संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|ब्रह्मसूत्राणि|द्वितीयोऽध्यायः| चतुर्थः पादः द्वितीयोऽध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थः पादः द्वितीयोध्यायः - चतुर्थः पादः ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत. Tags : badarayanbrahma sutraniबादरायणब्रह्म सूत्राणि चतुर्थः पादः Translation - भाषांतर तथा प्राणाः ॥१॥गौण्यसम्भवात् ॥२॥प्रतिज्ञानुपरोधाच्च ॥३॥तत्प्राक्श्रुतेश्च ॥४॥तत्पूर्वकत्वाद्वाचः ॥५॥सप्त गतेर्विशेषितत्वाच्च ॥६॥हस्तादयस्तु स्थितेऽतो नैवम् ॥७॥अणवश्च ॥८॥श्रेष्ठश्च ॥९॥न वायुक्रिये पृथगुपदेशात् ॥१०॥चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥११॥अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥१२॥पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥१३॥अणुश्च ॥१४॥ज्योतिराद्यधिष्ठानं तु तदामननात् ॥१५॥प्राणवता शब्दात् ॥१६॥तस्य च नितयत्वात् ॥१७॥त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥१८॥भेदश्रुतेः ॥१९॥वैलक्षण्याच्च ॥२०॥संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥२१॥मांसादि भौमं यथाशब्दमितरयोश्च ॥२२॥वैशेष्यात्तु तद्वादस्तद्वादः ॥२३॥इति ब्रह्मसूत्रेषुद्वितीयाध्यायस्य चतुर्थः पादः समाप्तः॥ इति द्वितीयोऽध्यायः॥ N/A References : N/A Last Updated : March 16, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP