संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|चतुर्थस्थानम्| द्वितीयोऽध्यायः चतुर्थस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः चतुर्थस्थानम् - द्वितीयोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता द्वितीयोऽध्यायः Translation - भाषांतर आत्रेय उवाचपाकश्चतुर्विधः प्रोक्तस्तैलानां शृणु पुत्रकखरचिक्कणमध्यस्तु विशोषी चापरो मतः ॥१॥दुग्धारनाल क्वाथश्च दधि वा शोषयत्यपिन चार्द्रता चौषधानां निष्फेनौ विमलस्तु यः ॥२॥मञ्जिष्ठारससङ्काशो भवेत्सखरपाकगःवातघ्नः सोऽपि विज्ञेयो मर्दनाभ्यञ्जने हितः ॥३॥सफेनो मध्य पाकी च द्रवो भवति पिण्डितःनातिफेनमफेनं वा मध्यपाकं विनिर्दिशेत् ॥४॥बस्तौ पाने च शस्तञ्च त्रिदोषघ्नं भिषग्वरसफेनश्चन्द्रभो यस्य भवेत्स्वस्थसमो द्रवः ॥५॥स च चिक्कणकः पाको नस्ये प्रोक्तो हितः सदा ॥६॥सधूमश्चातिदग्धश्च दग्धगन्धरसस्तथाविज्ञेयो वातशोषी च वर्जितः सर्व कर्मसु ॥७॥मर्दने खरपाकश्च बस्तौ चिक्कणपाकितःबस्तौ पानेमध्यपाको विशोषी वर्जितस्तथा ॥८॥पक्षे सिध्यति तैलञ्च सप्ताहे घृतमेव चकषायः प्रहरेणापि पत्नेनैव प्रसाधयेत् ॥९॥इत्यात्रेयभाषिते हारीतोत्तरे चतुर्थे सूत्रस्थाने तैलपाकविधिर्नाम द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP