हा अम्ब तेजने धेनो लम्बनस्तनि ।
न तद्विदो यदिच्छसि यदु वित्तं न तद् घस: ॥१॥
पुत्रो यस्ते पृश्निबाहुस्तमु त्वं सामनं कृथि ।
अथो दुहितरं नप्त्नीमथो त्वं सामना भव ॥२॥
असामे कुरमे नैगुरस्य स्वस: ।
अराते निर्ऋते अमते स्नुहिते ॥३॥
परेत कस्तुपकं वः पुनर्ददामि ।
यो वो न वेद तं हत तस्यात्तु परि शिश्न्यम् ॥४॥
तस्यात्तु पुत्रान् भ्रातॄंश्च तस्य गोष्ठं वितावत ।
यश्च सतो नास्ति वाकी यश्चासावहविर्गृह: ।
दुर्णाम्नीस्तत्र गच्छत तत्र सर्वाः परेतन ॥५॥
परि धामान्यासामाशुर्गाष्ठामिवासरम् ।
अजैषं सर्वानाजीन् वो नश्यतेत: सदान्वा: ॥६॥
अन्तश्चरां कोशेचरामथो गोष्ठावचारिणीम् ।
अथो या: स्वप्ने पश्यामस्ता इतो नाशयामसि ॥७॥
कण्वा या गर्दभीव निभसत् सूकरीव ।
तस्यै प्रति प्र वर्तय तप्तमश्मानमासनि ॥८॥
यो मर्या अभिगच्छात् स्त्रियं कस्तुपस्तोपिनीम् ।
कस्तुपमस्या आच्छिद्याथैनां चातयातै परमां चित्परावतम् ॥९॥
या भद्रा या शिवा योर्जा पयसा सह ।
अग्निष्टा अस्माकं गृहे गार्हपत्यो नि यच्छतु ॥१०॥
इदं वो देव: सवितेदं देवो बृहस्पतिः ।
इर्द वो विश्वे देवा अवसानमयुक्षत ॥११॥
परि प्रागात् देवो अग्नीरक्षोहामीवचातनः ।
सेधन् विश्वा अप द्विषो दहन् रक्षांसि विश्वहा ।१२॥
परीमे गामनेषत पर्यग्निमहृषत । परिमे
देवेष्वक्रत श्रव: क इमां आ दधर्षति ॥१३॥


त्वयीन्द्रियं त्वयि वर्चस्त्वं धर्मपतिर्भव ।
त्वमुत्तरो भ्रातृवेभ्यस्तव लक्ष्मीः पयस्वती ॥१॥
तवैतामश्विना हवं तव राष्ट्रं दिवि श्रितम् ।
त्वमायुष्मान् सपत्नहोत्तरो द्विषतो भव ॥२॥
तीक्ष्णशृङ्ग ऋषभः समुद्र इवाक्षितोदकः ।
त्वं सहस्रवीर्यस्तव बाहू गवांपती ॥३॥
भ्रातृव्यश्च सपत्नश्च यस्त्वामित्रो जिघांसति ।
श्रियं त्वं सर्वेषां तेषामादायोग्रो वि धारय ॥४॥
त्वं वशी सत्याकूतः सत्यधर्मा गवेषणः ।
नाष्ट्रास्त्वं सर्वास्तीर्त्वा भ्रातृव्याणां श्रियं वृह ॥५॥
तुभ्यं सं यन्तु बलयस्तुभ्यं शुल्क: प्र वीयताम् ।
तुभ्यं विराट् पयो दुहां त्वां वाञ्छन्तु विशो मही: ॥६॥
वाञ्छतु त्वा बृहद्राष्ट्रं त्विषिस्ते मुख आहिता ।
त्वं देवानां भव प्रियस्त्वयि गावो अधि श्रिता: ॥७॥
त्वयीन्द्रियं त्वयि वर्चस्त्वयि यज्ञो अधि श्रित: ।
तवा यन्तु हवं देवास्त्वं प्रियो बृहस्पते: ॥८॥
अग्नीषोमा पवमानो विराड् देवी पयस्वती ।
अतन्द्रं सर्वे रक्षन्तु राष्ट्रं तेनपवाद्यम् ॥९॥
अग्निरिव तृणं प्र दहौघः कूलमिवा रुज ।
श्रियं भ्रातृव्याणामा दत्स्वाण्डीकमिवाधि पुष्करात् ॥१०॥


अश्व इव रथमा दत्स्व सिंह इव पुरुषं हर ।
हस्तीव नड्वलान् भङ्धि भ्रातृव्याणां श्रियं वृह ॥१॥
उत्ते कृणोतु कश्यपो ब्रह्म देवैरभिष्टुतम् ।
आप्रीतमविराधुकम् ॥२॥
एतं खदिरमा हराथो तेजनमा हर ।
उतैतं पर्णमा हरा हरानडुहो बलम् ॥३॥
इध्मां देवैः समाभृतांस्तांस्ते प्रादाद् बृहस्पतिः ।
ताना धेहि समाहितेऽग्नौ सूर्याभिचक्षणे ॥४॥
तेभिष्ट्वमुत्तरो भव भ्रातृव्याणां श्रियं वृह ।
अथो एषां पयो हर ॥५॥
आदित्या रुद्रा वसव ऋषयो भूतकृतश्च ये ।
श्रियं च क्षत्रमोजश्च तुभ्यं देवा असाविषुः ॥६॥
वसुरसीन्द्रनामायुष्मान्छतशारदः ।
स इन्द्र इव देवेषु त्विषीमान् विश आ वद ॥७॥


इदं राष्ट्रं प्रथतां गोभिरश्वैरिदं राष्ट्रमन्नेनेरया रसेन ।
अस्मै षडुर्वीरुप सं नमन्तु सप्तहोत्रा हत शत्रून् सचित्ताः ॥१॥
इमे राजान इषुभिर्घ्नन्तु शत्रूनिमे राजानः समित्यान्यान् वधेयुः ।
इमे राजानः पृतना: सहन्तामहं ब्रह्मा विमृधो हन्मि सर्वाः ॥२॥
इदं राष्ट्रं क्रतुमद्वीरवज्जिष्णुग्रमिदं राष्ट्रं गर्द्नुमच्चित्रघोषम् ।
अस्मै राष्ट्राय बलिमन्ये हरन्त्वहं देवेभ्यो हविषा विधेयम् ॥३॥
यदि युद्धं यद्यृतितं वो अस्ति देवैनसाद् यदि वा पित्र्येण।
येनर्तीया धेनवो अस्तु तस्मा अहं देवेभ्यो हविषा जुहोमि ॥४॥
यद्वः क्रूरं मनसो यच्च वाचो देवैनसाद् यदि वा पित्र्येण।
आपो इव दुःस्वप्न्यमप तत् स्वपध्वमथानन्दिनः सुमनसः समेत ॥५॥
अपामिव वेगः प्र शृणीत शत्रून् दिशोदिशो रभमाणाः समेत ।
एकव्रता वि धनं भजध्वं पुरोहितेन वो राष्ट्रं प्रथयन्तु देवाः ॥६॥
सम्यग्वो राष्ट्रं सह वो मनांसि समीचीनाः पशवो विश्वरूपाः। रुपाः
समीचीनानां वो अहमस्मि ब्रह्मा सम्यञ्चो देवा हवमा यन्तु म इमम् ॥७॥
यथाप: समुद्राय समीचीर्वहथ श्रियम् ।
एवा राष्ट्राय मे देवाः सम्यञ्चो वहत श्रियम् ॥८॥
संसृष्टं वो राष्ट्रं पशुभिर्गोभिरश्वै: संसृष्टमन्नेनेरया रसेन ।
मया ब्रह्मणा प्रथमानाश्वो वशीयांस: सदमुग्रा भवाथ ॥९॥
बहुर्युवा प्रमृणो धृष्णुरस्तु बहुः कुमारः प्रतिरूपः पितॄणाम्।
सत्यं वदन्तः समितिं चरन्तो मित्रं गृह्णाना जनसो यन्तु सख्यम् ॥१०॥
इह क्षत्रं द्युम्नमुत राष्ट्रं समैत्विहेद्रियं पशुभिः संविदानम् ।
अवधुन्वाना अप्रियान् यांश्च द्विष्म इदं राष्ट्रं प्रथतां सर्वदैव ॥११॥
इदं राष्ट्रमिषुमद्वीरवज्जिष्णूग्रमिदं राष्ट्रं पशुमद् ब्रह्मवृद्धम् ।
इदं राष्ट्रं हतशत्रु जिष्णु ॥१२॥
सपत्नसाहं प्रमृणमिदं राष्ट्रं दृढमुग्रम् ।
साढ़ामित्रमभिमातिषाहं सर्वा जिगाय पृतना अभिष्टि ॥१३॥


औदुम्बरेण मणिना पुष्टिकामाय वेधसा । तु. शौ.सं. १३१
पशूनां सर्वेषां स्फातिं गोष्ठे मे सविता करत् ॥१॥
यो नोऽग्निर्गार्हपत्यः पशूनामधिपा असत् ।
औदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या ॥२॥
करीषिणीं फलवतीं स्वधामिरां च नो गृहे।
औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ॥३॥
यद् द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसा: ।
गृह्णे ऽहं तेषां भूमानं बिभ्रदौदुम्बरं मणिम् ॥४॥
पुष्टिं पशूनां परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्यम्।
पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नियच्छात् ॥५॥
अहं पशूनामधिपा असानि मयि पुष्टं पुष्टिपतिर्दधातु । पुष्ट
महामौदुम्बरो मणिर्द्रविणानि नि यच्छतु ॥६॥
उप मौदुम्बरो मणिः प्रजया च धनेन च ।
इन्द्रेण जिन्वतो मणिरा मागन् सह वर्चसा ॥७॥
देवो मणिः सपत्नहा धनसा धनसातये ।
पशोरन्नस्य भूमानं गवां स्फातिं नि यच्छतु ॥८॥
यथाग्रे त्वं वनस्पते पुष्ट्या सह जज्ञिषे ।
एवा धनस्य मे स्फातिमा दधातु सरस्वती ॥९॥
आा मे धनं सरस्वती पयस्फातिं च धान्यम् ।
सिनीवाल्युता वहादयं चौदुम्बरो मणिः ॥१०॥
त्वं मणीनामधिपा वृषासि त्वयि पुष्टं पुष्टिपतिर्जजान । पुष्ट
त्वयीमे वाजा द्रविणानि सर्वौदुम्बर स त्वमस्मत् सहस्वारादरातिममतिं क्षुधं च ॥११॥
ग्रामणीरसि ग्रामणीरुत्थाया अभिषिक्तो अभि मा सिञ्च वर्चसा । ग्रामनीथ्याया
तेजो ऽसि तेज मयि धारयाधि रयिरसि रयिं मयि धेहि ॥१२॥
पुष्टिरसि पुष्ट्या मा समङ्धि गृहमेधी गृहपतिं मा कृणु ।
औदुम्बर स त्वमस्मासु रयिं सर्ववीरं नि यच्छ
रायस्पोषाय प्रति मुञ्चे अहं त्वाम् ॥१३॥
अयमौदुम्बरो मणिर्वीरो वीराय बध्यते ।
स नः सनीं मधुमतीं कृणोतु
रयिं च नः सर्ववीरं नियच्छात् ॥१४॥
(इति त्रयोदशर्चोनामदशमकाण्डे प्रथमो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP