संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|पैप्पलादसंहिता|चतुर्दशर्चोनाम एकादशकाण्ड:| ११ ते १६ चतुर्दशर्चोनाम एकादशकाण्ड: १ ते ५ ६ ते १० ११ ते १६ एकादशकाण्ड: - ११ ते १६ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ११ ते १६ Translation - भाषांतर ११यत् कीनाशं सीरपतिर्दण्डेन हन्ति मन्युतः ।यत् किंच खल्यं सादान्ववमिन्द्रराशौ तदाहितम् ॥१॥उलूखलमुसलं तानि चोदय सूर्यं नार्यपविचे कृणुष्व।वाहाय पुत्राय गोतम इन्द्रराशिं मधुमन्तं कृणोतु ॥२॥एतत् सूर्यं जरितराहरोलूखलमुसलं कुम्भ्या गहि ।पुत्रा नो अद्य सुदिनत्वे अह्नि पित्तमश्नन्त मधुमन्तमंशुम् ॥३॥अग्निर्नो दूतः प्रहितो ऽयमागन् स नः सर्वमन्नमविषं कृणोतु ।निराविद्धमकृतं ब्रह्मणेतो ऽदोमधं पित्तमत्त प्रसूताः ॥४॥स्वादो पितो मधो पितो उप नः पितवा गहि ।शिवः शिवाभिरूतिभि:॥५॥सिंहो भूत्वा गामृणात्यग्निर्भूत्वा धान्यम् ।इन्द्रराशिरनिर्मितो मयारं चाव गच्छति ॥६॥१२शतकाण्डो द्युश्चवन: सहस्रपर्ण उत्तिरः ।दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे ॥१॥नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते ।यस्मा अच्छिन्नपर्णेन दर्भण शर्म यच्छति ॥२॥दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः ।त्वया सहस्रकाण्डेनायुष्प्र वर्धयामहे ॥३॥तिस्रो दिवो अत्यतृणस्तिस्र इमाः पृथिवीरुत ।तयाहं सर्वान् दुर्हार्दो जिह्वां नि तृणद्मि वचांसि च ॥४॥त्वमसि सहमानो अहमस्मि सहस्वान् ।उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि ॥५॥सहस्व नो अभिमातिं सहस्व पृतनायतः ।सहस्व सर्वां दुर्हार्दो सुहार्दो मे बहून कृधि ॥६॥दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित् ।तेनाहं सस्वतो जनाङ असनं सनवानि च ॥७॥प्रियं मा दर्भं कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च ।यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥८॥यो जायमानः पृथिवीमदृंहद् यो अस्तभ्नादन्तरिक्षं दिवं च ।यं बिभ्रतं ननु पाप्मा विवेद स नो ऽयं दर्भो धरुणो दिवा कः ॥९॥सपत्नहा शतकाण्ड: सहस्वानोषधीनां प्रथम: सं बभूव । वभू स नो ऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ॥१०॥१३सहस्रार्घ: शतकाण्डः पयस्वानपामग्निर्वीरुधां राजसूयम् ।स नो ऽयं दर्भः परि पातु विश्वतो दैवो मणिरायुषा सं सृजाति न: ॥१॥घृतादुल्लुप्तो मधुमान् पयस्वान् भूमिदृंहो अच्युतश्च्यावयिष्णुः ।नुदन् सपत्नानधरांश्च कृण्वन् दर्भारोह महतामहेन्द्रियेण ॥२॥त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे ।त्वां पवित्रमृषयो ऽभरन्त त्वं पुनीहि दुरितान्यस्मत् ॥३॥तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणि: ।ओजो देवानां बलमुग्रमेतत्तं ते बध्नामि जरसे स्वस्तये ॥४॥दर्भेण त्वं कृणु वीर्याणि दर्भं बिभ्रदात्मना मा व्यथिष्ठाः ।अतिष्ठायो वर्चसैध्वन्यान् सूर्येवाभाहि प्रदिशश्चतस्रः ॥५॥१४उदीरतां पृथिवी जीरदानुः शीत एनामन्तर्वाननु वातु वातः ।ऋत्वियावती पृथिवी प्रति गृह्णातु बीजं सहस्रवल्लिशं सुरुहा रोहयन्ती ॥१॥इन्द्र एनां हर्यश्वो अग्निर्वा रोहिताश्वः ।अश्विना रासभाश्वा कृषिं देवीमप्यूयुजन् ॥२॥शुनं वरत्रामा यच्छ शुनमष्ट्रामुदिङ्गय ।शुनं तोतप्यतां फालः शुनं वहतु लाङ्गलम् ॥३॥युनक्त वाहान् वि युगा तनोत कृते क्षेत्रे वपतेह बीजम् । वीजम् तथा धाता तथा भगस्तथा कृष्णुतामश्विनातथा देवी सरस्वती ॥४॥सुपिप्पला ओषधयो नाहीना अपक्षत ।तदिन्द्रो वरुणो वायुरश्विनेदं मे प्र तिरता वचः ॥५॥धाता पूषा बृहस्पतिर्भूत्याः समजीगमन्॥कृषिं देवा: स्वर्विद: ॥६॥कल्याणी सुभगेव या संस्थायां वपुषेण्या ।सा नस्तिराति मधुमन्तमंशुम् ॥७॥अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् |तीव्रा वर्षन्तु वृष्टयो भूतये महसे वृधे ॥८॥पिन्वान: पर्यन्यस्तिष्ठतु सह पृष्ठयोदेति सूर्यः ।आनन्दं जनयन् यवः सर्वा अरातीरपबाधमानः ॥९॥वि जिहीष्व पृथिवीमह्युर्विपक्षमृद्वी भव ।भद्रं रोहतु धान्यम् ॥१०॥१५उत्सेध सेध गा अजन् विन्देहेरां महस्कृधि ।मा वो रिषात् कूटग्राहो मा व आ शारि लाङ्गलम् ॥१॥मोऽस्माकमुग्रा: संरब्धास्तन्वः किं चनाममत्॥रायस्पोषं शुनासीरा अथो सीताभगश्च यः ॥२॥देष्ट्री समुद्रः सिनीवाली कृषिं नो अभि हिन्वत ।इमा याः पञ्च प्रदिशोस्ता वातो अभि हिन्वत ।वलीके सत्वतामिव तीव्रा वर्षन्तु वृष्टयः ॥३॥शुनं कीनाशो अन्वेतु वाहाञ्छुनं फालो विनुदन्नेतु भूमिम् ।शुनासीरा हविषा वावृधाना शुनं धान्यानि कृणुतं युवं नः ॥४॥या न: पीपरदश्विना ज्योतिष्मती तमस्तिर: ।तामस्मे रासेतामिषम् ॥५॥१६ऊर्ध्वश्रितो वै नामैता अपो यदोषधयश्च वनस्पतयश्चतासामग्निरधिपतिः ।यो वा एता ऊर्ध्वश्चित आपो वेदाग्निमधीपतिम्।यथैतमेता ऊर्ध्वा उपतिष्ठन्त्ये वैनमूर्ध्वा उपतिष्ठन्त्यधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥१॥प्रस्कद्वरीर्वै नामैता आपो यत्पृष्वास्तासामादित्योऽधिपतिः।यो वा एताः प्रस्कद्वरीरापो वेदादित्यमधिपतिम् ।यथैता एतस्मिन्नुद्यति प्रस्कन्दन्त्येवास्मिन्नायति प्रस्कन्दन्त्यधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥२॥तक्वरीर्वै नामैता आपो याः सूदय तासां पृथिव्यधिपत्नी ।यो वा एतास्तक्वरीरापो वेद पृथिवीमधिपत्नीम् ।यथैता एतस्यां प्रणुतास्तकन्तीर्यन्त्येवैनेन द्विषन्तः प्रणुता यन्त्यधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥३॥वशिनीर्वै नामैता आपो या: स्यन्दन्ते तासां वरुणो ऽधिपति:।यो वा एता वशिनीरापो वेद वरुणमधिपतिम् ।यथैतमेतासां स्यन्दमानानां वशमादत्त एवा द्विषतां वशमादत्ते ऽधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥४॥ऊर्जो वै नामैता आपो यद्गावस्तासां त्वष्टाधिपति: ।यो वा एता ऊर्ज आपो वेद त्वष्टारमधिपतिम् ।ऊर्जस्वी तेजस्वी भवति प्र साहस्रान् पशूनाप्नोत्यधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥५॥वर्चा वै नामैता आपो यद् घृतंतासां पूषा अधिपतिः ।यो वा एता वर्च आपो वेद पूषणमधिपतिम् ।वर्चस्वी तेजस्वी भवत्युतास्यानभ्यक्तस्य मुखं रोचते ऽधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥६॥ओजो वै नामैता आपो यन्मधु तासामिन्द्रो ऽधिपतिः ।यो वा एता ओज आपो वेदेन्द्रमधिपतिम् ।ओजस्वी वीर्यावानिन्द्रियावी भवति प्र राजसभायां मधुपर्कमाप्नोत्यधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥७॥उग्रा वै नामैता आपो यद्ध्रादुनयस्तासां मरुतो ऽधिपतय:।यो वा एता उग्रा आपो वेद मरुतो ऽधिपतीन् ।उग्रो बलवान् भवति मारुतं शर्ध इत्येनमाहुरधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥८॥महो वै नामैता आपो यद्वर्षं तासां पर्यन्यो ऽधिपति:।यो वा एता मह आपो वेद पर्यन्यमधिपतिम् ।महस्वी मित्रवाहो भवत्युतैनेन स्वा नन्दत्यस्माकमयमिति तस्मात् सर्वो वृष्टे महीयते ऽधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥९॥अतिमन्या वै नामैता आपो यत् सुरा तासामश्विनाधिपती ।यो वा एता अतिमन्या आपो वेदाश्विनाधिपती ।अतिमन्यते भ्रातृव्यान्नैनं भ्रातृव्या अतिमन्यन्ते तस्मान्मत्तो मत्तमतिमन्यते ऽधिपतिः भवति स्वानां चान्येषां च य एवं वेद ॥१०॥परिचितो वै नामैता आपो या: कर्ष्वाँ तासां यमो ऽधिपति:।यो वा एताः परिचित आपो वेद यममधिपतिम् ।पर्येनं स्वाश्च विश्याश्चावश्यन्त्यधिपति: भवति स्वानां चान्येषां च य एवं वेद ॥११॥रन्तयो वै नामैता आपो यत स्त्रियस्तासां कामो ऽधिपतिः।यो वा एता रन्तीरापो वेद काममधिपतिम् ।रमन्ते अस्मिन् रमणीयो भवति काम इव स्त्रीणामधिपतिः भवति स्वानां चान्येषां च य एवं वेद ॥१२॥विश्वभृतो वै नामैता आपो यत्पुरुषस्तासां मृत्युरधिपतिः ।यो वा एता विश्वभृत आपो वेद मृत्युमधिपतिम् ।विश्वस्य भर्ता भवति विश्वमेनं बिभर्त्यास्य त्रयो ऽग्नयो गृहे धीयन्ते दक्षिणाग्निर्गार्हपत्य आहवनीयः ।ऐनं चत्वारि वामानि गच्छन्ति निष्कः कंसो ऽश्वतरो हस्त्यधिपतिः भवति स्वानां चान्येषां च य एवं वेद ॥१३॥तासां वा एतासामपां हिमवानूधः सोमो वत्सः परमेष्ठ्यधिपतिः।यो वा एतासामपां हिमवन्तमूध: सोमं वत्सं परमेष्ठिनमधिपतिं वेद ।परमेष्ठी भवति गच्छति परमेष्ठितामधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ॥१४॥इत्यथर्ववेद पैप्पलाद संहितायां चतुर्दशर्चोनाम एकादशकाण्डः समाप्तः N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP