अग्निर्नो विद्वान् प्रत्येतु शत्रून् प्रतिदहन्नभिशस्तिमरातिम् ।
स सेनां मोहयतु परेषां निहस्तांश्च कृणवज्जातवेदा: ॥१॥
यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृडत सहध्वम् ।
अमीमृडन् वसवो नाथितेभ्यो ऽग्निर्ह्येषां विद्वान् प्रत्येतु शत्रून् ॥२॥
अमित्रसेनां मघवन्नस्माञ्छत्रूयतामभि ।
युवं तानिन्द्र वृत्रहन्नग्निश्च दहतं प्रति ॥३॥
प्रसूत इन्द्रः प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून् ।
जहि प्रतीचो अनूचः पराचो विश्वं हि रिष्टं कृणुहि सत्यमेषाम् ॥४॥
सेनामोहनं कृण्विन्द्रामित्रेभ्यस्त्वम् ।
अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥५॥
इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा ।
चक्षूंष्यग्निरा दत्तां पुनरेतु पराजिताम् ॥६॥


एकशतं विष्कन्धानि विष्ठिता पृथिवीमनु ।
तेषान्तु सर्वेषामिदमस्तु विष्कन्धदूषणम् ॥१॥
कर्षफस्य विषफस्य द्यौष्पिता पृथिवी माता ।
यताभिचक्र देवास्तथापि कृणुता पुन: ॥२॥
अश्लेष्माणो ऽधारयन् तथा तन् मनुना कृतम् ।
कृष्णोमि वध्रि विष्कन्धं मुष्काबर्हो गवामिव ॥३॥
सूत्रे पिशङ्गे खृगलं यदाबध्नन्ति वेधसः ।
श्रवस्यं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः ॥४॥
येना श्रवस्यो चरथ देवा इवासुरमायया ।
शुनां कपिरिव दूषणो बन्धुरा काबवस्य च ॥५॥
दुष्ट्यै हि त्वा भन्त्स्यामि दूषयित्वा काबवम् ।
उदाशवो रथा इव शपथेभिः सरिष्यथ ॥६॥


यमस्य लोकादध्या बभूविथ प्रमदा मर्तान् प्र युनक्षुधीरः ।
एकाकिना सरथं यासि विद्वान् स्वप्न मिमानो असुरस्य योनौ ॥१॥
बम्बस्त्वाग्रे विश्ववयावपश्यत् पुरा रात्र्या जनितोरेके अह्नि ।
ततः स्वप्नेदमध्या बभूविथ विष्वङ्वरूपमपगूहमानः ॥२॥
बृहन् ग्रावासुरेभ्यो ऽधि देवानुपाववर्त महिमानमिच्छन् ।
तस्मै स्वप्नाय दधुराधिपत्यं त्रयस्त्रिंशास: स्वरानशानाः ॥३॥
नैतां विदुः पितरो नोत देवा यैषा जल्पिश्चरत्यन्तरेदम्।
त्रिते स्वप्नमदधुराप्त्ये नर आदित्यासो वरुणेनानुशिष्टाः ॥४॥
व्यस्य क्रूरमभि यन्तु दुष्कृतोस्वप्नेन सुकृतः पुण्यमायुः ।
स्वर्मदसि परमेण बन्धुना तप्यमानस्य मनसोधि जज्ञिषे ॥५॥
विद्म ते सर्वाः परिजाः पुरस्ताद् विद्म स्वप्न यो अधिपा इहो ते ।
यशस्विनो नो यशसेह पाह्याराद् द्विषेभिरप याहि दूरम् ॥६॥


अम्बाः सुमुखाः सृजत पद्वत् सृजत सत्यज्ञेयम् ।
सूजाम्यहं दूतानस्मै विषाय हन्तवे ।
वारुग्रमरसं विषमाहेयमरसं विषं निर्विषम् ॥१॥
इन्द्रमहमिह हुवे सोमपामुभयाविनमस्मै विषाय हन्तवे ।
वारुग्रमरसं विषमाहेयमरसं विषं निर्विषम् ॥२॥
वरुणमहमिह हुव उग्रं राजन्यैः सहास्मै विषाय हन्तवे ।
वारुग्रमरस विषमाहेयमरसं विषं निर्विषम् ॥३॥
अदितिमहमिह हुवे सूरपुत्रां कनीनिकामस्मै विषाय हन्तवे।
वारुग्रमरसं विषमाहेयमरसं विषं निर्विषम् ॥४॥
बृहस्पतिमहमिह हुवे यो देवानां पुरोहितो ऽस्मै विषाय हन्तवे।
वारुग्रमरसं विषमाहेयमरसं विषं निर्विषम् ॥५॥
आणाश्चाणाश्चाण्डामर्का अस्मै विषाय हन्तवे ।
वारुग्रमरसं विषमाहेयमरसं विषं निर्विषम् ॥६॥
नवानां नवतीनां विषस्य रोपुषीणाम् ।
सर्वासामग्रभं नाम वीतापेतारसं विषम् ॥७॥
१०
मृत्युरेको यम एकः शर्व एक: शरुर्भवः ।
ते नः कृण्वन्तु भेषजं देवसेनाभ्यस्परि ॥१॥
पुनर्नो यम: पितृभिर्ददातु पुनर्मित्रावरुणा वातो अग्निः ।
अघमारो अघशंस: पुनर्दात् पुनर्नो देवी निर्ऋतिर्ददातु ॥२॥
या देवैः प्रहितेषुः पतात्तपसे वा महसे वावसृष्टा ।
सोमस्त्चामस्मद् यावयतु विद्वान् पितरो वा देवहूता नृचक्षसः ॥३॥
सहस्राक्षो अमर्त्यः पुरुरूप इहावतु ।
सख्ये त उग्र मा रिषं सहगुः सहपूरुषः ॥४॥
यस्ते मन्युः सहस्राक्ष विषेण परिषिच्यते ।
तेन त्वमस्मभ्यं मृड़ शिवो नः शम्भुरा चर ॥५॥
मा ते मन्यौ सहस्राक्ष भामे भून्मामकं जगत् ।
यो नो द्वेष्टि तं गच्छ यं द्विष्मस्तं जहि ॥६॥
(इति षडृचोनामतृतीयकाण्डे द्वितीयोऽनुवाक:)

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP