संस्कृत सूची|संस्कृत साहित्य|संहिता|प्रकाशसंहिता|द्वितीयपरिच्छेदः| षष्ठोऽध्यायः द्वितीयपरिच्छेदः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः द्वितीयपरिच्छेदः - षष्ठोऽध्यायः प्रकाशसंहिता Tags : prakasha samhitasamhitaप्रकाश संहितासंहिता षष्ठोऽध्यायः Translation - भाषांतर श्रीभगवानुवाचअतलाद्या सप्तलोकाः बिले स्वर्गाः प्रकीर्तिताः ।मेरोरधस्तात्ते सर्वे प्रायशो ज्ञानि सङ्कुलाः ॥१॥एषामुपरि भूलोकः सर्वलोकतमो मतः ।तस्मिन्हि भारते वर्षे बर्हिष्मत्ताख्यपत्तने ॥२॥शतरूपापतिः पूर्वं मनुः स्वायंभुवोऽभवत् ।देवदासानेककोटिसेविताङ्घ्रिसरोरुहः ॥३॥शशास मेदिनीं एतां प्रजाड्योरसवत्सदा ।देवहूतिस्तु तत्पुत्री क्वचिद्धर्म्यगता भवथ् ॥४॥तां दृष्ट्वा संगनोभूमौ गन्धर्वाधीश्वरोऽपतत्(भवत्) ।रूपयौवनसम्पन्नां तामारोप्य रथे स्वयं ॥५॥भार्यया सह तत्रागात्सरस्वत्यां तटं प्रति ।तत्र बिन्दुसरस्तीरे तपतः कर्दमस्यतां ॥६॥पुण्याश्रमं प्रदत्वात्तु मनुः कृछ्रात्स्वकं पुरं ।गते राजनि सा देवी वस्त्राभरणसञ्चयं ॥७॥नद्यां प्रास्य विरक्तस्य चीर्णवेणाजिनाम्बरा ।व्रतक्षामापर्यचरत्पतिं भक्त्या जटाधरा ॥८॥इत्थं तया सेविताङ्घ्री राजपुत्रीमभाषत ।हितं वदेति सा देवी(वव्रे) तं तु योगप्रभावतः ॥९॥संयोजनायामुमुद्यद्रविरक्त(त्न)प्रभान्वितं ।सर्वोपस्करणोपेतं पक्षिवृक्षजला(समा)कुलं ॥१०॥सौवर्णं कालगमतं सुगन्धि सुमनोहरं ।स्वयं तदाहृदे स्नात्वा बभौ सर्वमनोहरः ॥११॥सापि श्रीरिव सौन्दर्यवस्त्राभरणभूषणैः ।तुष्ट्वा स सतया सार्धं रेमेब्दशतकं ऋषिः ॥१२॥मेर्वादिषु चरन्दिव्यविमानस्थः समुक्तवत् ।सुशब्दस्पर्शसुरसरूपगन्धमनोहरः ॥१३॥निन्ये कालं क्षणमिव कुसुमाकरवायुभिः ।इत्येनं(रत्येत)बिन्दुसरसस्तीर आसन्नवाङ्गनाः ॥१४॥तत्पुत्रिकानां नामानि श्रुणु मे वदतः सदा ।कलानसूया श्रद्धा च हविर्भूश्च गतिः क्रिया ॥१५॥अरुन्धती च चित्तिश्च ख्यातिः कर्दमपुत्रिकाः ।कलां मरीचये प्रादादनुसूयामथा त्रयी ॥१६॥श्रद्धामङ्गिरसे प्रादात्पुलस्त्याय हविर्भुवम्(भुवि) ।पुलहाय गतिं प्रादात्क्रतवे सक्रियां सुतां ॥१७॥अरुन्धतीं वसिष्ठाय चित्तिं च भृगवेर्पयत् ।अथर्वणाय च ख्यातिं दत्वा हृष्टो बभूव ह ॥१८॥ततः शताब्दं चिक्रीड्य ततोस्यां कपिलं व्यधात् ।स कर्दम तपोयोगात्साक्षान्नारायणो भवथ् ॥१९॥त्यक्त्वा विमानं भार्यां च कर्दमस्तपसे ययौ ।औत्पत्तिब्रह्मचारी तु तस्मिन्बिन्दुसरस्तटे ॥२०॥स्वमात्रे कपिलस्तत्वमुक्त्वामुक्तिं ददौ मुनिः ।तत्तत्वं कपिलोपाख्यं कर्मग्रन्थिनिकृन्तनं ॥२१॥मरीचेः कश्यपो जज्ञे इह वैवस्वतान्तरे ।पुनर्जातस्य दक्षस्य त्रयोदशसुतासु सः ॥२२॥कश्यपाय प्रदत्तासु दित्यादित्यादिकासु च ।पूर्वोक्तास्तनया आसन्पूर्वमन्वन्तरेषु सः ॥२३॥कश्यपो नाम भेदेषु मरीचेस्तनयो भवत् ।अन्यस्यामपि भार्यायां दक्षजाः षष्ठिकन्यकाः ॥२४॥प्रतिमन्वन्तेरेष्वासुः कश्यपाय त्रयोदश ।दत्तास्यासुर्नामभेदेन ता जाताः सुरासुराः ॥२५॥पूर्वोक्ता नामभेदेन स्वस्वव्यापारसाधकाः ।अस्मिन्कश्यपनामासीद्भार्यापुत्रादयोधुना ॥२६॥प्रोक्तव्यापारनामानः पूर्ववद्भावि कालके ।स तात्विक ऋषिप्रोक्तपुष्कराच्च शतावराः ॥२७॥अजास्य दक्षतनयाः पूर्वमन्वन्तरेषु च ।सप्तविंशति संख्याकाः इन्दोर्भार्या बभूविरे ॥२८॥अश्विन्याद्यास्तारकास्ते कालचक्रप्रवर्तकाः ।सरोहिण्यां पक्षपातादन्यासु विपरीतदृक् ॥२९॥दक्षशापादसन्तानाः सर्वमन्वन्तरेष्वपि ।भूताङ्गिरकृशाश्वेभ्यो द्वे द्वे दत्ते च भानुजाः ॥३०॥भानुनां नक्षत्राणां मनुजः--------- ।दत्ताश्चतश्रो दक्षाय दशधर्माय तासु वै ॥३१॥बभूवुस्तनयाः प्रायो ज्ञानभक्त्यादिमानिनः ।अत्रिनेत्रोद्भवश्चन्द्रः सर्वमन्वन्तरेष्वपि ॥३२॥वृक्षाणामौषधीनां च नक्षत्राणां च वल्लभः ।निशाकरो हिमकरस्तपहृत्सुखदःसदा(कृत्सदा) ॥३३॥(निराशकरो ?)अमृतांशोसदन्नेशो ह्यब्दिजः श्रीसहोदरः ।एधमान कलानाथः शशाङ्को लोकबान्धवः ॥३४॥अनसूयासुतावत्रे दत्तदूर्वाससावुभौ ।योगप्रवर्तको योगाद्ब्रह्मण्यौ ब्रह्मचारिणौ ॥३५॥दत्तो नारायणःसाक्षात्दूर्वासाः शङ्करांशकः ।संचण्डकोपः पृथया पूजितो मनुमादिशथ् ॥३६॥तेनैव कर्णधर्मादीन्त्रीनसूत सुपूजिता ।सोम्बरीषादल्पशिष्टद्वादश्यां भोजनेर्थितः ॥३७॥ओमित्युक्त्वा तु कालिन्द्यां मग्नो नागाच्चिरं नृपः ।विप्राज्ञयाम्भसा चक्रे पारणं साधनेच्छया ॥३८॥तज्ञात्वाथादिशत्कृत्यं राज्ञे सोप्यस्मरधरिं ।पूर्वमाप्तं हरेश्चक्रं कृत्यां हत्वा विभीषयथ् ॥३९॥स ऋषिः सर्वलोकेशैः विष्णुना च निराकृतः ।अम्बरीशं प्राप्य तेन मोचितो भोजितोभ्यगाथ् ॥४०॥स दूर्वासाः रामकृष्णौ प्राप्य कृष्णामयाचत ।सद्योन्नं दीयतामह्यं इति तैस्तुष्ट आव्रजथ् ॥४१॥श्रद्धयामङ्गिराः प्राप गुरुमग्निमुचथ्यकं ।संवर्तकाग्नितनयाः प्रागुक्ताश्च गुरोरभूथ् ॥४२॥भूमावुचथ्यभार्यायां अन्तर्वर्तिरिरंसतः ।गर्भस्थदीर्घतपसः पादाच्छन्नेभगे भुवि ॥४३॥पतिताद्रेतसो जातो मुनिः परमधार्मिकः ।भरद्वाजो मरुद्भिः स पालितोभूत्पुरा किल ॥४४॥वैवस्वतेन्तरे चन्द्रवंशे भरतनामके ।निःसन्ताने सति तदा मरुतस्तस्य तं ददुः ॥४५॥स उदूसत्प्रचुतुत्वन्तुमुत्थाप्य च विसृज्यतान् ।पुनस्तपोचरद्धीर्घकालं भरतवंशजे ॥४६॥शन्तनौ श्याशितजगद्गङ्गायां चरतस्तपः ।भरद्वाजस्कन्नमूर्वशी दर्शनादनु ॥४७॥रेतो दधार द्रोणी(णे) सः तस्माद्रोणो भवद्गुरुः ।तस्मात्कृपी शङ्करांशमश्वत्थामा समाप हि ॥४८॥बृहस्पतेस्तु ताराभ्यां कच आसीत्सुतः पुरा ।वैवस्वतेन्तरे सोभूच्छुक्रशिष्यः तपोनिधिः ॥४९॥निषिद्धा तेन सा विद्या नस्यात्त इति शासयत् ।कामातुरापतिर्मास्तु तानि वेत्य(त्थ ?) शपन्मुनिः ॥५०॥मृतसञ्जीविनीमाप तेनयातास्ततः क्वचित् ।देवयानीं गुरुसुतां वने तद्योगमैच्छत ॥५१॥सह विध्य(द्य ?)स्तु शिष्येतो भर्तातेस्तु द्विजेतरः ।इत्याहातो कविप्रोक्तशिष्येष्वप्यधिकं भवेथ् ॥५२॥देवया(धा)नी हृदे पुत्र्याराज्ञावेदषयघर्षणः ॥निक्षिप्ता शुक्रशिष्यस्य तयाम्बुक्रीडनेतरा ॥५३॥स्ववस्त्रधारणादात्मक्षिप्तया दुःखिताभवत् ।ह्रदेऽव सद्देवयानी राजकन्याहृताम्बरा ॥५४॥गतायां राजनन्दिन्यां पुरतः समुपागतः ।ययातिश्चन्द्रवंशोत्थो मृगयार्थं तदाचरथ् ॥५५॥तां विवस्त्रां समुधृत्य स्वोत्तरीयं ददौ नृपः ।तं धृत्वा सा गृहं प्रापराजागात्स्वपुरं तदा ॥५६॥तदर्थं कुपितं शुक्रं राजानत्वा प्रसाद्य च ।गुरोः सुतायै स्वसुतां दासीत्वेऽकल्पयन्नृपः ॥५७॥शुक्रो ययाति नृपतेः कन्यां स्वां प्रददौ मुदा ।दास्या शर्मिष्टया युक्तां दासी राज्ञे भवेत्सती ॥५८॥यदुःसुतो देवयान्यां तद्वंशः कृतवीर्यजः ।अर्जुनो यो दशग्रीवं निगृह्य पुनराप तथ् ॥५९॥हृतो दत्तावितोबाहुसहस्रयुगपि स्फुटं ।तद्वंशजाप्सरसुताद्वसुदेवादभूधरिः ॥६०॥इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे षष्ठोऽध्यायः N/A References : N/A Last Updated : January 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP