संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|शार्ङ्गधर संहिता| प्रथमं परिशिष्टम् शार्ङ्गधर संहिता पूर्वखण्डम् मध्यखण्डम् उत्तरखण्डम् प्रथमं परिशिष्टम् द्वितीयं परिशिष्टम् शार्ङ्गधरसंहिता - प्रथमं परिशिष्टम् संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत. Tags : Ayurvedsamhitasanskritsharangdhar samhitaआयुर्वेदशार्ङ्गधर संहितासंस्कृतसंहिता प्रथमं परिशिष्टम् Translation - भाषांतर अथ यकृद्रोगाधिकारः १यकृत्स्थानम्अधो दक्षिणतो ज्ञेया हृदयाद् यकृतः स्थितिःतत्रत्यरोगाणां दुःखप्राचुर्यम्व्याधयो बहवस्तत्र भवेयुर्भूरि दुःखदाःतन्म्लाने रोगी लक्षणम्म्लाने तस्मिन् पुरीषस्याप्रवृत्तिः स्वल्पपित्ततापाण्डुत्वं कर्दमाभत्वञ्चोदन्याविलमूत्रताउद्गारसदनाध्मानच्छर्दनोत्क्लेशनान्यपिप्रातस्तिक्तास्यता नाड्याः काठिन्यं वह्निमन्दतादेहस्य च मृदाभत्वं रसना मलसंयुतालिङ्गान्येतानि जायन्ते तत्राप्याकृष्टिवद् व्यथायकृद्वृद्धौ रोगिलक्षणम्गते यकृति संवृद्धिं वेदना तत्र जायतेउरोऽस्थ्नि दक्षिणे स्कन्धे सक्थ्नि चाप्यपसव्यगेदक्षिणस्य भवेज्जाड्यं बाहोस्तिक्तरसास्यताविवर्णत्वं पुरीषस्य कासो लोहितमूत्रताअरतिर्बलहानिश्च ज्वरो बद्धाल्पविट्कतापीताक्षत्वं च पार्श्वेन शेते सव्येन चातुरःतोदभेदौ तथा दाहः कामलाऽप्यस्य जायतेनिद्रा नाशस्तृषाशोथस्तथा सत्त्वस्य संक्षयःयकृद्विद्र धेर्दुःसाध्यताविद्र धिर्यकृति स्याच्च प्रायेण प्राणनाशनःतेन भाग्यबलात् कोऽपि जन्तुष्वेकः प्रमुच्यतेयकृद्रो गनिदानम्मद्यातिपानादत्युष्णगुर्वन्नस्य निषेवणात्वेगरोधाद्दिवास्वप्नान्निशि चापि प्रजागरात्अतिव्यवायभाराध्वसेवनादभिघाततःतथाऽन्यै कर्मभिर्घोरैर्यकृद्रो गा भवन्ति हिचिकित्साप्लीहोद्दिष्टाः क्रियाः सर्वा यकृद्रो गे समाचरेत्प्रातर्मूत्रेण संस्वेदः प्लीहवत् तत्र चेष्यतेक्षारं विडङ्गकृष्णाभ्यां पूतिकस्याम्बुनिःसृतम्पिबेत् प्रातर्यथावह्नि यकृत्प्लीहप्रशान्तयेजलौकाभिर्ह रेद्र क्तं क्षारं वा तत्र पातयेत्शिग्रुत्वग्राजिकाचूर्णैर्लेपस्तत्र च युज्यतेतोयेन प्रस्थमानेन महाद्रा वककर्षकम्मेलयित्वाऽथ तत्स्थानमूर्वङ्घ्र्याद्यञ्च मर्दयेत्पीतमूल्यभयाधात्रीद्रा क्षारग्वधसिन्धुजैःरेचयेद्र सचूर्णेन तैलेनैरण्डजेन वायकृद्विद्र धिचिकित्साविद्र धिं यकृति ज्ञात्वा हिक्काश्वासव्यथादिभिःशस्त्रं त्रिकूर्चकं तत्र प्रयुञ्ज्याच्छस्त्रकोविदःपाययित्वा सुरां पूर्वं बलसत्त्वोपयोगिनीम्अग्रोपहरणीयोक्तं समाहृत्य जलादिकम्सत्येनाप्यनृतेनापि वचसाश्वास्य चातुरम्ईश्वरं मनसा ध्यात्वा सर्वापद्विनिवारणम्क्षिप्रहस्तो बली धीरः स्थिरचित्तो विचक्षणःबहुशो दृष्टकर्मा च कृतकर्माऽभयो भिषक्शस्त्रं शस्त्रगुणोपेतं परिगृह्य त्रिकूर्चकम्सवेदनं शोथयुतं भित्त्वा चर्म सलोहितम्अन्तः प्रवेशयेदाशु विद्र धिर्भिद्यते यथाबहिर्नयेत्ततः शस्त्रं तस्य नाडिकया विनाअवधानेन तत्कार्य्यं नानिलोऽन्तर्यथा विशेत्ततो जलाभिषेकाद्यैः शस्त्रपातव्यथाकुलम्समाश्वास्यापसव्येन पार्श्वेन शाययेत्तु तत्सक्षीरमतसीकल्कं साज्यं तत्र च लेपयेत्अहिफेनासवं सम्यङ्मात्रया परियोजयेत्क्षीरं मांसरसञ्चैव पाययेद्बलसाधनम्ततो मासद्वयं यावदातुरः प्राप्तजीवितःसुखं तिष्ठेत् त्यजेच्छ्रान्तिं भुञ्जीत लघु पोषणम्विद्र धिं महतीं प्राज्ञः शस्त्रमुत्पलपत्रकम्युञ्ज्यान्नोपक्रमेज्जन्तुं सञ्जातानेकविद्र धिम्========अथ हृद्रो गाधिकारः २आवरणिकादि हृद्रो गाणां लक्षणानिआवरणिकःआमवाताद् वृक्कदोषात् शीतार्द्र त्वनिषेवणात्हृत्कोष्ठावरणी क्षिप्रं पीड्यते अकृतात्मनःतत्र दाहोष्णताशोफा गौरवं महती व्यथाकोष्ठसंवेपनं कासो दौर्बल्यं श्वासकृच्छ्रतानासामार्गेण रक्तस्य स्रुतिर्वह्नेश्च मन्दताशाखासु शोफा धमनी भवेद्विषमगामिनीनाम्नावरणिको ह्येष व्याधिर्विद्वद्भिरुच्यतेजातमात्रश्चिकित्स्योऽय नैवोपेक्ष्यः कदाचनकौष्ठिकःआमवातादभीघातात्तथावरणिकाद् गदात्हृत्कोष्ठे जायते शोथो गद एष हि कौष्ठिकःज्वरो दाहोऽरुचिः कम्पो वैवर्ण्यं वह्निसंक्षयःश्वासः कासा राजयक्ष्मा कोष्ठे पूयस्य सञ्चयःमूर्च्छाक्षेपः प्रलापश्च नाडी विषमवाहिनीगदाद् घोरतरादस्माद् भाग्यात् कोऽपि प्रमुच्यतेपृथुकःशोणितस्य गतौ कोष्ठे व्याहतायामनात्मनःतत्पेशी पृथुतां याति मिथ्याहारविहारतःहृद्वेपथुर्व्यथा तत्र दौर्बल्यं श्वासकृच्छ्रताअरतिर्भ्रममोहौ च चिह्नानि पृथुके गदेआयामिकाहृत्कोष्ठे प्रसृतिर्नाम्ना व्याधिरायामिका मताश्वासः शोथोः भ्रमो मूर्च्छा हृत्कम्पो वह्निमन्दताजलोदरमनिद्र त्वं बलमांसपरिक्षयःएभिरन्यैश्च विज्ञेयश्चिह्नैरायामिका गदःपरिक्षयःक्षयात् सञ्जायते घोरो व्याधिर्नाम्ना परिक्षयःकोष्ठपेश्याः क्षयः श्वासो दौर्बल्यं सदनं भ्रमःहृद्वेपथुर्वह्निमान्द्यं क्रमाच्छोफश्च जायतेएतैरन्यैश्च विज्ञेयश्चिह्नैर्व्याधिः परिक्षयःमेदः सूत्रम्हृत्कोष्ठपेशी सूत्रेषु मेदःकणचयो गदःमेदः सूत्राख्यया प्रोक्तो मुनिभिस्तत्त्ववेदिभिःमन्दं मन्दं व्रजेन्नाडी भवेद्धृदयवेपथुःअवसादो भ्रमो मूर्च्छा स्नायूनां बलसंक्षयःहृद्वृत्तेर्वाऽपि सम्भेदान्मृत्युश्च सहसा भवेत्जातमात्रश्चिकित्स्योऽय व्याधिः परमदारुणःविक्षेपिकाहृत्कोष्ठाक्षेपको व्याधिर्नाम्ना विक्षेपिका मताजातेऽस्मिन् महति व्याधौ कोष्ठदेशेऽप्युरोऽस्थ्यधःसव्यांसास्थ्नि सव्यबाहौ ग्रीवायां पृष्ठदेशतःवेदना जायते तीव्रा मर्मप्राणप्रपीडिनीतोदभेदौ समाकर्षो दाहस्तत्र च जायतेमुहुर्मुहुः श्वासरोधः शीता त्वक् स्वेदनिर्गमःआध्मानानाहमोहाश्च वैवर्ण्यं कृशताऽरुचिःक्रमादिन्द्रि यविध्वंसो मरणं चाप्यनात्मनःहृद्रो गचिकित्साघृतेन दुग्धेन गुडाम्भसा वा पिबन्ति चूर्णं ककुभत्वचो येहृद्रो गजीर्णज्वररक्तपित्तं हत्वा भवेयुश्चिरजीविनस्तेहरीतकीवचारास्नापिप्पलीनागरोद्भवम्शटीपुष्करमूलोत्थं चूर्णं हृद्रो गनाशनम्पुटदग्धं हरिणशृङ्गं पिष्टं गव्येन सर्पिषा पिबतःहृत्पृष्ठशूलमचिरादुपैति शान्तिं सुकष्टमपितिलाज्यगुडविपक्वं चूर्णं गोधूमपार्थोत्थम्पिबति पयोभुक् स भवति जितसकलहृदामयः पुरुषःपिप्पल्यादिचूर्णम्पिप्पल्येला वचा हिङ्गु यवक्षारोऽथ सैन्धवम्सौवर्चलमथो शुण्ठी अजमोदेति चूर्णितम्दध्ना मद्येनासवेन काञ्जिकेन घृतेन वापाययेच्छुद्धदेहं हि वातिके हृदयामयेशीताः प्रदेहाः परिषेचनानि तथा विरेको हृदि पित्तदुष्टेद्रा क्षासिताक्षौद्र परूषकैः स्याच्छुद्धे च पित्तावहमन्नपानम्पिष्ट्वा पिबेद् वाऽपि सिता जलेन यष्ट्याह्वयं तिक्तकरोहिणीञ्चवचानिम्बकषायाभ्यां वान्तं हृदि कफोत्थितेवातहृद्रो गहृच्चूर्णं पिप्पल्याद्यं प्रपाययेत्त्रिदोषजे लङ्घनमादितः स्यादन्नञ्च सर्वेषु हितं विधेयम्हीनातिमध्यत्वमपेक्ष्य चैव कार्य्यं त्रयाणामपि कर्म शस्तम्हिङ्गूग्रगन्धाविडविश्वकृष्णाकुष्ठाभयाचित्रकयावशूकम्पिबेत् ससौवर्चलपुष्कराढ्यं यवाम्भसा शूलहृदामयघ्नम्पाठां वचां यवक्षारमभयामम्लवेतसम्दुरालभां चित्रकञ्च त्र्! यूषणञ्च बलात्रयम्शटीं पुष्करमूलञ्च तिन्तिडीकं सदाडिमम्मातुलुङ्गस्य मूलानि श्लक्ष्णचूर्णानि कारयेत्सुखोदकेन मद्यैर्वा प्लुतान्येतानि पाययेत्अर्शः शूलञ्च हृद्रो गं गुल्मञ्चाशु नियच्छतिक्रिमिजे च पिबेन्मूत्रं विडङ्गामयसंयुतम्हृदि स्थिताः पतन्त्येवमधस्तात् क्रिमयो नृणाम्यवान्नं वितरेच्चास्मै सविडङ्गमतः परम्==========अथोरस्तोयाधिकारः ३सम्प्राप्तिःउरस्येकतरे पार्श्वे पार्श्वयोर्वाऽप्यपां चयःउरस्तोयं गदो नाम प्रायशः प्राणनाशनःलक्षणम्कृच्छ्राच्छ्वासः कफस्रावो नीलावोष्ठौ तथा मुखम्शोथः पादे धरा क्षुद्रा विषमा वेगवाहिनीमूत्राल्पत्वं भवेच्चापि स ना न शयनक्षमःस्वास्थ्यं किञ्चित् समासीनो लभतेऽस्मिन् महागदेग्रन्थान्तरे उरस्तोयनिदानम्श्वासोऽतिकृच्छ्रः कफसंस्रवश्च नीलौ तथोष्ठौ वदनेक्षणं चअस्वेदनञ्चाल्पपुरीषमूत्रे श्वासेन दीनः शयने न शक्तःमन्देन्द्रि यो मन्दबलाग्नि कान्तिः क्षीणाऽतिनाडी द्रुतगामिनी चहृदि व्यथा पादयुगे च शोथो लिङ्गान्यमून्यत्र भवन्ति रोगेचिकित्साभेषजं श्लेष्महरणं मूत्रस्यापि प्रवर्त्तनम्उरस्तोये गदे योज्यं विविच्य भिषजा सदापिपासानिग्रहः कार्यः शीताम्भोऽनलसेवनम्यत्नतः परिहर्त्तव्यमभिष्यन्द्यखिलं तथापादावशिष्टं यत्तोयं तत् तृषायां पिबेन्मनाक्पयसा वा शृतोष्णेन शान्तिं कुर्यात् सदा तृषःवर्षाभूस्वरसं वाऽपि यवक्षारसमायुतम्पिबेन्नित्यमुरस्तोयी सायं प्रातरतन्द्रि तःश्वयथौ मूत्रकृच्छ्रे च कासे श्वासे हृदामयेभेषजं गदितं यद्यत् तत् तदत्र प्रयोजयेत्नैवं व्याधिः शमं यायान्निखिलैर्यदि कर्मभिःकुर्य्याच्छस्त्रक्रियां तर्हि लघुहस्तो भिषग्वरःसमुद्र वस्वोर्मध्ये वा महीध्रग्रहयोरथपर्शुकास्थ्नोर्ग्रहदिशा शस्त्रं नाम त्रिकूर्चकम्प्रवेश्यावहितो रक्षन् यकृत्प्लीहानमेव चनिःशेषं निर्ह रेदम्बु व्याधिरेवं प्रशाम्यति==========अथौपसर्गिकोपदंशाधिकारः ४तस्य निदानलक्षणादीनिबहुसङ्करसेवाभ्यां सञ्जातो जननेन्द्रि येव्रणः कष्टतरो घोरो नानारोगप्रकाशकःविषोपदंशः पापोपदंशः इत्येवमीरितःस एव हि बुधैः पूर्वैः कथितश्चौपसर्गिकःव्याधिः स्रंकमति स्त्रीतः पुंसि तस्यां ततस्तथाअपत्येषु च जायेत कुलजोऽसौ सुदारुणःउपदंशो द्विधा प्रोक्तो मुख्यगौणप्रभेदतःइन्द्रि यस्यादिमो दोषो मुख्योऽन्यो दाहिकस्तथाआरभ्य च क्रियाकालं सप्ताहत्रयमध्यतःव्रणो विषोपदंशस्य जायते जननेन्द्रि येभवेद् दीर्घतरं कालं यावन्तं समतीत्य यःतथा कृच्छ्रतरः स स्याद् बहुदुःखप्रदायकःद्विधा पापोपदंशस्य व्रणः स्यात् कठिनो मृदुःआद्यः संक्रामकः कृच्छ्रः सर्वदेहप्रतापनःअपरो न च संक्रामेत् कञ्चिद्देहं न दूषयेत्एष साध्यतरः प्रोक्तो न च कष्टो यथादिमःपुंसो मेढ्रस्य मुण्डे च चर्मण्यावरके तथाभगद्वारे भगोष्ठे च जायन्ते पिडकाः स्त्रियाःसमन्तात् कठिनास्तास्तु विदीर्णा रसवाहिकाःदृढमूला मध्यनिम्ना ज्वरब्रध्नादिदायिकाःमुख्योपदंश इत्यस्मिन् शान्तेऽपि पुनरेव हिविकृतिं विविधां कुर्य्यात् तद्विषं देहसंस्थितम्गौणोपदंशःत्वग्विकाराक्षिरोगौ च केशलोम्नाञ्च संक्षयःग्रन्थिपीनसकुष्ठानि गौणोपदंशलक्षणम्त्वग्विकारादयो गौणोपदंशेन लक्ष्यन्तेविषोपदंशःविषं पापोपदंशस्य श्लेष्मग्रन्थिषु संसृतम्ब्रध्नरोगं सञ्जनयेत् सज्वरं बहुदुःखदम्चिकित्सापिडिकामुपदंशस्य दहेत् क्षारनिपाततःव्याधिस्तेन शमं याति न कञ्चिद् व्यापदोऽपराःकर्षं शोधितसूतस्य काठिन्यास्तद्द्वयं तथायत्नतो मर्दयेत् तावद् यावत् सूतो न दृश्यतेअस्य गुञ्जाद्वयं खादेत् प्रत्यहं त्रिः पुटस्थितम्दन्तवेष्टव्यथायाञ्च लालास्रावे च तत् त्यजेत्रसचूर्णस्य कर्पूररसस्यापि निषेवणात्अनेन विधिनैवासौ गदो घोरः प्रशाम्यतिपलार्द्धप्रमितं चूर्णं तोये पञ्चशरावकेक्षिप्त्वा विलोड्य सम्यक् च चतुर्यामान्ततः परम्स्वच्छांशमूर्द्ध्वगञ्चास्य गृह्णीयादतियत्नतःइदं चूर्णोदकञ्चाम्लनाशनं व्रणमेहनुत्द्विपले चूर्णतोयेऽस्मिन् रसचूर्णस्य माषकम्क्षिप्त्वा सम्मिश्रयेत्तावद् यावत् कृष्णप्रभं जलम्कृष्णद्र वेण चानेन क्षालनं व्रणहृत् परम्उपदंशे विशेषेण शस्तमेतन्महौषधम्सार्धद्विपलमानेऽस्मिन् निःक्षिपेन्नवरक्तिकम्कर्पूररसमेतेन कृत्वा पीतद्र वौषधम्व्रणं पापोपदंशस्य क्षालयेत्तेन वारिणाएतच्च परमं प्रोक्तमौषधं हि बुधैरिहविद्र धौ या क्रिया प्रोक्ता ब्रध्नरोगेऽपि सा हितागौणोपदंशे विषमे पित्तघ्नञ्चास्रशोधनम्सरं भेषजमन्नञ्च पानञ्चापि निनिर्दिशेत्अनन्ताद्यं घृतम्अनन्तामलकीद्रा क्षाः काकोलीयुगलं वरीम्एलाद्वयं विदारीञ्च मधूकं मधुकं मुराम्त्रिफलां स्वर्णपर्णाञ्च बीजं गोक्षुरसम्भवम्दशमूलं तालमूलद्यं त्रिवृतामिन्द्र वारुणीम्नीलिनीं शूकशिम्ब्याश्च बीजं कर्षप्रमाणतःकल्कीकृत्य पचेत् प्रस्थे सर्पिषः सारिवाऽम्भसाघृतमेतदनन्ताद्यमुपदंशविनाशनम्रसायनं परं वृष्यमस्रदोषनिषूदनम्भेषजं कुष्ठशमनं वातरक्तहरं तथागौणे मुख्ये च संयोज्यमुपदंशे यथायथम्विशेषतः वर्ज्यम्पापप्रमेही वातास्त्री कुष्ठी पापोपदंशवान्न भजेदङ्गनां नापि तद्गदिन्यङ्गना नरम्============अथागन्तुजपक्षाघाताधिकारः ५पक्षाघातो द्विधा ज्ञेयो दोषागन्तुजभेदतःदोषजः कथितः पूर्वमधुनागन्तुजं शृणुआगन्तुजोऽपि द्विविधः पक्षाघातः प्रक्रीर्त्यतेआद्यः पारदसम्भूतो द्वितीयो नागजः स्मृतःपारदपक्षाघातस्य निदानम्रससंस्पर्शसातत्यात् तद्धर्मस्य च सेवनात्पक्षाघातो भवेद् यस्तु स ज्ञेयः पारदोद्भवःपारदपक्षाघातस्य लक्षणम्आदौ बाह्वोर्बलध्वंसस्ततः कम्पः प्रजायतेवेपेते सक्थिनी चापि कायः सर्वस्ततः परम्गदी चलति नृत्यन् वै दृढं द्र व्यं न धारयेत्स्पष्टं प्रभाषितुञ्चापि चर्वितुञ्च न च क्षमःततस्तस्यारतिर्निद्रा प्रलापो बलसंक्षयःहृल्लासो वह्निनाशश्च दन्तध्वंसः क्वचित् स्रुतिःशान्तिर्भवति कम्पस्य विधृतेऽङ्गेरसायनेनागामयस्य लिङ्गानि शृणूरभ्रां समासतःपारदपक्षाघातस्य चिकित्सामुख्यं चिकित्सितञ्चास्य निदानपरिवर्जनम्निदानसेविनो व्याधिर्नौषधाद् विनिवर्त्ततेस्वेदसञ्जननं सर्वं म्रूत्रकृच्च विरेचनम्रक्तदोषहरं चात्र शर्मदं भेषजं मतम्गन्धकं परमं प्राहुर्भेषजं पारदामयेनेपालनिम्बतोयेन सेव्यो लौहोऽस्य शान्तयेनागपक्षाघातस्य निदानम्चित्रकृत्प्रमुखा ये हि नागैः कर्म प्रकुर्वतेये वा व्यवहरन्त्यस्य पात्रं तेषां ततो गदःअस्य लक्षणम्अङ्गुलीस्तु समारभ्य मणिबन्धं ततोऽखिलम्व्याधिर्व्याप्नोति दौर्बल्यं तत्रैकं लक्षणं महत्अंसे प्रकोष्ठे तोदश्च बाह्वोश्च परिशीर्णतानीलिमा दन्तवेष्टेच शूलं चिह्नानि चास्य वैअस्य चिकित्सास्वेदनं भेदनञ्चापि कुष्ठंघ्नं यच्च भेषजम्तत्सर्वमिह संसेव्यं कृत्वा हेतुविवर्जनम्=============अथ गदोद्वेगाधिकारः ६गदोद्वेगस्य स्वरूपम्विना व्याधिं व्याधिशङ्का गदोद्वेग इतीरितःपदार्थत्वाभाववत्त्वादपदार्थगदश्च सःअपदार्थगदस्य गिदोद्वेगस्यइ! निदानम्कायेन मनसा भूयाञ्श्रमः शोको बलक्षयःनैराश्यं मानहानिश्च महोद्वेगो महाभयम्दुरदृष्टं बीजदोषः सत्त्वस्याभाव एव चअपदार्थगदस्यैते हेतवः कथिता बुधैःतस्य लक्षणम्अद्भुतस्य गदस्यास्य लक्षणान्यद्भुतानि चअसम्भाव्यान्यचिन्त्यानि महोत्पातभयानि चकोऽप्येवंमन्यते नूनमुदरं भुजगोऽविशत्कोष्ठेभ्रमत्यसौ नित्यं भुङ्क्ते यद् भुज्यते मयानिर्यास्यति पथा केन केनोपायेन नङ्क्ष्यतिकिं विधास्यति नो जाने दश्ये वाऽह दुरात्मनाकोऽपि वा मनुते भेको ममैको मूर्ध्नि संस्थितःविघट्टयति मस्तिष्कं मारयिष्यति मां ध्रुवम्कोऽपीत्थं चिन्तयेच्चित्रं कायः काचमयो ममसञ्जातोऽयमतो रक्ष्यः सदाघातात् प्रयत्नतःइत्येवं बहुरूपाभिर्व्यर्थचिन्ताभिराकुलःअपदार्थगदीशुष्येत् सदा भीतः सदाऽसुखीबहुधा बोधितोऽप्येष सान्त्वितोऽपि पुनः पुनःभ्रमं चित्ताद् दूरीकर्तुं न शक्नोति न साध्वसम्यश्चास्य कथयेद् भ्रान्तिं तस्मै द्र्ह्यति नित्यशःप्रीयते च गदोद्वेगी व्याधेः सत्यत्ववादिनिगदोद्वेगवता कोष्ठे किस्मंश्चिदनुभूयतेसुतीव्रा वेदना प्रायः पाककोष्ठे विशेषतःजिह्वा स्यात् कफलिप्ताऽस्य पूतिः श्वासो निरेति चउत्क्लेशश्च तथा वान्तिरित्थञ्च जीर्णलक्षणम्प्राखर्य्यं स्पर्शशक्तेश्च द्युतिमल्लोहितास्यताहृदयोदरकम्पश्च पाण्डुत्वमुदरामयःहृदि साङ्घातिको व्याधिः केन वाऽप्यनुभूयतेगदोद्वेगवताऽन्येन पुरुषत्वस्य संक्षयःज्वरः सततकोऽन्येन दुष्प्रतीकार्य्य एव चकिमाश्चर्य्यं वेपनाद्यं जायते च तदा तदाइत्थं बहुविधाकारा व्याधयः कल्पनाकृताःभ्रमरूपाः प्रजायन्ते निःसत्त्वानाममेधसाम्शक्यन्ते व्याधयो वक्तुं नैते निरवशेषतःबुद्धिमद्भिर्लक्षणीया यथास्वं दोषलक्ष्म चप्रायशः षोडशादर्वाङ् न च पञ्चाशतः परम्व्याधिरेष प्रदृश्येत हेतुस्तत्र मनोगतिःमासि मासि रजः स्रावात् सर्वे शुध्यन्ति धातवःअतः स्नायुगदः स्त्रीणामेष प्रायो न जायतेगदोद्वेगस्य चिकित्सासान्त्वनाश्वासनस्नेहहर्षणैः परिचर्य्ययाअपदार्थगदाक्रान्तं चिकित्सेत् तर्षणेन चपाचनं वह्निकृद् यच्च यद् वातस्यानुलोमनम्पित्तहृन्नातिकफकृत् तद् युञ्ज्यादत्र भेषजम्वातव्याध्युदितान्यत्र तैलानि च घृतानि चयुक्त्या युञ्ज्याद्भिषक् प्राज्ञो भेषजञ्च रसायनम्गदो मिथ्येति न वदेद्भिषगस्य कदाचनस यद् ब्रवीति वृत्तान्तं शृणुयादवधानवान्=============अथ शैशवसंन्यासाधिकारः ७शैशवसंन्यासस्य निदानं लक्षणञ्चदुष्टस्तन्यस्य पानाच्च सदा शीतगृहे स्थितेःवातातपविहीने वा दुष्टानिलविदूषितेपानाशनविहारैश्च दोषलैर्बहुभिः शिशुःसंन्यासाख्येन रोगेण पीड्यते क्रिमिभिस्तथाउत्तारनयनः स स्यादाक्षिप्ताङ्गस्त्वसंज्ञकःदारुवत् पतितो भूमौ दृढकायो मृतोपमःनाम्ना शैशवसंन्यासो गदोऽय शिशुपीडनःक्रिया सद्यःफला चात्र रेचनश्च हितं मतम्शैशवसंन्यासस्य चिकित्साव्याधौ शैशवसंन्यासे निदानानां निराकृतौविदध्यात् सर्वथा यत्नं कर्मदोषहरं तथाकुर्य्याच्च रुबुतैलेन रसचूर्णेन वा पुनःरेचनं शिशुसंन्यासे स्वेदस्तत्रोदरे हितःअरोगिण्याः शिशुं धात्र्! याः स्तन्यं शुद्धं प्रपाययेत्स्तन्यस्य शोधनं वाऽपि कुर्य्याद् यस्याः पिबेत् स तत्क्रिमिजे शिशुसंन्यासे क्रिमीणां हरणं हितम्कणामधुयुतं सूतं मूर्च्छायां प्राशयेद्भिषक्============अथ योषाऽपस्माराधिकारः ८योषाऽपस्मारस्य निदानम्शोणितस्य क्षयाद्वाऽपि तथाधिक्यादजीर्णतःकोष्ठरोधान्मनोभङ्गादत्युद्वेगाच्च शोकतःरजोऽभावाच्च योषाणां जरायुविकृतेस्तथाअशक्तेरपि नैष्ठुर्यात् पत्युरस्नेहतस्तथावैधव्यजन्यादाधेश्च योषाऽपस्मारसंज्ञकःगदः प्रजायते कृच्छ्रो मनोदेहप्रतापनःयोषितामेव बाहुल्याद् यत एष भवेद् गदःअपस्मारप्रकृतिकस्तेनास्यैषाऽभिधा मताकालोऽस्य यौवनं व्याधेर्नार्वाग् द्वादशवर्षतःपरं पञ्चाशतो वाऽपि व्याधिरेष प्रजायतेअस्य पूर्वरूपम्हृद्रुजा जृम्भणं सादो वर्ष्मणो मनसोऽपि चभवेद् भविष्यति गदे योषाऽपस्मारसंज्ञकेअस्य लक्षणम्वैचित्यं बुद्धिविभ्रान्तिर्हास्यं क्रन्दनमेव चउच्चैः क्रोशः प्रलपनं ज्योतिर्द्वेषस्तथा भ्रमःऔद्धत्यं श्वासकृच्छ्रञ्च कण्ठामाशयवेदनाप्राबल्यं स्पर्शशक्तेश्च क्वचिदङ्गे सदा व्यथाअलीकवर्त्तुलोत्थानमाकण्ठमुदरादपिसदल्पबुद्धिर्मूर्च्छा च व्याधावस्मिन् प्रजायतेअस्य चिकित्सायद् धातुपोषकं पानमन्नमौषधमेव चकोष्ठशुद्धिकरञ्चापि तत्तदत्र प्रयोजयेत्मूर्च्छायां शीततोयेन सेकः शिरसि चक्षुषोःशिरो विरेचनं वाऽपि प्रयोज्यं तन्निवृत्तयेअत्र प्रयोजयेत् सर्वं मूर्च्छाऽपस्मारभेषजम्जरायुदोषं निखिलं प्रतिकुर्य्याद् यथाविधियोषाऽपस्मरणं सान्त्वैः प्रियदानाच्च शाम्यतिबृह्रद्भूतभैरवरसोऽप्यत्र देयः==============अथ तत्त्वोन्मादाधिकारः ९स्वरूपम्अहो मम महद् भाग्यं लब्धा यद् ब्रह्मणः कृपाइत्येवं भ्रमजो मोहस्तत्त्वोन्माद इतीरितःतत्त्वोन्मादो हर्षमौढ्यं ब्रह्ममोहश्च स स्मृतःवृथाधीप्रभवो व्याधिरयं सद्भिर्निरूपितःकिं रूपं कुत्र वा ब्रह्म नैतज्जानाति कोऽप्यहोपुराणैर्दर्शनैर्वाऽपि न लब्धं ब्रह्मदर्शनम्एके सकर्तृकं विश्वं वदन्त्यन्ये निरीश्वरम्ब्रह्माण्डं ब्रह्मतर्केण व्याकुलं बहुधा वृथामानं दुरूहं सत्तायामास्तां दूरे दयादिकम्अनिर्णीतमनिर्णेयं तदेवमवधारयमदर्थं ब्रह्म कुर्वेतज्जह्येनं मम वैरिणम्धनं देहि यशो दहि देहि राज्यमकण्टकम्विशालनेत्रां सुदतीं पीनोन्नतपयोधराम्नितम्बिनीं क्षीणमध्यां स्मरकेलिकलाविदाम्नित्यं नर्मप्रियां तन्वीं रम्भोरु रसिकेश्वरीम्मद्व्रतां नित्यसन्तुष्टां सुन्दरीं देहि कामिनीम्इत्थमर्थनमात्रेण बह्म भीतं ससम्भ्रमम्भ्रान्तबुद्धे न मन्यस्व प्रार्थितं साधयिष्यतिकदाचित् प्रार्थना काऽपि यदि ते सफला भवेत्विद्धि तत् काकतालीयं तत्र ब्रह्म न कारणम्न स्तवैर्हृष्यति ब्रह्म नापि द्वेष्टि च निन्दयाअस्तिवादी प्रियो नास्य नास्तिवादी न चाप्रियःन मूर्खेऽनादरस्तस्य बहुमानो न पण्डितेधनिनो वा भयं नास्य न दरिद्रे च ताडनम्श्वपाके यवने वाऽपि ब्राह्मणे वेदपारगेमद्यपे गणिकासक्ते मालातिलकधारिणिशुचौ वाऽप्यशुचौ साध्व्यां वेश्यायां बालवृद्धयोःसर्वत्रैव समं ब्रह्म विश्वरूपं सनातनम्एवम्भूतस्य तस्येयमिति मत्प्रीयते कृतिःतत्त्वोन्माद्यति यस्तस्य व्याधिरुन्माद एव हिप्रायशो बुद्धिहीनानामसतां नीचचेतसाम्व्याधिरेषोऽभिजायेत कदाचिन्महतामपितत्त्वोन्मादस्य निदानम्अतिप्रगाढाच्चित्तस्य धर्माद्यभिनिवेशनात्व्याधिस्तत्त्वोन्मदो नाम जायते वातकोपतःतस्य लक्षणम्ब्रह्ममोहे प्रमूढत्वं स्थिराऽस्पन्दा कनीनिकाचक्षुरुन्मीलितं सुप्तिर्गतिरोधोऽथ वाग्मितादम्भोग्रभावौ विक्षेपो हास्यं क्षैव्यञ्च रोदनम्एवम्भूतानि लिङ्गानि तत्त्वोन्मादे भवन्ति हितत्त्वोन्मादचिकित्सास्नायुस्थैर्य्यकरं यद् यत् तथा वातानुलोमनम्भेषजं पानमन्नञ्च तत्तदत्र प्रयोजयेत्शतधौतघृताभ्यङ्गोऽसमे च मधुसर्पिषीआज्यं सलिलमिश्रञ्च ब्रह्ममोहे परौषधम्कदाचित् ताडनाद्यैश्च ब्रह्ममोहः प्रशाम्यतिगदे त्वप्रकृते तस्मिन् प्रहार एव भेषजम्अपस्मारहरं यच्च वातव्याधिहरं तथाघृततैलादिकं सर्वं ब्रह्ममोहे प्रशस्यते===============अथ मस्तिष्क स्नायुविकाराधिकारः १०रूक्षाल्पलघ्वन्नरविप्रतापैः शोकाध्वचिन्ताप्रमदाप्रसङ्गैःमस्तिष्कजः स्नायुचयो नराणां संशुष्कतां दुर्बलतां च यातिशक्तेर्लघुत्वं सकलेन्द्रि याणां कान्तिप्रणाशो मनसश्च दैन्यम्निद्रा विनाशो हृदये प्रकम्प इत्यादयः स्युर्विविधा विकाराः============अथ स्नायुशूलाधिकारः ११स्वरूपम्स्नायुष्वतीव या घोरा तच्छाखास्वपि वा पुनःवेदना स्नायुशूलाख्या सा भवेत् प्राणपीडनीव्याधेः स्थानम्बाह्वोः शीर्ष्णस्तथा सक्थ्नोरन्यस्याङ्गस्य वा पुनःत्वचो निम्नस्थितास्वेव वस्नसासु गदो भवेत्शूलोऽय निखिलाङ्गेषु भवेत् तीव्ररुजाकरःविशिष्टाङ्गभवस्यास्य विशिष्टाख्या च वर्त्ततेऊर्ध्वभेदार्द्धभेदौ चाप्यधोभेदस्तथैव चमुण्डमुण्डार्धकस्फिग्जगदानामभिधाः क्रमात्तत्रोर्ध्वभेदस्य निदानम्बलरक्तक्षयाद्वाऽपि वृक्कमस्तिष्कदोषतःअजीर्णाद् दशनव्याधेरूर्ध्वभेदो गदो भवेत्लक्षणम्ललाटेऽक्षिपुटे निम्ने गण्डे नस्योष्ठ एव चजिह्वापार्श्वेऽधरे दन्ते शूलवद् दाहवच्च याएकस्मिन् प्रायशः पार्श्वे वेदना मुखमण्डलेऊर्ध्वभेदाख्यया सोक्ताऽगदङ्कारैः क्रमैधितिःअनुपशयःशीतानिलस्य संस्पर्शाद् देहकम्पाच्च वर्द्धतेस्नायुभेदस्य विकृतेरङ्गभेदे भवेद् गदःअर्द्धभेदस्य निदानम्आर्द्र स्थानस्थितेश्चापि शीतयोगाद् बलक्षयात्अर्द्धभेदः प्रजायेत दुष्टवाताम्बुसेवनात्अर्द्धभेदस्यलक्षणम्याऽद्ध व्याप्य भवेत् तीव्रा वेदना मुखमण्डलेवामे च प्रायशः पार्श्वे साऽद्धभेदः प्रकीर्त्यतेबाणेनेव शिरो विद्धं व्यथतेऽतिसुदारुणम्कदाचित् क्रममालम्ब्य विरामश्चात्र वा महान्बाहुल्येन च नारीणां व्याधिरेष प्रजायतेप्रादुर्भावो वयःस्थस्य यौवने ह्यधिको मतःअधोभेदस्य निदानम्विड्रोधाच्छ्रमाच्छीताद् दौर्बल्यादामवाततःआर्द्र स्थानस्थितेर्गर्भदोषात् स्यान्निम्नभेदकःअधोभेदस्य लक्षणम्स्फिच्यूरुजानुसन्ध्योश्च पश्चिमे च क्वचित् पदेजङ्घायां वाऽपि यच्छूलमधोभेदः स उच्यतेएकस्मिन् प्रायशः सन्क्थि शूलोऽय स्यान्निशाबलीबाहुल्येनैव वयसि प्रौढ एव प्रजायतेस्नायुशूलस्य चिकित्सायदग्नेर्दीपनं किञ्चिद् यद् वा स्याद् बलवर्द्धनम्वातानुलोमनं यच्च स्नायुशूले तदौषधम्प्रयोज्यं दारुगरलमर्धभेदप्रशान्तयेविरतौ तत् प्रयोक्तव्यं न प्रकोपे कदाचनमदिरामृतसाराख्यं लौहं क्षोदः कुपीलुजःसेव्यान्येतानि विधिना स्नायुशूलस्य शान्तयेस्वेदसेकप्रलेपांश्च स्नायुशूलेषु योजयेत्तीव्रं विरेचनञ्चात्र विदध्यान्मलसञ्चयेघृततैलादिकं योज्यमनिलामयनाशनम्स्नायुशूलेषु सर्वेषु भेषजञ्च रसायनम्===============अथ ताण्डवरोगाधिकारः१२हिमवच्छिखरे रम्ये सिद्धर्षिगणसेवितेसुगन्धिसुमनःशोभिफलवद्बहुपादपेश्रुतद्विजकले शान्तैः श्वापदैर्बहुभिर्वृतेवटमूले समासीनमात्रेयं ज्ञानसागरम्आयुर्वेदमहाचार्य्यं तपोदीप्तकलेवरम्उरभ्रो भक्तिमानग्रे कृताऽञ्जलिरभाषतकथं ताण्डवरोगस्य जन्म चिह्नानि कानि चकथञ्च स्यात् प्रतीकारः सर्वं मे कृपया वदश्रुत्वैतां प्रार्थनां धीरशिष्याय शिष्यवत्सलःवचनैर्वक्तुमारेभे व्यक्तार्थैस्तदृषीश्वरःनिदानम्प्रीतोऽस्मि भक्तिमन् वत्स ब्रुवे यच्छ्रोतुमिच्छसियद् दक्षायावदत् पूर्वं ब्रह्मा लोकपितामहःअप्यातङ्कादतिक्रोधादतिहर्षाद्वलक्षयात्कर्षणात् स्वप्नरोधाच्च विड्बन्धात् क्रिमिसञ्चयात्आशानाशादभीघातात् स्त्रीणामृतुविपर्य्ययात्कशेरुकाभञ्जनञ्चात्युग्रभावात् प्रजायतेव्याधिस्ताण्डवनामा स प्राणिनां क्लेशकृत् परःअङ्गानां ताण्डवादस्य ताण्डवाख्या बुधैः कृताकैशोरे वयसि प्रायः स्त्रीणाञ्चापि विशेषतःव्याधिरेषोऽभिजायेत वृद्धानाञ्च बलक्षयात्ताण्डवरोगलक्षणम्वामबाहुं समारभ्य प्राय आदौ ततोऽपरम्ततः पादौ ततोऽङ्गानि चालयेत् ताण्डवामयःमुष्टिना किमपि द्र व्यं सम्यग्धारयितुं क्षमःसमर्पयितुमास्ये वाऽप्यदनीयं न ताण्डवीनृत्यन्निव चलत्येष बीभत्सैर्मुखचेष्टितैःअधीरः सततं तिष्ठेन्निद्रा यां कम्पवर्जितःताण्डवचिकित्साबृंहणं रेचनञ्चैव वह्नेर्बलविवर्द्धनम्औषधं पानमन्नञ्च प्रयोज्यं ताण्डवे गदेक्रिमिसञ्चयसम्भूते कार्य्यं क्रिमिविनाशनम्रजोरोधभवे व्याधौ रजसस्तु प्रवर्तनम्श्यामामनन्तां मधुकं त्रिवृतां चन्दनद्वयम्एलाद्वयं तथा धात्रीं क्वाथयित्वा जलं पिबेत्अनेन प्रशमं याति ताण्डवाख्यो गदो ध्रुवम्ताण्डवारिलौहमपि देयम्=================अथ क्लोमरोगाधिकारः १३प्लीहक्षुद्रा न्त्रयोर्मध्यमन्नपाकादिकर्मणिसहायभूतमध्यास्ते क्लोम तच्च तिलाभिधम्गुर्वतिस्निग्धभोज्यैश्चाप्यविघातादिभिस्तथावृद्धिस्तस्य मृदुत्वञ्च तत्र शोणितसञ्चयःविद्र धिर्वा भवेत्तत्र व्याधयोऽन्ये च दारुणाःएवं विकृतिमापन्ने तिलके वह्नि संक्षयःउत्क्लेशो वमनं कार्श्यं पाण्डुता सदनं भ्रमःऊर्ध्वोदरे व्यथा तीव्रा काठिन्यमपि चोष्णताशूलाध्मानप्रसेकाश्च विद्र धौ महती च तृट्शिला चाप्यश्मरी तुल्या सुकष्टाऽप्यत्र जायतेक्लोमचिकित्सायद् वह्नेर्दीपनं यच्च मारुतस्यानुलोमनम्अन्नपानौषधं सर्वं तत्तत् क्लोमातुरे हितम्यो यः समाश्रयेद् व्याधिः क्लोम्नि तं तमवेक्ष्य चक्रियां संसाधयेद् वैद्यो यथादोषं बलाबलम्अभयादिक्वाथैः सुरेन्द्र मोदकैः शशिशेखररसैः सुरेन्द्रा भ्रवटीऐ!च तथा वातपित्त प्रशमकानि भेषजानि क्लोमरोगशान्तये प्रयोज्यानि================अथ वृक्कामयाधिकारः १४पूर्वरूपम्त्वग्रूक्षोष्णा वेगवती धमनी कठिना तथानिद्रा नाशो वह्निमान्द्यं शोथोऽक्ष्णि च मुखे पदेवृक्कामयस्य पूर्वाणि रूपाण्याहुभिषग्वराःवृक्कामयस्य लक्षणम्रक्ताल्पत्वान्मुखस्य स्यात् पाण्डुत्वं कटिवेदनात्वक् शुष्का स्वेदहीना च धमनी द्रुतगामिनीवह्निमान्द्यमजीर्णञ्च भक्तद्वेषो व्यथोदरेअम्लोद्गारस्तथा छर्दिर्हृद्वेपः श्वासकृच्छ्रतामूत्राल्पत्वं सदा वेगो विशेषान्निशि जायतेमूत्रकाले च शिश्नाग्रे मनाग् दाहोऽनुभूयतेवृक्कयोर्विकृतिश्चास्मिन् विशेषाज्जायते गदेयकृत्प्लीहहृदाञ्चापि सा सदैव प्रजायतेकर्णनादो दृष्टिदोषः शिरोग्रीवांऽसवेदनाशाखासु गौरवं मूर्च्छा वृक्करोगस्य लक्षणम्वृक्कामयनिदानम्रक्तस्य परिवृत्त्या हि जायते वृक्कवैकृतम्अस्य चिकित्सायन्मूत्रलं शोणितशोधनञ्च यत् पोषणं वह्निविवर्धनञ्चवृक्कस्य रोगे परियोजयेत् तद् व्याधेर्बलं वीक्ष्य भिषग् विधिज्ञःरसो विवर्धयेद् व्याधिमतस्तं नेह योजयेत्रसायनाधिकारोक्तान्यौषधान्यपि योजयेत्न चास्ति शमने किञ्चिन्निर्दिष्टमस्य भेषजम्सर्वतोभद्रा वटी चापि देया==============अथौपसर्गिकमेहाधिकारः १५बहुसङ्करसम्भोगप्रक्लिन्नेपि यया पुमान्स्त्रिया सङ्गम्य सम्मूढो गदमाप्नोति दारुणम्मूत्रनाड्यन्तरस्थाना त्वगस्य श्लेष्मवाहिनीव्रणिता वाहरेत्क्लेदं व्रणमेहः स उच्यतेऔपसर्गिकमेहश्च तस्य नामान्तरं मतम्मेह आगन्तुकश्चापि स केश्चित् परिपठ्यतेआरभ्य सङ्गमनिशां सङ्ख्यया याच सप्तमीएतद्व्यवहिते काले प्रायशो जायते गदःकण्डूः शिश्नाग्रतस्तस्य समुत्थानं मुहुर्महुःतीव्रवेदनया वापि मुहुर्मूत्रप्रवर्त्तनम्स्फीतिर्लिङ्गस्य लौहित्यं कोषे ब्रध्ने च वेदनाकदाचित् क्लेदसंरुद्धमार्गत्वादतिरुक्स्रवेत्मूत्रं दाहेन घोरेण द्विधारं वा प्रवर्त्ततेक्षरेद्वा क्षतजं मेढ्रान्मूत्रकाले कदाचनसन्ततं तनुरास्रावं स्रवेदादौ ततोऽतनुःस तावत् पुनराशुष्यन् पीतिमानं प्रयाति चकाले लघ्वीं व्यथां कुर्य्याद् व्याधिञ्च दुष्प्रतिक्रियाम्आमवाताक्षिरोगाद्या ज्ञेयाश्चास्य ह्युपद्र वाःऔपर्गिकमेहस्य चिकित्साव्रणमेही त्यजेद् यत्नाद् व्यवायं सोऽहितो यतःस्त्रियाश्च परिभुक्ताया आमयं जनयेच्च तम्भेषजं पानमन्नञ्च निषेवेतानुलोमनम्व्रणघ्नं मूत्रजननं क्रियामुग्रां विवर्जयेत्कोष्णे जात्या वराया वा क्वाथे शिश्नं निमज्जयेत्वेदनोपशमस्तेन व्याधेश्च बलसंक्षयःआभानिर्यासतोयञ्च यवक्षारयुतं पिबेत्सजलं क्षीरमामं वा व्रणमेहनिवृत्तयेपिबेद्वा शारिवाक्वाथं सक्षारनरसारकम्श्यामामनन्तां कट्वीञ्च बीजं गोक्षुरसम्भवम्गन्धाश्मनरसाराभ्यां क्वाथयित्वा जलं पिबेत्एकं सुरप्रियफलं मेहमागन्तुकं हरेत्वराभापिप्पलीनाञ्च व्रणमेहनिवृत्तयेकुर्यादुत्तरबस्तिञ्च कषायेण प्रयत्नतःमहाभ्रवटिकौ कन्दर्परसश्चात्र प्रयोज्यः===============अथ शीर्षाम्बुरोगाधिकारः १६निदानं सम्प्राप्तिश्चमद्यातिपानादतिशैत्ययोगाद्विरुद्धभोज्यादनिलप्रदोषात्दुष्टाम्बुपानादभिघाततश्च तथाऽन्त्रमध्ये क्रिमिसम्भवाच्चशिरोगतस्नेहवृतौ क्रमेण सञ्चीयते तोयमतिप्रभूतम्शीर्षाम्बुनामागद एष पूर्वैः प्रकीर्त्तितः कृच्छ्रतरो भिषग्भिःप्रायशः शैशवे व्याधिर्विविधाहितसेवनात्तथा दन्तोद्गतेरेष बाहुल्येनाभिजायतेतस्य पूर्वरूपम्जिह्वा लिप्ताऽतिनिद्र त्वं दौर्बल्यं श्वासपूतितागाढविट्ता च तस्मिंस्तु भविष्यति भविष्यतितस्य लक्षणम्शिरसो वेदना घोरा श्रुतेर्दृष्टेश्च तीक्ष्णतामूत्राल्पत्वं कृष्णविट्त्वं धमनी वेगवाहिनीत्वग्रूक्षोष्णा तथा छर्दिर्विषमा च कनीनिकाकोपित्वं मुखवैवर्ण्यं निद्रा यां दन्तघर्षणम्कण्डूरोष्ठस्य नासाया आक्षेपो रक्तनेत्रतापक्षाघातः प्रलापश्च शीर्षाम्बुगदलक्षणम्ग्रन्थान्तरे शीर्षाम्बुनिदानञ्चदुष्टं जलन्त्वतिहिमं विकृतं समीरंक्लिन्नं विरुद्धमशनं भजतां शिशूनाम्शीर्षेऽभिघातपतनात् क्रिमिदोषतश्चसञ्चीयते शिरसि तोयमनल्पमात्रम्पूर्वरूपम्पूर्वरूपं भवत्यस्य निद्रा धिक्यं बलक्षयःदुर्गन्धिश्वासवायुश्च काठिन्यं शकृतस्तथालक्षणम्तीव्रा रुजा मूर्द्धनि सर्वदैवमूत्राल्पताच्छर्दिरथोष्णता चवैवर्ण्यमास्यस्य मलस्य कार्ष्ण्यमालोहितं स्यादपि नेत्रयुग्मम्नासौष्ठकण्डूयनपक्षघातावाक्षेपकश्चैव रदप्रघर्षःवेगं च धत्ते धमनी प्रकामं शीर्षाम्बुरोगस्य तु चिह्नमेतत्चिकित्साभेषजं रेचनं यच्च यन्मूत्रस्य प्रवर्त्तनम्रक्तदोषहरं यच्च तच्छीर्षाम्बुगदे शुभम्मुण्डयित्वा शिरस्तच्च छादयेदुष्णवाससापाययेन्नारिकेलस्य स्नेहञ्चापि निरन्तरम्सेवयेद्र सचूर्णञ्च स्तोकमात्रं विचक्षणःपीतमूलद्यं त्रिवृच्छ्यामे पथ्यामामलकीं शटीम्अनन्तां मधुकं मुस्तां धान्याकं कटुरोहिणीम्हरिद्रे द्वे त्रिजातञ्च क्वाथयित्वा यथाविधियवक्षारेण सहितं पाययेदस्य शान्तयेसलिलशोषणचूर्णैं कुङ्कुमाद्यं घृतम्बह्निभास्वरोरसैः रसतैलञ्चात्र प्रयोज्यम्नैव शान्तिं गते व्याधौ मस्तिष्कात् सलिलं हरेत्त्रिकूर्च्चकेन लघुना यत्नतः कुशलो भिषक्=================अथ मस्तिष्कवेपनाधिकारः १७निदानं लक्षणञ्चशिरस्यभिहते तैस्तैर्मूर्च्छाहृल्लासवान्तयःजडत्वं स्पन्दनं ह्रासो दौर्बल्यं चलचित्ततावेपथुः कर्णनादश्च मलिनत्वं मुखस्य चपृथुत्वं तारकायाश्च धमनी बलवर्जिताशीतलत्वं शरीरस्य वैकृतं वचनस्य चतथा पक्षवधः स्याच्च गदोऽसौ शीर्षवेपनःअस्य चिकित्सामनः स्थैर्यकरं कर्म कार्यं मस्तिष्कवेपनेशिरस्युष्णेऽतिशीतेन तोयेन सेचनं हितम्मस्तिष्कवेपनध्वंसि दन्तीस्नेहेन रेचनम्सजला बललाभाय मृतसञ्जीवनी सुराप्रयोत्तव्या यथामात्रं बल्यमन्यच्च भेषजम्बह्व्यूष्मणा हरेच्छैत्यमङ्गानां कुशलो भिषक्त्रिवृतां स्वर्णपत्रीञ्च मुस्तकं मधुकं बलाम्हरिद्रे द्वे नागरञ्च त्रिफलां कटुरोहिणीम्क्वाथयित्वा प्रयोक्तव्यं शीर्षवेपनशान्तयेबलाक्वाथेन सिन्दूरं शीर्षवेपथुनाशनम्वातव्याधिहरं सर्वं भेषजं तस्य शान्तिकृत्==============अथ मस्तिष्कचयापचयाधिकारः १८निदानं लक्षणं चदेहस्वभावाद् दिष्ट्या च वर्द्धते मस्तुलुङ्गकःकरोटिरपि बालानां यूनाञ्चापि कदाचनमस्तिष्कस्य करोटेश्च यदि वृद्धिर्द्वयोर्भवेत्न चिह्नं दृश्यते किञ्चित् प्रायशः समवर्द्धनात्मस्तिष्कस्यैव चेद् वृद्धिर्न करोटेस्तथा भवेत्तदा निपीडनात् तस्य जायन्ते विविधा रुजःशिरसोऽतिरुजा तीव्रा दौर्बल्यं भ्रममूर्च्छनेपक्षाघातस्तथाक्षेपस्ततो मरणमेव चह्रासमायति मस्तिष्कं देहदोषाददृष्टतःएकपार्श्वे ह्रसेत् तच्चेन्न शीघ्रं जीवनक्षयःसमन्ताद्ध्रासतस्तस्य प्राणान्तस्त्वरया भवेत्वृद्धेश्चिकित्सामस्तुलुङ्गस्य संवृद्धिर्जायते मरणाय हिनौषधं तत्र चेत् सेव्यं तथाऽपि च रसायनम्पेयमत्र पञ्चगव्यं घृतं मधुयुतं तथाह्रासस्य चिकित्सामस्तिष्कस्य यदि ह्रासो मरणायैव जायतेतथाऽप्यत्र सदा सेव्यं भेषजं परिबृंहणम्अत्र वातामयोक्तानि तैलानि च घृतानि चअपस्मारगदोक्तानि तथा सेव्यानि सर्वदातथा चन्दनादिक्वाथः प्रयोज्यः==============अथांशुघाताधिकारः १९निदानं लक्षणञ्चचण्डांशोरंशुना शीर्ष्णि तप्ते चण्डेन जायतेअंशुघाताभिधो व्याधिः प्राणिनां प्राणपीडनःतृष्णाऽतिघोरा त्वग्रूक्षा भ्रमो नेत्रस्य रक्ततामूत्रवेगश्च मूर्च्छायो हृल्लासो विषमा धराश्वासकृच्छ्रे स्पर्शहानिराक्षेपश्चात्र सम्भवेत्प्रायः कारावरुद्धानां भटानां जायते च सःनीलिमा हस्तपादस्य धमन्याः क्षणलुप्तताविक्षेपणञ्च गात्राणां मरणायांशुघातिनःअस्य चिकित्साअस्यारिष्टलक्षणम्अङ्गावरणवासांसि दूरे निक्षिप्य यत्नतःप्रच्छाये प्रवहद्वाते गन्धाढ्ये मनसः प्रियेविविक्ते व्यक्तनभसि विहङ्गगणनादितेशाययेत् सुखशय्यायामंशुघातिनमञ्जसाततस्तस्य हरेत् खेदं तालवृन्तभवानिलैःशीताम्बुसेकं कुर्य्याच्च चन्दनाम्बु च पाययेत्नाधिकं पाययेदम्बु सहसा कुशलो भिषक्आच्छादयेत्सर्वमङ्गं शीततोयार्द्र वाससासहस्रधारया स्नानमंशुघातगदापहम्दन्त्युद्भवेन तैलेन रेचनं हितमुच्यतेअत्युष्णेनाम्भसा सिक्तं वस्त्रमूर्णामयं पृथुततो निहृततोयञ्च श्रीवासपृषतावृतम्उष्णमेव च घाटायां निधायान्येन वाससाशुष्केण वाऽपि कदलीदलैर्नातिदृढं हि तत्बद्ध्वाऽतिदाहं यावच्च संरक्षेदतियत्नतःअनेन विधिना मूर्च्छा नश्यत्येव हि सत्वरम्अङ्गानामूष्मणो नाशे धमन्याश्च व्यतिक्रमेस्वेदो विधेयो योज्या च मृतसञ्जीवनी सुराअंशुघाते प्रकर्त्तव्यो विधिर्मूर्च्छानिषूदनःअंशुघाते निवृत्तेऽपि मिथ्याहारविहारिणःअपस्मारादयः प्रायो जायन्ते बहवो गदाःतन्मुक्तोऽतो हितं नित्यं सेवेताबललाभतःमनः प्रीतिप्रदं कर्म विदधीत निरन्तरम्रत्नेश्वरो रसः महाशिशिरपानकमत्र प्रयोज्यम्=================अथ बाधक स्त्रिई!रोगइ! रोगाधिकारः २०लक्षणम्रक्तमाद्री तथा षष्ठ्यङ्कुरो जलकुमारकःबाधका इति चत्वारः प्रजाजननबाधकाःरक्तमाद्र या! लक्षणम्व्यथा कट्यां तथा नाभेरधः पार्श्वे स्तनेऽपि चरक्तमाद्री प्रदोषेण जायते फलहीनतामासमेकं द्वयं वाऽपि ऋतुयोगो भवेद् यदिरक्तमाद्री प्रदोषेण फलहीना तदा भवेत्षष्ठ्या लक्षणम्नेत्रे हस्ते भवेज्ज्वाला योनौ चैवं विशेषतःलालासंयुक्तरक्तञ्च षष्ठीबाधकयोगतःमासैकेन भवेद् यत्र ऋतुस्नानद्वयं तथामलिना रक्तयोनिः स्यात् षष्ठीबाधकयोगतःअङ्कुरस्य लक्षणम्उद्वेगो गुरुता देहे रक्तस्रावो भवेद् बहुःनाभेरधो भवेच्छूलं चाङ्कुरः स तु बाधकःऋतुहीना चतुर्मासं त्रिमासं वा भवेद् यदिकृशाङ्गा करपादे च ज्वाला चाङ्कुरयोगतःजलकुमारस्य लक्षणम्सशूला च सगर्भा च शुष्कदेहाऽल्परक्तिकाजलकुमारदोषेण जायते फलहीनताया कृशाङ्गी भवेत् स्थूला बहुकालमृतुस्तथागुरुस्तनी स्वल्परक्ता जलकुमारदूषणात्गर्भे जातेऽपि तस्य पतनं स्यात्बाधकस्य चिकित्सारसाञ्जनं विडं वह्निं शीतेन पयसा सहपीत्वा बाधकरोगेण सद्यो नारी प्रमुच्यतेमरिचेन प्रजावत्या मूलं शीताम्भसा सहपीत्वा बाधकनिर्मुक्ता नारी गर्भं दधाति हिअन्तर्भवन्ति व्यापत्सु योनेः सर्वेऽपि बाधकाःअतस्तासां विधानेन भिषगेतानुपाचरेत्योनिरोगवती नारी कुर्य्यान्नातिरतौ मतिम्भूयसीं विकृतिं योनेर्यतः सा जनयेद् ध्रुवम्=================अथ योनिकण्ड्वधिकारः २१निदानम्योनौ बलासे संक्रुद्धे जरायुविकृतेस्तथावस्तिद्वारेऽबुदे जाते दुर्नामगदतोऽपि चयोनेः शिराणां प्रसृतेर्वातवत्याश्च योषितःरजः प्रवृत्तिसमये पुरुषेणातिसङ्गमात्गर्भप्रागुद्भवे चापि योनिकण्डूः प्रजायतेवार्धक्य एव नारीणां सा बाहुल्येन संभवेत्लक्षणम्योनौ कण्डूश्च तोदश्च रौक्ष्यं शुष्कत्वमेव चयोनिकण्डूगदस्यैतल्लक्षणं भिषजो विदुःउष्णानुपशयो व्याधिः शीतोपशय एष हितस्याश्चिकित्सायोनिकण्डूगदे देयमादौ स्निग्धविरेचनम्भेषजं रक्तदोषघ्नं बलदायि रसायनम्अतस्तु सारिवां लोध्रं त्रिवृतामिभपिप्पलीम्क्वाथयित्वा पिबेत् तोयं योनिकण्डूप्रशान्तयेयोनिकण्डूगदे योनौ शीततोयाभिषेचनम्स्नेहस्वेदश्च कर्त्तव्यो वस्तिश्चोत्तरसंज्ञितःयोनिव्यापद्गदोक्तानि भेषजानीह योजयेत्तथा चशिवकरी वटीऐ! टङ्कणादिचूर्णमपि देयम्===============अथ योन्याक्षेपाधिकारः २२निदानं लक्षणञ्चमारुते विगुणे योनौ स्पर्शस्यातिप्रवृद्धताविक्षेपणं मुखस्यास्यास्तत्स्पर्शे तीव्रवेदनायोन्याक्षेपवती नारी न सहेत रतिक्रियाम्यदि गच्छेद्वलाद् भर्त्ता तां साति व्यथिताभवेत्नोपसर्पति भर्त्तारं सदा साध्वसविह्वलापत्या तिरस्कृता दुःखान् मृत्युमात्मन इच्छतिउद्वेगो वह्निहानिश्च निद्रा ऽल्पत्वं तथा क्रमात्बस्तिदाहो व्यथा पृष्ठेऽशक्तिश्चङ्क्रमणेऽपि चदौर्बल्यं वर्णहानिश्च तथोत्साहस्य सङ्क्षयःयोन्याक्षेपगदस्यैताः प्रोक्ता आकृतयो बुधैःचिकित्सानागदेन गदः साध्यः शस्त्रेणायं प्रसाध्यतेशस्त्रं प्रयोजयेदत्र भिषक् शस्त्रविशारदःपाययित्वा सुरां तीव्रां गदिनीं सव्यशायिनीम्उत्तानामथवा कृत्वा योनौ शस्त्रं प्रवेश्य चह्रीमन्तं त्वरयाच्छिद्य मुखं योनेर्विदार्य चतूलेनारुध्य बध्नीयाल्लघुहस्तचिकित्सकःअवरोधे तु मूत्रस्य वर्त्तयेत् तच्छलाकयावेदनां वारयेद् वैद्यः फणिफेनप्रयोगतःपुनर्घस्रद्वयान्ते तां पाययित्वा सुरां भिषक्तूलं निःसार्य योनिस्थं मुखं योनेः प्रसार्य चतदधः कर्त्तनं कुर्यादङ्गुल्यर्धप्रमाणतःइत्येवं कर्मणा व्याधिर्योन्याक्षेपः प्रशाम्यति==============अथ जरायुरोगाधिकारः २३निदानम्नैरन्तर्येण गर्भस्य सम्भवात् स्रावतोऽस्य चशैत्यादाद्रा र्!भिवासाच्च पापोपदंशतस्तथाअतिव्यवायतः पापमेहिना सह सङ्गमात्जरायुरोगो जायेत लक्ष्माण्यस्य निशामयलक्षणम्ज्वरोऽग्निमान्द्यमास्यस्य नीलत्वं त्रिकतोदनम्व्यथा निम्नोदरे बस्तावुष्णत्वं गौरवं तथामुहुर्मूत्रप्रवृत्तिश्च योनितः क्लेदसंस्रुतिःमलस्यातिप्रवृत्तिश्च ततस्तद्रो ध एव चदुर्नामानि च दौर्बल्यं शिरोरुग् वमथुस्तथाजरायुरोगे जायन्ते आकारा एवमादयःचिकित्साजरायुरोगे प्रथमं देयं स्निग्धं विरेचनम्हितोऽत्रोत्तरबस्तिश्च सुखोष्णेनाम्भसा तथाअधोदेहस्य सलिले चोष्णे संमज्जनं हितम्अतसीबीजकल्केन तप्तेन सह सर्पिषापुटलेपो हितः प्रोक्त उदराधो मनीषिभिःनारिकेलजतैलेन रससिन्दूरसेवनम्जरायुरोगं शमयेत् तथा पथ्यानुवर्त्तनम्प्रमदानन्दो रसः शारिवादि चूर्णञ्च सेवेत================अथाण्डाधारगदाधिकारः २४निदानम्रमणातिशयाच्छैत्यादभिघाताद्विषादपिअण्डाधारगदः कृच्छ्रो जायते चाहिताशनात्लक्षणम्उदरोरुव्यथा कृच्छ्रा मूत्रस्याल्पत्वरक्ततेज्वरारोचकहृल्लासा अरतिर्बलसंक्षयःधमनी वेगिनी क्षुद्रा जिह्वा रक्तोज्ज्वला तथाअण्डाधारगदस्यैताः प्रोक्ता आकृतयो बुधैःचिकित्साबलप्रवर्द्धकं यद् यत् पवनस्यानुलोमनम्अण्डाधारगदे तत्तत् प्रयोक्तव्यं भिषग्वरैःपटोलादिक्वाथः योषिद्वल्लभो रसः चन्दनाद्यं चूर्णमपि प्रदातव्यम्विषञ्च मधुना देयमण्डाधारगदे हितम्===============अथौजोमेहाधिकारः २५निदानं लक्षणञ्चअभिघाताग्निमान्द्यामवाताजीर्ण विषूचिकाविषमज्वरशोथाद्यैर्यक्ष्मकासादिभिस्तथावृक्कयोः शोणितस्रोतोविकृतेरस्रदोषतःलसीकाशुक्रपूयास्रैर्युक्ते मूत्रे तथा नृणाम्स्त्रीणां गर्भागमे चैव कटुकक्षारवर्ज्जितैःमधुरौजस्करद्र व्यभक्षणैरतिमात्रतःगुरुपर्युषितानाञ्च भोजनादतिभोजनात्नवधान्यादिगोधूमहंसडिम्बातिसेवनात्दूषिते शीतले तोये स्नानपानावगाहनात्एभिर्निदानैरन्यैश्च दूषितादोजसो भवेत्ओजोमेहः सः विज्ञेय आयुर्बलनिकृन्तनःशारीरिकश्रमवशात् तथाऽन्येनैव हेतुनाद्रुतं शोणितसञ्चारात् प्रवृत्तेश्च विपर्ययात्ओजोविकृतिमापन्नं हंसाण्डश्वेतभागवत्पिष्टतण्डुलवद्वाऽथ सह मूत्रेण संस्रवेत्मेदःक्षयो भवेत्तत्र ज्वरारोचकयोस्तथाशोथेग्निमान्द्ये सञ्जाते गदोऽसाध्यो न संशयःअन्यथा कृच्छ्रसाध्योऽसौ यत्नाज्जीवति मानवःचिकित्साविचार्य दोषदूष्यादीन् निदानं परिवर्ज्जयेत्चिकित्सेत गदाक्रान्तं दोषदूष्यानुसारतःअयःप्रधानमगदं हितमत्र विशेषतःवर्ज्जनीयं रसोद्भूतमौषधं शिवमिच्छताओजोह्रासजदौर्बल्यं दूरीकुर्यात् प्रयत्नतःचन्दनादिक्वाथः अजमोदादिचूर्णम्चन्दनासव इत्यादिकं देयम्यथा चन्दने नलदं द्रा क्षा गुडूची मधुकं शटीधात्री च क्वाथ एतेषामोजोमेदोपशान्तिकृत्तथा हारिद्र माञ्जिष्ठमेहादीनां परौषधम्सोपद्र वाणां कथितः कृपाद्रे र्णै!व शम्भुनादाडिमाद्यं घृतं चन्द्र प्रभा नाम वटी तथामुक्तावङ्गेश्वरश्चैव वसन्तकुसुमाकरःचन्दनाद्यासवोऽरिष्टो देवदारुसमुद्भवःप्रमेहमिहिरं तैलं तथा मेहाधिकारिकम्अगदं चात्र युञ्जीत नित्यं कुशलमिच्छता==========योन्यङ्कुरवृद्ध्य्धिकारः २६निदानम्दुष्टवातेन रक्तस्य दोषाच्च करकर्मणायोन्यङ्कुरस्य संवृद्धिर्जायते परमोत्कटाचिकित्सारोगिणीं चेतनाहीनां कृत्वा च्छिन्द्याद् भगाङ्कुरम्बध्नीयादपि बन्धन्या पथ्येनैताञ्च वर्त्तयेत्===========अथ लसिकामेहाधिकारः २७निदानं लक्षणं चमधुराणां फलानाञ्च मूलानाञ्च गुडोद्भुवाम्द्र व्याणाञ्चातियोगाच्च तथैवातिपरिश्रमात्मानसश्रमशीलानां वर्ज्जयित्वा तु कायिकम्गुरुपर्य्युषितक्लिन्नाभिष्यन्दिद्र व्यभोजनात्आनूपमत्स्यमांसादि भोजनादतिभोजनात्एभिर्निदानैः सन्दुष्टो यकृत् पक्वाशयस्तथावृक्कयोर्मूत्रकोषे च जनयित्वा क्षतं ततम्मूत्रमार्गेण तरलं पूयरक्तादिसन्निभम्समेदस्कं सलसिकं नराणां स्रावयेन्मुहुःसालक्तकपयस्तुल्यं मूत्रं सम्यक् प्रवर्त्तयेत्कदाचिज्जायते मूत्रं पूयरक्तादिभिर्घनम्स्थूलसूत्रनिभं तस्मादधिका जायते व्यथादोषदूष्यादिभेदेन मूत्रस्य ह्रासवर्द्धनेतथा वर्णविभेदश्च जायते मेहिनः सदावातिकस्य लक्षणम्वातजे लसिकामेहे चाम्लगन्धि सशोणितम्आमिक्षाजलवन्मूत्रं मुहुर्मूत्रयते नरःविश्लिष्टाः सन्धयस्तस्मिन् मलं सम्यङ् न निःसरेत्पैत्तिकमाहघनं सपूयं मूत्रञ्च पैत्तिकेऽधिकपूतिमत्जायते चास्य वैरस्यं सन्तापः करपादयोःश्लैष्मिकमाहश्लैष्मिके लसिकामेहे मूत्रं शुक्लं तथाविलम्तथा पर्युषिते तस्मिन्नुपर्यच्छमधो घनम्क्षुन्नाशो वङ्क्षणकटिव्यथा सम्यक् प्रजायतेद्वित्रिदोषजमाहद्वित्रिदोषभवे मेहे मिश्रं लक्षणमीक्ष्यतेसाध्यासाध्यम्सुसाध्योऽसौ भवेद्यूनामल्पकालभवो गदःनो चेदसाध्यो दुःसाध्यो भवेदेव न संशयःकदाचित् प्रबलीभूय प्रशाम्येत् पथ्यसेवनात्ततः पुनर्वर्द्धमानः कालात् कालवशं नयेत्चिकित्सातिन्दु बिल्वं विडङ्गञ्च व्याघ्री धात्री च जाम्बवीबब्बूलं लोहितञ्चैव खदिरं रक्तचन्दनम्एषां क्वाथो हरेन्मेहं लसिकाख्यं सुदारुणम्तथा माञ्जिष्ठमेहादिनानोपद्र वसंयुतम्सोमनाथरसो हेमनाथो वङ्गेश्वरस्तथाचन्द्र प्रभाख्यागुटिका तथैव चन्दनासवःतैलं पल्लवसाराख्यं श्रीगोपालाभिधं तथायुञ्ज्याद् युक्त्यनुसारेण व्याधौ चास्मिन् प्रयत्नतः============अथ सोमरोगाधिकारः २८निदानं लक्षणं चस्त्रीणामतिप्रसङ्गाद्वा शोकाच्छ्रमविवर्जनात्आभिचारिकदोषाच्च गरदोषात्तथैव चआपः सर्वशरीरेभ्यः क्षुभ्यन्ति प्रस्रवन्ति चतस्मात्ताः प्रच्युताः स्थानान्मूत्रमार्गे व्रजन्ति चप्रसन्ना विमलाः शीताः ससिता नीरुजः सिताःस्रवन्ति चातिमात्रन्तु दौर्बल्यं गतिहीनताशिरसः शिथिलत्वं च मुखतालुविशोषणम्सोमरोग इति ज्ञेयो देहे सोमक्षयान्नृणाम्सोऽतिक्रान्तंक्रमेणैव स्रवेन्मूत्रमभीक्ष्णशःमूत्रातिसारमप्येवं तमाहुर्बलनाशनम्तेन तृष्णाऽभिभूतोऽसौ जलं पिबति चाधिकम्मूर्च्छा जृम्भा प्रलापश्च त्वग्रूक्षा चातिमात्रतःभक्ष्यैर्भोज्यैश्च पेयैश्च न तृप्तिं लभते सदाचिकित्साकदलीनां फलं पक्वं धात्रीफलरसं मधुशर्करापयसा पीतमपां धारणमुत्तमम्कदलीनां फलं पक्वं विदारीञ्च शतावरीम्क्षीरेण पाययेत् प्रातरपां धारणमुत्तमम्धात्रीफलस्य रसकं मधुना च पिबेत् सदाबहुमूत्रक्षयं कुर्य्यात् क्षारेण वासकस्य चतालकन्दञ्च तरुणं खर्जूरं कदलीफलम्पयसा पाययेत् प्रातर्मूत्रातीसारनाशनम्माषचूर्णं समधुकं विदारी शर्करा मधुपयसा पाययेत् प्रातः सोमरोगविनाशनम्अहिफेनप्रयोगेण मूत्ररोधो भवेद् ध्रुवम्कदल्यादिघृतैं धात्रीघृतैं प्रमेहमिहिरतैलं पल्लवसारतैलैं सोमनाथ हेमनाथतारकेश्वररसाश्च वसन्तकुसुमाकररसादीनि भेषजानि चात्र प्रयोज्यानि=============अथ शातातपोक्तपापजरोगकथनाधिकारः २९महापापोद्भवा रोगाःकुष्ठञ्च राजयक्ष्मा च प्रमेहो ग्रहणी तथामूत्रकृच्छ्राश्मरीकासा अतीसारभगन्दरौदुष्टव्रणं गण्डमाला पक्षाघातोऽक्षिनाशनम्इत्येवमादयो रोगा महापापोद्भवाः स्मृताःउपपापोद्भवा रोगाःजलोदरयकृत्प्लीहशूलरोगव्रणानि चश्वासाजीर्णज्वरच्छर्दिभ्रममोहगलग्रहाःरक्तार्बुदविसर्पाद्या उपपापोद्भवा गदाःपापसमुद्भवा रोगाःदण्डापतानकश्चित्रवपुः कम्पविचर्च्चिकाःवल्मीक पुण्डरीकाद्या रोगाः पापसमुद्भवाःअतिपापोद्भवा रोगाःअर्श आद्या नृणां रोगाः अतिपापाद्भवन्ति हिरोगाणां पापोद्भवत्व निर्देशःन पापेन विना दुःखं व्याधयो दुःखदा यतःअतो रोगा हि निखिला पापादेव भवन्ति हि============अथ ध्वजभङ्गाधिकारः ३०क्लीबस्य लक्षणं भेदाश्चक्लीबः स्यात्सुरताशक्तस्तद्भावः क्लैब्यमुच्यतेतच्च सप्तविधं प्रोक्तं निदानं तस्य कथ्यतेमानसमाहतैस्तैर्भावैरहृद्यैश्च रिरंसोर्मनसि क्षतेध्वजः पतत्यतो नॄणां क्लैब्यं समुपजायतेद्वेष्यस्त्रीसम्प्रङ्गाच्च क्लैब्यं तन्मानसं स्मृतम्दोषजमाहकटुकाम्लोष्णलवणैरतिमात्रोपसेवितैःपित्ताच्छुक्रक्षयो दृष्टः क्लैब्यं तस्मात्प्रजायतेशुक्रक्षयजमाहअतिव्यवायशीली यो न च वाजिक्रियारतःध्वजभङ्गमवाप्नोति स शुक्रक्षयहेतुकम्मेढ्ररोगजमाहमहता मेढ्ररोगेण चतुर्थी क्लीबता भवेत्शिराच्छेदजमाहवीर्य्यवाहिक्षिराच्छेदान्मेहनानुन्नतिर्भवेत्शुक्रस्तम्भनिमित्तकमाहबलिनः क्षुब्धमनसो निरोधाद्धि बलस्य चषष्ठं क्लैब्यं स्मृतं तत्तु शुक्रस्तम्भनिमित्तकम्सहजमाहजन्मप्रमृति यत्क्लैब्यं सहजं तद्धि सप्तमम्असाध्यं सहजं क्लैब्यं मर्मच्छैदाच्च यद् भवेत्स्त्रीनपुंसकलक्षणम्स्त्रीणामपि भवेत् क्लैब्यं रेतः क्षरणरोधकम्क्लीबास्तृप्तिं न गच्छन्ति नार्य्यः पुंसङ्गमेन चग्रन्थान्तरे क्लैव्य निदानम्बीजध्वजोपघाताभ्यां जरया शुक्रसंक्षयात्क्लैब्यं सम्पद्यते तस्य शृणु सामान्यलक्षणम्संकल्पप्रवणो नित्यं प्रियां वश्यामपि स्त्रियम्न याति लिङ्गशैथिल्यात् कदाचिद् याति वा यदिश्वासार्त्तः स्विन्नगात्रश्च मोघसंकल्पचेष्टितःम्लानशिश्नश्च निर्वीर्य्यः स्यादेतत् क्लैब्यलक्षणम्शोकचिन्ताभयत्रासात् स्त्रीणां चातिनिषेवणात्वातादीनां च वैषम्यात् क्लैब्यं समुपजायतेचतुष्पादाभिगमनात् शेफसश्चाभिघाततःरेतसश्च प्रतीघाताद् ध्वजभङ्गः प्रवर्त्ततेक्लैब्यचिकित्साक्लैब्यानामिह साध्यानां कार्य्यो हेतुविपर्ययःमुख्यं चिकित्सितं यस्मान्निदानपरिवर्जनम्हरजभुजगलौहं चाभ्रकं वङ्गचूर्णं कनकविजययष्टी शाल्मली नागवल्लीघृतमधुसितदुग्धं पुष्पधन्वा रसेन्द्रो रमयति शतरामा दीर्घमायुर्बलश्चकनकादिक्वाथेन भावयित्वा घृतादिभिर्योजयेत्अश्वगन्धाघृतं चैवामृतप्राशघृतं बृहत्चन्द्रो दयः सिद्धसूतो मकरध्वज एव चस्वल्पचन्द्रो दयः कामद्रो पकश्चैव कामिनीःदर्पघ्नः पूर्णचन्द्र ः! शाल्मलीकल्परसायनम्कामाग्निदीपनञ्चैव तैलं वै चन्दनादिकम्ध्वजभङ्गे शुभं च श्रीमदनानन्दमोदकम्वाजीकरणवृष्योक्तं भेषजञ्च रसायनम्विशेषेण प्रदातव्यं क्लैब्यदोषप्रशान्तये============अथ ज्वरातिसाराधिकारः ३१ज्वरातिसारलक्षणम्पित्तज्वरे पित्तभवोऽतिसारस्तथाऽतिसारे यदि वा ज्वरः स्यात्दोषस्य दूष्यस्य समानभावाज्ज्वरातिसारः कथितो भिषग्भिःअन्यञ्च ज्वरातिसारयोरुक्तं निदानं यत् पृथक् पृथक्भवेत्तन्मेलनाद्रो गो ज्वरातीसारसञ्ज्ञकःचिकित्साज्वरातिसारयोरुक्तं भेषजं यत् पृथक् पृथक्न तन्मिलितयोः कार्य्यमन्योन्यं वर्द्धयेद्यतःप्रायो ज्वरहरं भेदि स्तम्भनं त्वतिसारनुत्अतोऽन्योन्यविरुद्धत्वाद् वर्द्धनं तत् परस्परम्अन्यच्चअनुलोमनं ज्वरघ्नं ग्राहकमतिसारहृद् भवतिपृथगुक्तमौषधं तज्ज्वरातिसारे विरुद्धमन्योऽन्यम्ततस्तौ प्रतिकुर्वीत विशेषोक्तचिकित्सितैःज्वरातिसारिणामादौ कुर्याल्लङ्घन पाचनेप्रायस्तावामसम्बन्धं विना न भवतो यतःज्वरातिसारपेयादिक्रमः स्याल्लङ्घिते हितःज्वरातिसारी पेयां वा पिबेत् साम्लां शृतां नरःअन्यच्चअतस्तौ प्रतिकुर्वीत विशेषोक्तचिकित्सितैःलङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनःसमुदीर्णदोषनिचयं तत्पाचयेत्तथा शमयेत्लङ्घनमुभयोरुक्तं मिलिते कार्यं विशेषतस्तदनुउत्पलषष्ठकसिद्धं लाजामण्डादिकं सकलम्यथापृश्निपर्णीबलाबिल्वधनिकानागरोत्पलैःज्वरातिसारयोर्वाऽपि पिबेत्साम्लं शृतं नरःदेयो हितानुपानेन रसो गगनसुन्दरःअतीसारे ज्वरे चापि शुभा च कनकप्रभा==============अथ विविधरोगाधिकारः ३२वातबलासकज्वर लक्षणम्नित्यं मन्दज्वरो रूक्षः शूनकस्तेन सीदतिस्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातबलासकीप्रलेपकज्वरलक्षणम्प्रलिम्पन्निव गात्राणि घर्मेण गौरवेण वामन्दज्वरविलेपी च सशीतः स्यात् प्रलेपकःअर्द्धाङ्गज्वरस्य लक्षणम्विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थितेतेनार्द्धं शीतलं देहे चार्द्धञ्चोष्णं प्रजायतेरसगतज्वरस्य लक्षणम्गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौरसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायतेरक्तगतज्वरस्य लक्षणम्रक्तनिष्ठीवनं दाहो मोहश्छर्दनविभ्रमौप्रलापः पिडिका तृष्णा रक्तप्राप्ते ज्वरे नृणाम्मांसगतस्य ज्वरस्य लक्षणम्पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषताउष्मान्तर्दाहविक्षेपो ग्लानिः स्यान्मांसगे ज्वरेमेदोगतज्वरस्य लक्षणम्भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव चदौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुताअस्थिगतज्वरस्य लक्षणम्भेदोऽस्थ्ना कूजनं श्वासो विरेकश्छर्दि रेव चविक्षेपणञ्च गात्राणामेतदस्थिगते ज्वरेमज्जगतज्वरस्य लक्षणम्तमः प्रवेशनं हिक्का कासः शैत्यं वमिस्तथाअन्तर्दाहो महाश्वासो मर्म्मभेदश्च मज्जगेशुक्रगतज्वरस्य लक्षणम्मरणं प्राप्नुयात् तत्र शुक्रस्थानगते ज्वरेशेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतःप्राकृतविकृतज्वरयोर्लक्षणेवर्षाशरद्वसन्तेषु वाताद्यः प्राकृतः क्रमात्वैकृतोऽन्य स दुःसाध्यः प्राकृतश्चानिलोद्भवःवर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्कुर्य्यात् पित्तञ्च शरदि तस्य चानुबलः कफःतत्प्रकृत्या विसर्गाच्च तत्र नानशनाद् भयम्कफो वसन्ते तमपि वातपित्तं भवेदनुअन्तर्वेगबहिर्वेगयोर्ज्वरयोर्लक्षणेअन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमःसन्ध्यस्थिशूलमस्वेदो दोषवर्च्चोविनिग्रहःअन्तर्वेगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत्सन्तापो ह्यधिको बाह्यस्तृष्णादीनाञ्च मार्दवम्बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव चआमज्वरस्य लक्षणम्लालाप्रसेको हृल्लासहृदयाशुद्ध्य्रोचकाःतन्द्रा लस्याविपाकास्यवैरस्यं गुरुगात्रताक्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलवाञ्ज्वरःआमज्वरस्य लिङ्गानि न दद्यात्तत्र भेषजम्भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम्पच्यमानज्वरस्य लक्षणम्ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमःमलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्ष्णम्निरामज्वरलक्षणम्क्षुत्क्षामता लघुत्वञ्च गात्राणां ज्वरमार्दवम्दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम्आसप्तरात्रं तरुणं ज्वरमाहुर्मनीषिणःमध्यं द्वादशरात्रन्तु जीर्णज्वरमतः परम्बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्र वःयो द्वादशेभ्यो दिवसेभ्य ऊर्ध्वं दोषत्रयेभ्यो द्विगुणेभ्य ऊर्ध्वम्नृणां तनौ तिष्ठति मन्दवेगो भिषग्भिरुक्तो ज्वर एष जीर्णःयः स्यादनियतात्कालाच्छीतोष्मभ्यां तथैव चवेगतश्चापि विषमो ज्वरः स विषमः स्मृतःज्वरस्योपद्र वाःश्वासो मूर्च्छाऽरुचिश्छर्दिस्तृष्णाऽतीसारविड्ग्रहाःहिक्काकासाङ्गदाहाश्च ज्वरस्योपद्र वा दशज्वरमुक्तेःपूर्वरूपम्दाहः स्वेदो भ्रमस्तृष्णा कम्पविड्भेदसंज्ञिताःकूजनं गात्रवैगन्ध्यमाकृतिज्वरमोक्षणेत्रिदोषजे ज्वरे ह्येतदन्तर्वेगे च धातुगेलक्षणं मोक्षकाले स्यादन्यस्मिन् स्वेददर्शनम्अभिन्यासज्वरस्य लक्षणम्दोषास्तीव्रतरा भवन्ति बलिनः सर्वेऽपि यत्र ज्वरेमोहोऽतीव विचेष्टता विकलता श्वासो भृशं मूकतादाहश्चिक्कणमाननञ्च दहनो मन्दो बलस्य क्षयःसोऽभिन्यास इति प्रकीर्त्तित इह प्राज्ञैर्भिषग्भिः पुरातथा चत्रयः प्रकुपिता दोषा उरःस्रोतोऽनुगामिनःआंमातिवृद्ध्या ग्रथिता बुद्धीन्द्रि यमनोगताःजनयन्ति महाघोरमभिन्यासं ज्वरं दृढम्श्रुतौ नेत्रे प्रसुप्तिः स्यान्न चेष्टां काञ्चिदीहतेन च दृष्टिर्भवेत्तस्य समर्था रूपदर्शनेन घ्राणं न च संस्पर्शं शब्दं वा नैव बुध्यतेशिरो लोठयतेऽभीक्ष्णमाहारं नाभिनन्दतिकूजति तुद्यते चैव परिवर्त्तनमीहतेअल्पं प्रभाषते किञ्चिदभिन्यासः स उच्यतेप्रत्याख्यातः स भूयिष्ठः कश्चिदेवात्र सिध्यतिजलसंत्रासरोगमाहबुद्धिस्थानं यदा श्लेष्मा केवलः प्रतिपद्यतेतदा बुद्धौ निरुद्धायां श्लेष्मणाधिष्ठितो नरःजाग्रत्सुप्तोऽथवात्मानं मज्जन्तमिव मन्यतेसलिलात्त्रस्यति तदा जलत्रासं तु तं विदुःश्लेष्मघ्नं तत्र कर्तव्यं शोधनं शमनादिकम्आहारस्य विधानेन यावत्स प्रकृतिं व्रजेत्अण्डह्रासरोगमाहस्वनिदानैः प्रकुपितो वायुर्विगुणतां गतःअण्डकोषवहां नाडीं प्राप्योर्ध्वं प्रतिकर्षतिसमेहनौ तदाऽदृश्यौ भवतो वृषणौ किलअण्डह्रास इति प्रोक्तो रोगोऽय भृशदारुणःनाभिभ्रंशरोगमाहनाभिस्थाने शिराग्रन्थिर्यश्च स्फुरति सर्वदातिर्यगूर्ध्वमधश्चेत्स विचलेद्वायुना सदातदा स्युर्वातजा रोगा वान्तिरूर्ध्वगते भवेत्अधोगते त्वतीसारो मन्दाग्नित्वं ज्वरस्तथातिर्यग्गतेऽग्निमान्द्यं च वातजाश्चापरे गदाःपिडिकोद्वेष्टनं चैव भृशं स्यात्कटिवेदनाशुक्रदोषमाहवातपित्तश्लेष्मशोणितकुणपगन्ध्यनल्पग्रन्थिपूतिपूयक्षीणरेतसः प्रजोत्पादने न समर्था भवन्ति तत्र वातवर्णवेदनंवातेनै पित्तवर्णवेदनं पित्तेनै श्लेष्मवर्ण-वेदनंश्लेष्मणौ शोणितवर्णपित्तवेदनं रक्तेनै कुणपगन्ध्यनल्पं च रक्तेनै ग्र-न्थिभूतं श्लेष्मवाताभ्यौं पूयपूतिनिभं श्लेष्मपित्ताभ्यौंक्षीणं शुक्रं प्रागुक्तं पि-त्तमारुताभ्यौं पूयमूत्रपूरीषगन्धिसर्ववर्णवेदनं सन्निपातेनेतितेषु कुणपगन्धिग्रन्थिपूतिक्षीणरेतसः कृच्छ्रसाध्याः मूत्रपूरीषगन्धिरेतसस्त्वसाध्यौः साध्यमन्यच्चेतिआर्त्तवदोषमाहआर्त्तबमपि त्रिभिर्दोषैः शोणितचतुर्थैः पृथग्द्वन्द्वैः समस्तैश्चोपसृष्टमबीजं भवति तदपि दोषवर्णवेदनादिभिर्विज्ञेयम्तेषु कुणपग्रन्थिपूतिपूयक्षीणमूत्रपुरीषप्रकाशमसाध्यं साध्यमन्यद् भवतिस्नायुकरोगमाहशाखासु कुपिता दोषाः शोथं कृत्वा विसर्पवत्भिन्दन्ति तत्क्षते तत्र सोष्ममांसं विशोष्य चकुर्युस्तन्तुनिभं जीवं वृत्तं सितद्युतिं बहिःशनैः शनैः क्षताद् याति छेदात्कोपमुपैति चतत्पाताच्छोफशान्तिः स्यात्पुनः स्थानान्तरे भवेत्स स्नायुक इति ख्यातः क्रियोक्ता तु विसर्पवत्बाह्वोर्यदि प्रमादेन जङ्घयोस्त्रुट्यते क्वचित्सङ्कोचं खञ्जतां चैव छिन्नस्तन्तुः करोत्यसौरक्ताक्षोरक्तकान्तिः समधिकदहनः सर्वजः सर्वलिङ्गोरोगोऽसावष्टधेत्थं मुनिभिरभिहितः स्नायुकस्तन्तुकीटःवातेन श्यावरूक्षः सरुगथ दहनान्नीलपीतः सदाहोयः श्वेतः श्लेष्मणा स्यात्पृथुगरिमयुतो दोषयुग्माद् द्विलिङ्गःफिरङ्गरोगमाहफिरङ्गसंज्ञके देशे बाहुल्येनैव यद् भवेत्तस्मात्फिरङ्ग इत्युक्तो व्याधिर्व्याधिविशारदैःनिदानम्गन्धरोगः फिरङ्गोऽय जायते देहिनां ध्रुवम्फिरङ्गिणोऽङ्गसंसर्गात्फिरङ्गिण्याः प्रसङ्गतःव्याधिरागन्तुजो ह्येष दोषाणामत्र संक्रमःभवेत्तल्लक्षयेत्तेषां लक्षणैर्भिषजांवरःफिरङ्गस्त्रिविधो ज्ञेयो वाह्यश्चाभ्यन्तरोऽपरःवहिरन्तर्भवश्चापि तेषां लिङ्गानि च ब्रुवेतत्र बाह्यः फिरङ्गः स्याद्विस्फोट सदृशोऽल्परुक्स्फुटितो व्रध्नवद् वैद्यैः सुखसाध्योऽपि वा स्मृतःसन्धिष्वाभ्यन्तरः सः स्यादामाघातोपमत्यथःशोथं च जनयेदेव कष्टसाध्यो बुधैः स्मृतःउपद्र वानाहकार्श्यं बलक्षयो नासाभङ्गो वह्नेश्च मन्दताअस्थिशोषोऽस्थिवक्रत्वं फिरङ्गोपद्र वा अमीसाध्यासाध्यत्वमाहबहिर्भवो भवेत्साध्यो नवीनो निरुपद्र वःआभ्यन्तरस्तु कष्टेन साध्यः स्यादयमामयःबहिरन्तर्भवो जीर्णः क्षीणस्योपद्र वैर्युतःव्याप्तो व्याधिरसाध्योऽयमित्याहुर्भिषजः पुराफिरङ्गचिकित्साफिरङ्गसंज्ञकं रोगं रसः कर्पूरसंज्ञकःअवश्यं नाशयेदेतदूचुः पूर्वचिकित्सकाःलिख्यते रसकर्पूरप्राशने विधिरुत्तमःअनेन विधिना खादेन्मुखे शोथं न विन्दतिगोधूमचूर्णं सन्नीय विदध्यात्सूक्ष्मकूपिकाम्तन्मध्ये निक्षिपेत्सूतं चतुर्गुञ्जामितं भिषक्ततस्तु गुटिकां कुर्यात् यथा न दृश्यते बहिःसूक्ष्मचूर्णैर्लवङ्गस्य तां वटीमवधूलयेत्दन्तस्पर्शो यथा न स्यात्तथा तामम्भसा गिलेत्ताम्बूलं भक्षयेत्पश्चाच्छाकाम्ललवणांस्त्यजेत्श्रममातपमध्वानं विशेषात् स्त्रीनिषेवणम्पारदरोगनिदानम्शुद्धो रसोऽमृतं साक्षादशुद्धस्तु स्मृतो विषम्अयुक्तियुक्तो रोगाय युक्तियुक्तो रसायनःविधिवत्सेव्यमानोऽय निहन्ति सकलामयान्तस्य मिथ्योपचारेण भवन्त्येते महागदाःपीनसो नासिकाभङ्गो दन्तपातः शिरोव्यथाभगन्दरो विसर्पश्च नेत्ररोगो मुखामयःकोठः कण्डूस्त्वचावर्णहानिर्नासादिषु क्षतम्कुष्ठोपदंशचिह्नानि गात्रेषु विविधानि हिग्रन्थिवच्छोथकाठिन्यं सरुजं फलकोषयोःपक्षाघातो ग्रन्थिवातः प्रदाहोऽस्थ्नाञ्च दारुणःजाड्यं मनोविकारश्च सर्वे कृच्छ्रतमा गदाःभवन्ति तत्र कर्तव्यं यथायुक्तञ्च भेषजम्शीतलानिदानम्देव्या शीतलयाक्रान्ता मसूर्यः शीतला बहिःज्वरयेयुर्यथा भूताधिष्ठितो विषमज्वरःताश्च सप्तविधाः ख्यातास्तासां भेदान् प्रचक्ष्महेज्वरपूर्वा बृहत्स्फोटैः शीतला बृहती भवेत्बृहतीशीतलालक्षणम्सप्ताहान्निस्सरत्येव सप्ताहात्पूर्णतां व्रजेत्ततस्तृतीयसप्ताहे शुष्यति स्खलति स्वयम्कोद्र वालक्षणम्वातश्लेष्मसमुद्भूता कोद्र वा क्रोद्र वाकृतिःकश्चित्तां प्राह पक्वेति सा तु पाकं न गच्छतिजलशूकवदङ्गानि सा विध्यति विशेषतःसप्ताहाद्वा दशाहाद्वा शान्तिं याति विनौषधम्पाणिसहालक्षणम्ऊष्मणा सूक्ष्मजारूपा सकण्डूः स्पर्शनप्रियानाम्ना पाणिसहा ख्याता सप्ताहाच्छुष्यति स्वयम्सर्षपिकालक्षणम्चतुर्थी सर्षपाकारा पीतसर्षपवर्णिनीनाम्ना सर्षपिका ज्ञेयाऽभ्यङ्गमत्र विवर्जयेत्राजिकालक्षणम्किञ्चिदूष्मनिमित्तेन जायते राजिकाकृतिःएषा भवति बालानां सुखं च शुष्यति स्वयम्मसूरिकालक्षणम्कोठवज्जायते षष्ठी लोहितोन्नतमण्डलाज्वरपूर्वा व्यथायुक्ता ज्वरस्तिष्ठेद्दिनत्रयम्स्फोटानां मेलनादेषा बहुस्फोटाऽपि दृश्यतेद्वितीय मसूरिकालक्षणम्एकस्फोटा च कृष्णा च बोद्धव्या चर्मजाभिधाशीतलायाः शमनोपायःशीतलासु क्रियाकार्या शीतला रक्षया सहबध्नीयान्निम्बपत्राणि परितो भवनान्तरेकदाचिदपि नो कार्यमस्पृश्यस्य प्रवेशनम्स्फोटेष्वधिकदाहेषु रक्षा रेणूत्करो हितःचन्दनं वासको मुस्तं गुडूची द्रा क्षया सहएषां शीतकषायस्तु शीतलाज्वरनाशनःजपहोमोपहारश्च दानस्वस्त्ययनार्चनैःविप्रगोशम्भुगौरीणां पूजनैस्ताः शमं नयेत्स्तोत्रं च शीतलादेव्याः पठेच्छीतलिनोऽन्तिकेब्राह्मणः श्रद्धया युक्तस्तेन शाम्यन्ति शीतलाःग्रन्थान्तरात् अथोष्णवातलक्षणम्व्यायामाध्वातपैः पित्तं बस्तिं प्राप्यानिलावृतम्बस्तिं मेढ्रं गुदञ्चैव प्रदहेत् स्रावयेदधःम्रूत्रं हारिद्र मथवा सरक्तं रक्तमेव वाकृच्छ्रात्पुनः पुनर्जन्तोरुष्णवातं वदन्ति तम्चिकित्साशृतशीतपयोऽन्नाशी चन्दनं तण्डुलाम्बुनापिबेत्सशर्करं श्रेष्ठमुष्णवाते सशोणितेब्रध्नस्य निदानं लक्षणञ्चअत्यभिष्यन्दिगुर्वन्नशुष्कपूत्यामिषाशनात्करोति ग्रन्थिवच्छोथं दोषो वङ्क्षणसन्धिषुज्वरशूलाङ्गसादाढ्यं तं ब्रध्नेति विनिर्दिशेत्चिकित्साभृष्टश्चैरण्डतैलेन सम्यक्कल्कोऽभयाभवःकृष्णासैन्धवसंयुक्तो ब्रध्नरोगहरः परःअजाजी हपुषा कुष्ठं गोमेदं बदरान्वितम्काञ्जिकेन तु संपिष्टं तल्लेपो ब्रध्नजित्परःकालज्वरस्य निदानं लक्षणं चप्रणष्टवह्नेरबलस्य जन्तोर्ज्वरो यदा धातुचयेषु लीनःप्लीहोदरार्त्तिं कुरुते सशोथं तया स कालज्वरसंज्ञितः स्यात्सुदुःसहं प्राप्य विकारमेनं दिने दिने कार्श्यमुपैति मत्तर्यःकृष्णच्छविस्तस्य च पाण्डुभावो विलूनकेशोऽनियतज्वरेणकालज्वरेण सुचिरं परिपीडितस्य जायेत चोत्कटतमस्त्वतिसाररोगःघ्राणाच्च रक्तपतनन्त्वपि दन्तवेष्टादेतावुपद्र वकरौ मुहुरुद्भवेताम्ग्रन्थिकज्वर प्लिए!गइ! निदानं लक्षणं चकफोणि कक्षा गल वङ्क्षणेषु यो ग्रन्थिशोथार्त्तिकरो नराणाम्ज्वरः प्रजायेत समस्तदोषात् तं ग्रन्थिकाख्यं ज्वरमामनन्तिज्वरः सुतीव्रः पुरतो हि भूम्ना पुनश्च कुत्राप्यथवा स मन्दःसर्वाङ्गरुक् शीतमतिप्रकम्पो मूर्च्छा प्रलापो वमथुः पिपासास्वेदो भृशं स्वप्नविघात तन्द्रा खराऽतिजिह्वा शिथिलाङ्गता चग्लानिप्रमोहौ श्रुतिनेत्र सुप्तिर्निस्पन्दभावं धमनी च धत्तेअसाध्यलक्षणम्सोऽय ज्वरो ग्रन्थिकनामधेयो निहत्य शक्तिं सकलेन्द्रि याणाम्असंशयं हन्त्यतिसार जुष्टं विनष्टसंज्ञं रुधिरं वमन्तम्प्रदुष्टवातोदकभूमिभागे जीवाणवस्ते विष वज्रकल्पाःउन्दूरदेहं पुरतः प्रविश्य निहन्युराखून् मरणाग्रदूतान्विषेण तीव्रेण विषण्णदेहाः पानाय नीरस्य विदूरभूमिम्धावन्ति मूर्च्छन्ति नयन्ति दूरं विषं पिपासाकुल मूषिकास्तेजीवाणुवाहिनां तस्मान्मूषिकाणां शरीरतःदेहाद् देहान्तरं यान्ति कीटा ग्रन्थिज्वरप्रदाःमन्थरज्वरः मिधुरज्वरःइ! पूर्वरूपम्स्वल्पकासोऽरुचिस्तृष्णा प्रलापो दाहवाञ्ज्वरःअङ्गानां गौरवं ग्लानिरस्थिभेदो विनिद्र तारूपम्ज्वरो दाहो भ्रमो मोहश्चातिसारो वमिस्तृषाअनिद्रा च मुखं रक्तं तालु जिह्वा च शुष्यतिग्रीवामध्ये तु दृश्यन्ते स्फोटकाः सर्षपोपमाःएतच्चिह्नं भवेद्यत्र स मधुरक उच्यतेदण्डकज्वरस्य निदानं लक्षणं चसन्ध्यस्थिकण्ठे ज्वरितस्य यस्य दण्डाभिघातप्रभवा रुजेवरुजा प्रजायेत निशादिनेषु ज्वरं तमाहुः किल दण्डकाख्यम्दिनद्वयं दिनैकं वा विश्रम्यासौ प्रवर्त्ततेसर्व्वदेहचरः शोथः प्लीहा चाप्यत्र जायतेस प्रतिश्याय कासार्त्तो ज्वरी प्रमुच्यते ज्वरात्अष्टमे दिवसे प्रायो वातश्लेष्मसमुद्भवात्रसाज्ञानलक्षणम्भुञ्जानस्य नरस्यान्नं मधुरप्रभृतीन् रसान्रसना यन्न जानाति रसाज्ञानं तदुच्यतेपाचकपित्तस्य वैगुण्यमस्य व्याधेर्निदानमित्येके भाषन्तेसङ्क्रामकतरुणशोथविशेषः बिए!री बेरीइ!निदानम्वातश्लेष्मकरैर्भोज्यैः क्लिन्न शुष्कान्नभोजनैःसंयोगाद् विषतुल्यानां स्नेहानां च निषेवणैःनिःसारतण्डुलाहारैः प्राग्वातैर्हिमशीकरैःआर्द्र भूमौ चिरं वासाज्जनाकीर्ण स्थलेषु चक्षीणशोणितमांसाग्नेर्दौर्बल्यं हृदि जायतेयकृत्प्लीह्नोर्विकारश्च क्रमतः परिवर्द्धतेप्रजायते ततः शोथो रोगः सङ्क्रामको नवःतस्य लक्षणमप्यग्रे समासेनाभिधीयतेपूर्वरूपम्अल्पत्वादस्य रोगस्य प्राग्रूपं न च लक्ष्यतेदृश्यते केवलं तत्र वह्निसादो विवर्णतालक्षणम्जङ्घास्थिनि यदा शोथो जायते हृत्प्रवेपतेतदा तन्तु विजानीयाच्छोथं सङ्क्रामकं नवम्स्नायूनां मांसपेशीनां क्रिया सम्यङ् न वर्ततेजङ्घायां प्रथमं भूत्वा शोथः सर्वतनौ व्रजेत्विड्भेदः श्वासकृच्छ्रत्वमथवा विड्विबद्धतास्वल्पत्वमस्य जायेत मूत्रस्य रुधिरस्य चवेदना सर्वगात्रेषु जानुयुग्मे च दुःसहानानाप्रकारं जानीयादिमं व्याधिं विचक्षणःवातरोगेण तुल्यानि वीक्ष्य लिङ्गानि कानिचित्वातरोगमिमं केचिन्मन्यन्ते भ्रान्तिहेतुतःतीव्रज्वरविशेषोऽय न चासौनूतनामयःइत्यादीनि प्रभाषन्ते केचिदन्ये भिषग्विदःनवाविर्भूतरोगोऽय शोथः सङ्क्रामको नवःस वङ्गान् भूयसा हन्ति स्वच्छतण्डुलभोजिनःगोधूमरोटिकाहाराः पञ्चनदादिवासिनःसङ्क्रामकमिमं शोथं लभन्ते प्रायशो नहिवाराणस्यादिदेशेषु रोगस्यास्य प्रकोपतःप्रजानान्तु सहस्राणि तूर्णं मृत्युमुखं ययुःअसाध्यलक्षणम्सव्यथं हृदयं यस्य क्षीणस्य स्पन्दते द्रुतम्रक्तपूर्णं शिराकोष्ठं स शीघ्रं विजहात्यसून्अनेन शोथेन निपीड्यमानः कष्टातिकष्टं शिरसो विकारम्आन्ध्यं सुदुःखं त्वथवाऽभ्युपैति घोरांस्तथाऽन्यान् नयनामयांश्चमृत्योर्भयं वितनुते जनमण्डलेषु प्रध्वंसने जनपदं प्रतिकूलदैवात्शोथो ह्ययं बहुरुजस्तरुणः कदाचिद् हृद्रो गरक्तवमनैः सहसाऽतिदुःखैःकफाश्रितवायोर्लक्षणम्प्राक्सञ्चितं यस्य बलासजालमन्वेति भूयः प्रबलः समीरःतेनावृतस्तं प्रविधाय शुष्कं कुर्यात् प्रवृद्धोऽथ विकारवृन्दम्त्वक्स्फोटनं पाणिपदीक्षणानां दाहोऽतिशोषो वदनस्य तोदःहृत्कम्पदौर्बल्यमतिश्रमत्वं भ्रान्तिर्मृषोद्भावनजल्पनं चवैस्वर्यमालस्यमथाविपाको ह्युदासचिन्ताऽरुचिगात्रभङ्गाःनिद्रा क्षयो मूत्रपुरीषबन्धस्तमः प्रवेशो गमनेष्वशक्तिःश्लेष्मान्वितोऽय कथितः समीरः===============अथ नेत्रादिपरीक्षाऽधिकारः ३३नेत्रं स्यात्पवनाद्रू क्षं धूम्रवर्णं तथाऽरुणम्कोटरान्तःप्रविष्टं च तथा स्तब्धविलोकनम्हरिद्रा खण्डवर्णं वा रक्तं वा हरितं तथादीपद्वेषि सदाहञ्च नेत्रं स्यात्पित्तकोपतःचक्षुर्बलासबाहुल्यात्स्निग्धं स्यात्सलिलप्लुतम्तथा धवलवर्णञ्च ज्योतिहीनं बलान्वितम्नेत्रं द्विदोषबाहुल्यात्स्याद् दोषद्वयलक्षणम्त्रिदोषलिङ्गसङ्घेन तं मारयति रोगिणम्त्रिदोषदूषितं नेत्रमन्तर्मग्नं भृशं भवेत्त्रिलिङ्गं सलिलस्रावि प्रान्तेनोन्मीलयत्यपिजिह्वापरीक्षाशाकपत्रप्रभा रूक्षा स्फुटना रसनाऽनिलात्रक्ता श्यावा भवेत्पित्ताल्लिप्ताऽद्रा धवला कफात्परिदग्धा खरस्पर्शा कृष्णा दोषत्रयेऽधिकेसैव दोषद्वयाधिक्ये दोषद्वितयलक्षणामूत्रपरीक्षावातेन पाण्डुरं मूत्रं रक्तं नीलञ्च पित्ततःरक्तमेव भवेद्र क्ताद्धवलं फेनिलं कफात्पुरीषपरीक्षावातान्मले तु दृढता शुष्कता चापि जायतेपीतता जायते पित्ताच्छुक्लता श्लेष्मतो भवेत्सन्निपाते च सर्वाणि लक्षणानि भवन्ति हिविशेषतःत्रुटितं फेनिलं रूक्षं धूमलं वातकोपतःवातश्लेष्मविकारेण जायते कपिशं मलम्बद्धं सुत्रुटितं पीतं श्यामं पित्तानिलाद् भवेत्पीतश्वेतं श्लेष्मपित्तादीषत् सान्द्रं च पिच्छिलम्श्यामत्रुटित पीताभं बद्धश्वेतं त्रिदोषतःदुर्गन्धः शीतलश्चैव विष्ठोत्सर्गो यदा भवेत्तदा जीर्णं मलं वैद्यैर्दोषज्ञैः परिभाष्यतेकपिलं गुटिकायुक्तं यदि वर्चोऽवलोक्यतेप्रक्षीणमलदोषेण दूषितः परिकथ्यतेवातस्य च मलं कृष्णं ततः पित्तस्य पीतविट्रक्तवर्णं मलं किञ्चिन्मलं श्वेतं कफोद्भवम्आमं वा श्लेष्मजं प्राहुर्मिश्रितं द्वन्द्वजं भवेत्अपक्वं स्यादजीर्णे तु पक्वं स्वच्छं मलं भवेत्अत्यग्नौ पिण्डितं शुष्कं मन्दाग्नौ तु द्र वीकृतम्दुर्गन्धं चन्द्रि कायुक्तमसाध्यं मललक्षणम्इति प्रथमं परिशिष्टम् N/A References : N/A Last Updated : March 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP