शङ्खावर्त्तोऽष्टसन्धयः ॥२४२॥
अस्थ्नां तु सन्धयो ह्येते केवलाः समुदाहृताः
पेशीस्नायु शिराणान्तु सन्धिसंख्या न विद्यते ॥२४३॥
सन्धिबन्धनकारिण्यो दोषधातुवहाः शिराः
नाभ्यां सर्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः ॥२४४॥
शरीरं सकलञ्चैतच्छिराभिः पोष्यते सदा
प्रणालीभिरिवारामाः कुल्याभिः क्षेत्रधान्यवत् ॥२४॥५॥
प्रसारणाकुञ्चनादिक्रियाभिः सततं तनौ
शिरा एवोपकुर्वन्ति ताः स्युः सप्तशतानि तु ॥२४५॥
यथा द्रुमदले साक्षाद् दृश्यन्ते प्रतताः शिराः
तथैव दैहिनो देहे वर्त्तन्ते सकले शिराः ॥२४॥७॥
नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिरुपाश्रिता
शिराभिरावृता नाभिश्चक्रनाभिरिवारकैः ॥२४८॥
क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम्
करोत्यन्यान् गुणांश्चापि स्वाः शिराः पवनश्चरन् ॥२४॥९॥
यदा तु कुपितो वायुः स्वाः शिराः प्रतिपद्यते
तदाऽस्य विविधा रोगा जायन्ते वातसम्भवाः ॥२५०॥
भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम्
करोत्यन्यान् गुणांश्चापि पित्तमात्मशिराश्चरद् ॥२५१॥
यदा तु कुपितं पित्तं सेवते स्ववहाः शिराः
तदाऽस्यविविधा रोगा जायन्ते पित्तसम्भवाः ॥२५२॥
स्नेहमङ्गेषु सन्धीनां स्थैर्यं बलमरोगाताम्
करोत्यन्यान् गुणांश्चापि वलासःस्वाःशिराश्चरन् ॥२५३॥
यदा तु कुपितः श्लेष्मा स्वाः शिराः प्रतिपद्यते
तदाऽस्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः ॥२५४॥
धातूनां पूरणं वर्णस्पर्शज्ञानमसंशयम्
स्वशिरासु चरद्र क्तं कुर्याच्चान्यान् गुणानपि ॥२५५॥
यदा तु कुपितं रक्तं सेवते स्ववहाः शिराः
तदाऽस्य विविधा रोगा जायन्ते रक्तसम्भवाः ॥२५६॥
तत्रारुणा वातवहाः पूर्यन्ते वायुना शिराः
पित्तादुष्णाश्च नीलाश्च शीता गौर्यः स्थिराः कफात्
असृग्धरास्तु ता रक्ताः स्युश्च नात्युष्णशीतलाः ॥२५७॥
मेदसः स्नेहमादाय शिरा स्नायुत्वमाप्नुयात्
शिराणां हि मृदुः पाकः स्नायूनान्तु ततः खरः ॥२५८॥
स्नायवो बन्धनानिस्युर्देहमांसास्थिमेदसाम्
सन्धीनामपि यत्तास्तु शिराभ्यः सुदृढाः स्मृताः ॥२५९॥
नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता
नियुक्ताऽगाधसलिले भवेद्भारसहा भृशम् ॥२६०॥
एवमेव शरीरेस्मिन्यावन्तः सन्धयः स्मृताः
स्नायुभिर्बहुभिर्बद्धास्तेन भारसहा नराः ॥२६१॥
शतानि नव जायन्ते शरीरे स्नायवो नृणाम्
तासां विवरणं ब्रूमः शिष्याः शृणुत यत्नतः ॥२६२॥
शाखासु षट्शतानि स्युः कोष्ठे त्रिंशच्छतद्वयम्
ग्रीवाया ऊर्ध्वदेशे तु स्नायूनां सप्ततिः समृता ॥२६३॥
धमन्यो नाभितो जाताश्चतुर्विंशतिसंख्यया
दशोर्ध्वगा दशाधोगाः शेषास्तिर्यग्गताः स्मृता ॥२६४॥
यथा स्वभावतः खानि मृणालेषु विसेषु च
धमनीनां तथा खानि रसो यैरभितश्चरेत् ॥२६५॥
पञ्चाभिभूतास्त्वथ पञ्चकृत्वः पञ्चेन्द्रि यं पञ्चसु भाबयन्ति
पञ्चेन्द्रि यं पञ्चसु भावयित्वा पञ्चत्वमायान्ति विनाशकाले ॥२६६॥
महत्यः स्नायवः प्रोक्ताः कण्डरास्तास्तु षोडश
प्रसारणाकुञ्चनयोर्दृष्टं तासां प्रयोजनम् ॥२६७॥
चतस्रो हस्तयोस्तासां तावत्यः पादयोः स्मृताः
ग्रीवायामपि तावत्यस्तावत्यः पृष्ठसङ्गताः ॥२६८॥
नेत्रश्रवणनासानां द्वे द्वे रन्ध्रे प्रकीर्त्तिते
मुखमेहनपायूनामेकैकं रन्ध्रमुच्यते ॥२६९॥
दशमं मस्तके प्रोक्तं रन्ध्राणीति नृणां विदुः
स्त्रीणामन्यानि च त्रीणि स्तनयोर्गर्भवर्त्मनि ॥२७०॥
मनः प्राणान्नपानीयदोषधातूपधातवः
धातूनां च मला मूत्रं मलमित्यादयस्तनौ ॥२७१॥
सञ्चरन्ति हि यैर्मागैस्तानि स्रोतांसि सञ्जगुः
बहूनि तानि संख्याय शक्यन्ते नैव भाषितुम् ॥२७२॥
जालानि तु शिरास्नायुमांसास्थ्नामुद्भवन्ति हि
तानि चत्वारि चत्वारि सर्वाण्येव च षोडश ॥२७३॥
कूर्चा स्युर्हस्तयोर्द्वौ तु तावन्तौ पादयोरपि
ग्रीवायामेक एकस्तु मेढ्रे सर्वेऽपि षट् स्मृताः ॥२७५॥
पृष्ठवंशस्योभयत्र महत्यो मांसरज्जवः
चतस्रो मांसपेशीनां बन्धनं तत्प्रयोजनम् ॥२७५॥
सेवन्यः सप्त तासां तु भवेयुः पञ्च मस्तके
एका शेफसि जिह्वायामेका विध्येन्न ताः क्वचित् ॥२७६॥
चतुर्दशास्थ्नां सङ्घातास्तेषां त्रयो गुल्फजानुवंक्षणेषु
एतेनेतरसक्थिबाहू च व्याख्यातौ त्रिकशिरसोरेकैकम् ॥२७७॥
चतुर्दशैव सीमन्ताः कथिता मुनिपुङ्गवैः
सङ्घाताः सीविता यैस्तु सीमन्तास्ते प्रकीर्त्तिताः ॥२७८॥
क्षीरस्य पच्यमानस्य यथा सन्तानिका भवेत्
पच्यमानस्य शुक्रस्य रजसश्च तथा त्वचः
पूर्वावभासिनी तासां सिध्मस्थानं च सा स्मृता ॥२७९॥
द्वितीया लोहिता ज्ञेया तिलकालकजन्मभूः ॥२८०॥
तृतीया तु भवेच्छ्वेता स्थानं चर्मदलस्य सा ॥२८१॥
ताम्रा चतुर्थी विज्ञेया किलासश्वित्रभूमिका ॥२८२॥
पिञ्चमी वेदिनी नाम्ना पञ्चभागप्रमाणिका
विसर्पकुष्ठाधिष्ठाना ज्ञेया षष्ठी तु रोहिणी
विख्याता रोहिणी षष्ठी ग्रन्थिगण्डापचीस्थितिः ॥२८३॥
स्थूला त्वक्सप्तमी ख्याता विद्र ध्यादेः स्थितिश्च सा ॥२८४॥
अस्थ्नो मलानि लोमानि चासंख्यानि भवन्ति हि
सन्ति यावन्ति लोमानि तावन्तो लोमकूपकाः ॥२८५॥
अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते
सन्निवेशश्च गात्राणां नात्रास्ते कारणान्तरम् ॥२८६॥
अङ्गप्रत्यङ्गनिर्वृत्तौ ये भवन्यगुणा गुणाः
ते ते गर्भस्य विज्ञेया धर्माधर्मनिमित्तजाः ॥२८७॥
दन्तानां पतनं जन्म पुनः पाते त्वसम्भवः
तलेष्वनुद्भवो लोम्नामेतत्सर्वं स्वभावतः ॥२८८॥
गर्भाशये निपतितं यादृक्शुक्रं तथाऽतवम्
तादृगेव द्र वीभूतं प्रथमे मासि तिष्ठति ॥२८९॥
मरुत्पित्तकफैस्तत्स्थैः पच्यमानो द्वितीयके
कललस्थमहाभूतसमुदायो घनीभवेत् ॥२९०॥
तृतीये मासि शिरसो हस्तयोः पादयोस्तथा
पिण्डकाः पञ्च सिध्यन्ति सूक्ष्माङ्गावयवास्तनोः ॥२९१॥
सर्वाण्यङ्गान्युपाङ्गानि चतुर्थे स्युः स्फुटानि हि
हृदयव्यक्तभावेन व्यज्यते चेतनाऽपि च ॥२९२॥
तस्माच्चतुर्थे गर्भस्तु नाना वस्तूनि वाञ्छति
ततो द्विहृदया यत्स्यान्नारी दौहृदिनी मता ॥२९३॥
दौहृदावज्ञया कुब्जं कुणिं षण्ढं च वामनम्
विकृताक्षमनक्षं वा पुत्रं नारी प्रसूयते ॥२९४॥
यतः स्त्री दौहृदं प्राप्य वीर्यवन्तं चिरायुषम्
पुत्रं प्रसूयते तस्मात्तस्यै वाच्छितमर्पयेत् ॥२९५॥
इन्द्रि यार्थांस्तु यान्यान्सा भोक्तुमिच्छति गर्भिणी
गर्भबाधाभयात्तांस्तान्भिषगाहृत्य दापयेत् ॥२९६॥
सा प्राप्तदौहृदा पुत्रं जनयेत्तु गुणान्वितम्
अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम् ॥२९७॥
येषु येष्विन्द्रि यार्थेषु दौहृदे साऽवमानिता
प्रसूयते सुतं सार्तिं तस्मिंस्तस्मिंस्तदिन्द्रि ये ॥२९८॥
राजसन्दर्शने यस्या दौहृदंजायते स्त्रियाः
अर्थवन्तं महाभागं कुमारं सा प्रसूयते ॥२९९॥
दुकूलपट्टकौशेयभूषणादिषु दौहृदात्
अलङ्कारैषिणं पुत्रं ललितं सा प्रसूयते ॥२९०॥
आश्रमे संयतात्मानं धर्मशीलं प्रसूयते
देवताप्रतिमायां तु प्रसूते पार्षदोपमम् ॥२९१॥
दर्शने व्यालजातीनां हिंसाशीलं प्रसूयते
रक्ताक्षं लोमशं शूरं महिषामिषदौहृदात् ॥२९२॥
वाराहमांसे स्वप्नालुं शूरं सञ्जनयेत्सुतम्
मृगमांसे तु जङ्घालं विक्रान्तं वनचारिणम् ॥२९३॥
अतोऽनुक्तेषु या नारी दौहृदं विदधाति हि
शरीराचारशीलैः सा समानं जनयिष्यति ॥२९४॥
पञ्चमे मानसं षष्ठे बुद्धिश्चातिप्रबुद्ध्य्ते
सर्वाण्यङ्गान्युपाङ्गानि भृशं व्यक्तानि सप्तमे ॥२९५॥
ओजोऽष्टमे सञ्चरति माता पुत्रौ मुहुः क्रमात्
तेन तौम्लानमुदितौ स्यातां जातो न जीवति ॥२९६॥
न जीवत्यष्टमे जातस्तत्रौजो न स्थिरं यतः
तथा नेरृत्यभागत्वाद्दापयेत्तद्वलि ततः ॥२९७॥
नवमे दशमे मासि नारी बालं प्रसूयते
एकादशे द्वादशे वा ततोऽन्यत्र विकारतः ॥२९८॥
शिरो भवति चाङ्गस्य पूर्वमित्याह शौनकः
शिरस्येवोपजायन्ते प्रधानानीन्द्रि याणि यत् ॥२९९॥
हृदयं जायते पूर्वं कृतवीर्योऽवदन्मुनिः
बुद्धेश्च मनसश्चापि यतस्तत्स्थानमीरितम् ॥३१०॥
पाराशर्य इति प्राह पूर्वं नाभिसमुद्भवः
प्राणो यत्र स्थितो देहं वर्द्धयत्यूष्मसंयुतः ॥३११॥
पाणिपादं भवेत्पूर्वं मार्कण्डेयमुनेर्मतम्
देहिनः सकलाश्चेष्टाः पाणिपादाश्रया यतः ॥३१२॥
प्रथमं जायते कोष्ठं ततः सर्वांगसम्भवः
एतत्तुं कथयामास गौतमो मुनिपुंगवः ॥३१३॥
सर्वाण्यङ्गान्युपाङ्गानि युगपत्सम्भवन्ति हि
सूक्ष्मत्वान्नोपलभ्यन्ते मतं धन्वन्तरेरिदम् ॥३१४॥
आम्रस्याणुफले भवन्ति युगपन्मांसास्थिमज्जादयो
लक्ष्यन्ते न पृथक्पृथक्तनुतया पुष्टास्त एव स्फुटाः
एवं गर्भसमुद्भवे त्ववयवाः सर्वे भवन्त्येकदा
लक्ष्याः सूक्ष्मतया न ते प्रकटतामायान्ति वृद्धिं गताः ॥३१५॥
अथ शरीरे पितृजमातृजरसजात्मजा भागा उच्यन्ते तत्र
केशाःश्मश्रु च लोमानि नखा दन्ताः शिरास्तथा
धमन्यः स्नायवः शुक्रमेतानि पितृजानि हि ॥३१६॥
मांसासृङ्मज्जमेदांसि यकृत्प्लीहान्त्रनाभयः
हृदयं च गुदं चापि भवन्त्येतानि मातृतः ॥३१७॥
शरीरोपचयो वर्णो बलं देहस्थितिस्तथा
रसादेतानि जायन्ते भिषजो मुनयो जगुः ॥३१८॥
ज्ञानं विज्ञानमायुश्च सुखदुःखादिकं तथा
इन्द्रि याणि च सर्वाणि भवन्त्येतानि चात्मनः ॥३१९॥
अग्नीषोमौ मही वायुर्नभः सत्त्वं रजस्तमः
पञ्चेन्द्रि याणि भूतात्मा गर्भं सञ्जीवयन्ति हि ॥३२०॥
गर्भस्य नाभिनाड्या तु नाडी रसवहा स्त्रियाः
संलग्ना तेन गर्भस्य वृद्धिर्भवति नित्यशः ॥३२१॥
निःश्वासोच्छ्वाससंक्षोभस्वप्नांशान्सोऽधिगच्छति
मातुर्निःश्वसितोच्छ्वाससंक्षोभस्वप्नसंभवान् ॥३२२॥
गर्भस्य नाभिमध्ये तु ज्योतिःस्थानं ध्रुवं स्मृतम्
तदाधमति वातश्च देहस्तेनास्य वर्धते ॥३२३॥
ऊष्मणा सहिताश्चापि दारयत्यस्य मारुतः
ऊर्ध्वं तिर्यगधस्ताच्च स्रोतांसि तु यथा तथा ॥३२४॥
दृष्टिश्च रामकूपाश्च न वर्धन्ते कदा च न
ध्रुवाण्येतानि मर्त्यानामिति धन्वन्तरेर्मतम् ॥३२५॥
शरीरे क्षीयमाणेऽपि वर्धेते द्वाविमौ सदा
स्वभावं प्रकृतिं कृत्वा नखकेशाविति स्थितिः ॥३२६॥
चेतनानामधिष्ठानं मनो देहश्च सेन्द्रि यः
केशलोमनखाग्रान्नमलद्र वगुणैर्विना ॥३२७॥
वाताल्पत्वादयोगाच्च वायोः पक्वाशयस्य च
वातमूत्रपुरीषाणि गर्भस्थो न विमुञ्चति ॥३२८॥
जरायुणा मुखे छन्ने कण्ठे च कफवेष्टिते
वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति ॥३२९॥
गर्भिणी प्रथमादह्नः प्रहृष्टा भूषिता शुचिः
भवेच्छुक्लाम्बरधरा गुरुविप्रार्चने रता ॥३३०॥
भोज्यं तु मधुरप्रायं स्निग्धं हृद्यं द्र वं लघु
सस्कृतं दीपनीयं तु नित्यमेवोपयोजयेत् ॥३३१॥
गर्भिणी न तु कुर्वीत व्यायाममपतर्पणम्
व्यवायं च न सेवेत न कुर्यादतितर्पणम् ॥३३२॥
रात्रौ जागरणं शोकं यानस्यारोहणं तथा
रक्तमोक्षं वेगरोधं न कुर्यादुत्कटासनम् ॥३३३॥
दोषाभिघातैर्गर्भिण्या यो यो भागः प्रपीड्यते
स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते ॥३३४॥
मलिनां विकृताकारां हीनाङ्गीं न स्पृशेत्स्त्रियम्
न जिघ्रेदपि दुर्गन्धं न पश्येन्नयनाप्रियम् ॥३३५॥
वचांसि नापि शृणुयात्कर्णयोरप्रियाणि च
नान्नं पर्युषितं शुष्कं भुञ्जीत क्वथितं न च ॥३३६॥
चैत्यश्मशानवृक्षांश्च भावांश्चाप्ययशस्करान्
बहिर्निष्क्रमणं क्रोधं शून्यागारं च वर्जयेत् ॥३३७॥
नोच्चैर्ब्रूयान्न तत्कुर्याद्येन गर्भो विनश्यति
तैलाभ्यङ्गोद्वर्तनं च नात्यर्थं कारयेदपि ॥३३८॥
नामृद्वास्तरणं कुर्यान्नात्युच्चं शयनासनम्
एतांस्तु नियमान्सर्वान्यत्नात्कुर्वीत गर्भिणी ॥३३९॥
नवमे दशमे मासि नारी गर्भं प्रसूयते
एकादशे द्वादशे वा ततोऽन्यत्र विकारतः ॥३४०॥
अष्टहस्तायतं चारु चतुर्हस्तविशालकम्
प्राचीद्वारमुदग्द्वारं विदध्यात्सूतिकागृहम् ॥३४१॥
जाते हि शिथिले कुक्षौ मुक्ते हृदयबन्धने
सशूले जघने नारी विज्ञेया प्रसवोत्सुका ॥३४२॥
आसन्नप्रसवायास्तु कटीपृष्ठं तु सव्यथम्
भवेन्मुहुः प्रवृत्तिश्च मूत्रस्य च मलस्य च ॥३४३॥
तैलेनाभ्यक्तगात्रान्तां संस्नातामुष्णवारिणा
यवागूं पाययेत्कोष्णां मात्रया घृतसंयुताम् ॥३४४॥
कृतोपधाने मृदुनि विस्तीर्णे शयने शनैः
अभुग्नसक्थी चोत्ताना नारी तिष्ठेद्व्यथाऽन्विता ॥३४५॥
चतस्रोऽशकनीयाश्च स्रावणे कुशला हिताः
वृद्धाः परिचरेयुस्ताः सम्यक्छिन्ननखाः स्त्रियः ॥३४६॥
अपत्यमार्गं तैलेन समभ्यज्य समन्ततः
एका तु तासु सुभगे प्रवाहस्वेति तां वदेत् ॥३४७॥
अव्यथा मा प्रवाहिष्ठाः प्रावहेथा व्यथा यदि
प्रवाहेथाः शनैः पूर्वंप्रगाढं च ततः परम् ॥३४८॥
ततो गाढतमं गर्भे योनिद्वारमुपागते
अपरासहितो गर्भो यावत्पतति भूतले ॥३४९॥
मूकं वा बधिरं कुब्जं श्वासकासक्षयान्वितम्
सूते स्रस्ततनुं बालमकाले तु प्रवाहणात् ॥३५०॥
इति श्रीमिश्रलटकन तनय श्रीमन्मिश्रभाव विरचिते
भावप्रकाशे गर्भप्रकरणं तृतीयम् ॥३॥

N/A

References : N/A
Last Updated : May 16, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP