संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सौत्रामणी| अनुवाकः १० सौत्रामणी अनुवाकः १ अनुवाकः २ अनुवाकः ३ अनुवाकः ४ अनुवाकः ५ अनुवाकः ६ अनुवाकः ७ अनुवाकः ८ अनुवाकः ९ अनुवाकः १० अनुवाकः ११ अनुवाकः १२ सौत्रामणी - अनुवाकः १० पूर्व दिशाचे एक नाव ज्याचा स्वामी इंद्र आहे, त्याच्या प्रीत्यर्थ केला जाणारा एक प्रकारचा यज्ञ. Tags : sanskritsautramaniyagnyaयज्ञसंस्कृतसौत्रामणी अनुवाकः १० Translation - भाषांतर पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः ।पवित्रेण शतायुषा विश्वमायुर् व्यश्नवै ॥पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः ।पवित्रेण शतायुषा सर्वमायुर् व्यश्नवै ॥अग्ना आयूंषि पवसे ॥पवमानः स्वर्जनः पवित्रेण विचर्षणिः ।यः पोता स पुनातु मा ॥पुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।पुनन्तु विश्वा भूता मा जातवेदः पुनाहि मा ॥पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे ।ज्योक् च सूर्यं दृशे ॥उभाभ्यां देव सवितः पवित्रेण सवेन च ।मां पुनाहि विश्वतः ॥पवित्रेण पुनाहि मा शुक्रेण देव दीद्यत् ।अग्ने क्रत्वा क्रतूंरनु ॥यत्ते पवित्रं अर्चिष्यग्ने विततमन्तरा ।ब्रह्म तेन पुनीमहे ॥वैश्वदेवी पुनती देव्यागाद् यस्या बह्व्यस्तन्वो वीतपृष्ठाः ।तया मदन्तः सधमाद्येषु वयं स्याम पतयो रयीणां ॥वैश्वानरो रश्मिभिर्मा पुनातु वातः प्राणेनेषिरो मयोभूः ।द्यावापृथिवी पयसा पयोभिर् ऋतावरी यज्ञिये मा पुनीताम् ॥बृहद्भिः सवितस्त्रिभिर्वर्षिष्ठैर्देव मन्मभिः ।अग्ने दक्षैः पुनीमहे ॥ये समानाः समनसः पितरो यमराज्ये ।तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ॥ये समानाः समनसो जीवा जीवेषु मामकाः ।तेषां श्रीर्मयि कल्पतामस्मिंल्लोके शतं समाः ॥द्वे स्रुती ॥इदं हविः प्रजननं मे अस्तु दशवीरं सर्वगणं स्वस्तये ।आत्मसनि प्रजासनि क्षेत्रसनि पशुसनि लोकसनि अभयसनि ॥अग्निः प्रजां बहुलां मे कृणोत्वन्नं पयो रेतो अस्मासु धेहि ॥यद्देवा देवहेडनं देवासश्चकृमा वयम् ।अग्निर्मा तस्मादेनसो विश्वान् मुञ्चत्वंहसः ॥यदि स्वपन् यदि जाग्रदेनांसि चकृमा वयम् ।वायुर्मा तस्मादेनसो विश्वान् मुञ्चत्वंहसः ॥यदि दिवा यदि नक्तमेनांसि चकृमा वयम् ।सूर्यो मा तस्मादेनसो विश्वान् मुञ्चत्वंहसः ॥धाम्नो धाम्नो ॥यद् ग्रामे ॥पवित्रमसि यज्ञस्य पवित्रं यजमानस्य ।तन्मा पुनातु सर्वतो विश्वस्माद्देवकिल्बिषात् सर्वस्माद्देवकिल्ब्इषात् ॥द्रुपदादिवेन् मुमुचानः स्विन्नः स्नात्वी मलादिव ।पूतं पवित्रेणेवाज्यं विश्वे मुञ्चन्तु मैनसः ॥समावृतत्पृथिवी समुषाः समु सूर्यः ।वैश्वानरज्योतिर् भूयासं विभुं कामं व्यशीय भूः स्वाहा ॥ N/A References : N/A Last Updated : December 13, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP