सूत्रस्थानम् - त्रयोदशोऽध्यायः
हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.
अथातो दोषोपक्रमणीयमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
वातस्योपक्रमः स्नेहः स्वेदः संशोधनं मृदु
स्वाद्वम्ललवणोष्णानि भोज्यान्यभ्यङ्गमर्दनम् ॥१॥
वेष्टनं त्रासनं सेको मद्यं पैष्टिकगौडिकम्
स्निग्धोष्णा बस्तयो बस्तिनियमः सुखशीलता ॥२॥
दीपनैः पाचनैः सिद्धाः स्नेहाश्चानेकयोनयः
विशेषान्मेद्यपिशितरसतैलानु वासनम् ॥३॥
पित्तस्य सर्पिषः पानं स्वादुशीतैर्विरेचनम्
स्वादुतिक्तकषायाणि भोजनान्यौषधानि च ॥४॥
सुगन्धिशीतहृद्यानां गन्धानामुपसेवनम्
कण्ठेगुणानां हाराणां मणीनामुरसा धृतिः ॥५॥
कर्पूरचन्दनोशीरैरनुलेपः क्षणे क्षणे
प्रदोषश्चन्द्र माः सौधं हारि गीतं हिमोऽनिलः ॥६॥
अयन्त्रणसुखं मित्रं पुत्रः सन्दिग्धमुग्धवाक्
छन्दानुवर्तिनो दाराः प्रियाः शीलविभूषिताः ॥७॥
शीताम्बुधारागर्भाणि गृहाण्युद्यानदीर्घिकाः
सुतीर्थविपुलस्वच्छ सलिलाशयसैकते ॥८॥
साम्भोजजलतीरान्ते कायमाने द्रुमाकुले
सौम्या भावाः पयः सर्पिर्विरेकश्च विशेषतः ॥९॥
श्लेष्मणो विधिना युक्तं तीक्ष्णं वमनरेचनम्
अन्नं रूक्षाल्पतीक्ष्णोष्णं कटुतिक्तकषायकम् ॥१०॥
दीर्घकालस्थितं मद्यं रतिप्रीतिः प्रजागरः
अनेकरूपो व्यायामश्चिन्ता रूक्षं विमर्दनम् ॥११॥
विशेषाद्वमनं यूषः क्षौद्रं मेदोघ्नमौषधम्
धूमोपवासगण्डूषा निःसुखत्वं सुखाय च ॥१२॥
उपक्रमः पृथग्दोषान् योऽयमुद्दिश्य कीर्तितः
संसर्गसन्निपातेषु तं यथास्वं विकल्पयेत् ॥१३॥
ग्रैष्मः प्रायो मरुत्पित्ते वासन्तः कफमारुते
मरुतो योगवाहित्वात् कफपित्ते तु शारदः ॥१४॥
चय एव जयेद्दोषं कुपितं त्वविरोधयन्
सर्वकोपे बलीयांसं शेषदोषाविरोधतः ॥१५॥
प्रयोगः शमयेद्व्याधिमेकं योऽन्यमुदीरयेत्
नाऽसौ विशुद्धः शुद्धस्तु समयेद्यो न कोपयेत् ॥१६॥
व्यायामादूष्मणस्तैक्ष्ण्यादहिता चरणादपि
कोष्ठाच्छाखास्थिमर्माणि द्रुतत्वान्मारुतस्य च ॥१७॥
दोषा यान्ति तथा तेभ्यः स्रोतोमुखविशोधनात्
वृद्ध्याऽभिष्यन्दनात्पाकात्कोष्ठं वायोश्च निग्रहात् ॥१८॥
तत्रस्थाश्च विलम्बेरन् भूयो हेतुप्रतीक्षिणः
ते कालादिबलं लब्ध्वा कुप्यन्त्यन्याश्रयेष्वपि ॥१९॥
तत्रान्यस्थानसंस्थेषु तदीयामबलेषु तु
कुर्याच्चिकित्साम् स्वामेव बलेनान्याभिभाविषु ॥२०॥
आगन्तुं शमयेद्दोषं स्थानिनं प्रतिकृत्य वा
प्रायस्तिर्यग्गता दोषाः क्लेशयन्त्यातुरांश्चिरम् ॥२१॥
कुर्यान्न तेषु त्वरया देहाग्निबलवित् क्रियाम्
शमयेत्तान् प्रयोगेण सुखं वा कोष्ठमानयेत् ॥२२॥
ज्ञात्वा कोष्ठप्रपन्नांश्च यथासन्नं विनिर्हरेत्
स्रोतोरोधबलभ्रंशगौरवा निलमूढताः ॥२३॥
आलस्यापक्तिनिष्ठीवमलसङ्गा रुचिक्लमाः
लिङ्गं मलानां सामानां निरामाणां विपर्ययः ॥२४॥
ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्
दुष्टमामाशयगतं रसमामं प्रचक्षते ॥२५॥
अन्ये दोषेभ्य एवातिदुष्टेभ्योऽन्योन्यमूर्च्छनात्
कोद्र वेभ्यो विषस्येव वदन्त्यामस्य सम्भवम् ॥२६॥
आमेन तेन सम्पृक्ता दोषा दूष्याश्च दूषिताः
सामा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः ॥२७॥
सर्वदेहप्रविसृतान् सामान् दोषान् न निर्हरेत्
लीनान् धातुष्वनुत्क्लिष्टान् फलादामाद्र सानिव ॥२८॥
आश्रयस्य हि नाशाय ते स्युर्दुर्निर्हरत्वतः
पाचनैर्दीपनैः स्नेहैस्तान् स्वेदैश्च परिष्कृतान् ॥२९॥
शोधयेच्छोधनैः काले यथासन्नं यथाबलम्
हन्त्याशु युक्तं वक्त्रेण द्र व्यमामाशयान्मलान् ॥३०॥
घ्राणेन चोर्ध्वजत्रूत्थान्पक्वाधानाद्गुदेन च
उत्क्लिष्टानध ऊर्ध्वं वा न चामान् वहतः स्वयम् ॥३१॥
धारयेदौषधैर्दोषान् विधृतास्ते हि रोगदाः
प्रवृत्तान् प्रागतो दोषानुपेक्षेत हिताशिनः ॥३२॥
विबद्धान् पाचनैस्तैस्तैः पाचयेन्निर्हरेत वा
श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात् ॥३३॥
ग्रीष्मवर्षाहिमचितान् वाय्वादीनाशु निर्हरेत
अत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमाः ॥३४॥
सन्धौ साधारणे तेषां दुष्टान् दोषान् विशोधयेत्
स्वस्थवृत्तमभिप्रेत्य व्याधौ व्याधिवशेन तु ॥३५॥
कृत्वा शीतोष्णवृष्टीनां प्रतीकारं यथायथम्
प्रयोजयेत्क्रियां प्राप्तां क्रियाकालं न हापयेत् ॥३६॥
युञ्ज्यादनन्नमन्नादौ मध्येऽन्ते कवलान्तरे
ग्रासे ग्रासे मुहुः सान्नं सामुद्गं निशि चौषधम् ॥३७॥
कफोद्रे के गदेऽनन्नं बलिनो रोगरोगिणोः
अन्नादौ विगुणेऽपाने समाने मध्य इष्यते ॥३८॥
व्यानेऽन्ते प्रातराशस्य सायमाशस्य तूत्तरे
ग्रासग्रासान्तयोः प्राणे प्रदुष्टे मातरिश्वनि ॥३९॥
मुहुर्मुहुर्विषच्छर्दिहिध्मातृट श्वासकासिषु
योज्यं सभोज्यं भैषज्यं भोज्यैश्चित्रैररोचके ॥४०॥
कम्पाक्षेपकहिध्मासु सामुद्गं लघुभोजिनाम्
ऊर्ध्वजत्रुविकारेषु स्वप्नकाले प्रशस्यते ॥४१॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने दोषोपक्रमणीयोनाम त्रयोदशोऽध्यायः ॥१३॥
N/A
References : N/A
Last Updated : March 15, 2021
TOP