सृष्टिखण्डः - अध्यायः ०९
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
ब्रह्मोवाच॥
अथाकर्ण्य नुर्तिविष्णुकृतां स्वस्य महेश्वरः॥
प्रादुर्बभूव सुप्रीतस्सवामं करुणानिधिः ॥१॥
पंचवक्त्रस्त्रिनयनो भालचन्द्रो जटाधरः॥
गौरवर्णो विशालाक्षो भस्मोद्धूलितविग्रहः ॥२॥
दशबाहुर्नीलगल सर्वाभरणभूषितः॥
सर्वांगसुन्दरो भस्मत्रिपुण्ड्रांकितमस्तकः ॥३॥
तं दृष्ट्वा तादृशं देवं सवामं परमेश्वरम्॥
तुष्टाव पुनरिष्टाभिर्वाग्भिर्विष्णुर्मया सह ॥४॥
निगमं श्वासरूपेण ददौ तस्मै ततो हरः॥
विष्णवे च प्रसन्नात्मा महेशः करुणाकरः ॥५॥
ततो ज्ञानमदात्तस्मै हरये परमात्मने॥
परमात्मा पुनर्मह्यं दत्तवान्कृपया मुने ॥६॥
संप्राप्य निगमं विष्णुः पप्रच्छ पुनरेव तम्॥
कृतार्थस्सांजलिर्नत्वा मया सह महेश्वरम् ॥७॥
विष्णुरुवाच॥
कथं च तुष्यसे देव मया पूज्यः कथं प्रभो ॥
कथं ध्यानं प्रकर्तव्यं कथं व्रजसि वश्यताम् ॥८॥
किं कर्तव्यं महादेव ह्यावाभ्यां तव शासनात्॥
सदासदाज्ञापय नौ प्रीत्यर्थं कुरु शंकर ॥९॥
एतत्सर्वं महाराज कृपां कृत्वाऽवयोः प्रभो॥
कथनीयं तथान्यच्च विज्ञाय स्वानुगौ शिव ॥१०॥
ब्रह्मोवाच॥
इत्येतद्वचनं श्रुत्वा प्रसन्नो भगवान्हरः॥
उवाच वचनं प्रीत्या सुप्रसन्नः कृपानिधिः ॥११॥
श्रीशिव उवाच॥
भक्त्या च भवतोर्नूनं प्रीतोहं सुरसत्तमौ॥
पश्यतं मां महादेवं भयं सर्वं विमुंचताम् ॥१२॥
मम लिंगं सदा पूज्य ध्येयं चैतादृशं मम॥
इदानीं दृश्यते यद्वत्तथा कार्यं प्रयत्नतः ॥१३॥
पूजितो लिंगरूपेण प्रसन्नो विविधं फलम्॥
दास्यामि सर्वलोकेभ्यो मनोभीष्टान्यनेकशः ॥१४॥
यदा दुःखं भवेत्तत्र युवयोस्सुरसत्तमौ॥
पूजिते मम लिंगे च तदा स्याद्दुःखनाशनम् ॥१५॥
युवां प्रसूतौ प्रकृतेर्मदीयाया महाबलौ॥
गात्राभ्यां सव्यसव्याभ्यां मम सर्वेश्वरस्य हि ॥१६॥
अयं मे दक्षिणात्पार्श्वाद्ब्रह्मा लोकपितामहः॥
वामपार्श्वाच्च विष्णुस्त्वं समुत्पन्नः परात्मनः ॥१७॥
प्रीतोहं युवयोस्सम्यग्वरं दद्यां यथेप्सितम्॥
मयि भक्तिर्दृढा भूयाद्युवयोरभ्यनुज्ञया ॥१८॥
पार्थिवीं चैव मन्मूर्तिं विधाय कुरुतं युवाम्॥
सेवां च विविधां प्राज्ञौ कृत्वा सुखमवाप्स्यथ ॥१९॥
ब्रह्मन्सृष्टिं कुरु त्वं हि मदाज्ञापरिपालकः॥
वत्स वत्स हरे त्वं च पालयैवं चराचरम् ॥२०॥
ब्रह्मोवाच॥
इत्युक्त्वा नौ प्रभुरताभ्यां पूजाविधिमदाच्छुभाम्॥
येनैव पूजितश्शंभुः फलं यच्छत्यनेकशः ॥२१॥
ब्रह्मोवाच॥
इत्याकर्ण्य वचश्शंभोर्मया च सहितो हरिः॥
प्रत्युवाच महेशानं प्रणिपत्य कृतांजलिः ॥२२॥
विष्णुरुवाच॥
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ॥
भक्तिर्भवतु नौ नित्यं त्वयि चाव्यभिचारिणी ॥२३॥
त्वमप्यवतरस्वाद्य लीलया निर्गुणोपि हि॥
सहायं कुरु नौ तात त्वं परः परमेश्वरः ॥२४॥
आवयोर्देवदेवेश विवादमपि शोभनम्॥
इहागतो भवान्यस्माद्विवादशमनाय नौ ॥२५॥
ब्रह्मोवाच॥
तस्य तद्वचनं श्रुत्वा पुनः प्राह हरो हरिम्॥
प्रणिपत्य स्थितं मूर्ध्ना कृतांजलिपुटः स्वयम् ॥२६॥
श्रीमहेश उवाच॥
प्रलयस्थितिसर्गाणां कर्ताहं सगुणोऽगुणः॥
परब्रह्म निर्विकारी सच्चिदानंदलक्षणः ॥२७॥
त्रिया भिन्नो ह्यहं विष्णो ब्रह्मविष्णुहराख्यया॥
सर्गरक्षालयगुणैर्निष्कलोहं सदा हरे ॥२८॥
स्तुतोऽहं यत्त्वया विष्णो ब्रह्मणा मेऽवतारणे॥
प्रार्थनां तां करिष्यामि सत्यां यद्भक्तवत्सलः ॥२९॥
मद्रूपं परमं ब्रह्मन्नीदृशं भवदंगतः॥
प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥३०॥
मदंशात्तस्य सामर्थ्यं न्यूनं नैव भविष्यति॥
योहं सोहं न भेदोस्ति पूजाविधिविधानतः ॥३१॥
यथा च ज्योतिषस्संगाज्जलादेः स्पर्शता न वै॥
तथा ममागुणस्यापि संयोगाद्बन्धनं न हि ॥३२॥
शिवरूपं ममैतञ्च रुद्रोऽपि शिववत्तदा॥
न तत्र परभेदो वै कर्तव्यश्च महामुने ॥३३॥
वस्तुतो ह्येकरूपं हि द्विधा भिन्नं जगत्युत॥
अतो न भेदा विज्ञेयः शिवे रुद्रे कदाचन ॥३४॥
सुवर्णस्य तथैकस्य वस्तुत्वं नैव गच्छति॥
अलंकृतिकृते देव नामभेदो न वस्तुतः ॥३५॥
तथैकस्या मृदो भेदो नानापात्रे न वस्तुतः॥
कारणस्यैव कार्ये च सन्निधानं निदर्शनम् ॥३६॥
ज्ञातव्यं बुधवर्यैश्च निर्मलज्ञानिभिः सुरौ॥
एवं ज्ञात्वा भवभ्यां तु न दृश्यं भेदकार णम् ॥३७॥
वस्तुवत्सर्वदृश्यं च शिवरूपम्मतम्मम॥
अहं भवानजश्चैव रुद्रो योऽयं भविष्यति ॥३८॥
एकरूपा न भेदस्तु भेदे वै बंधनं भवेत्॥
तथापि च मदीयं हि शिवरूपं सनातनम् ॥३९॥
मूलीभूतं सदोक्तं च सत्यज्ञानमनंतकम्॥
एवं ज्ञात्वा सदा ध्येयं मनसा चैव तत्त्वतः ॥४०॥
श्रूयतां चैव भो ब्रह्मन्यद्गोप्यं कथ्यते मया॥
भवंतौ प्रकृतेर्यातौ नायं वै प्रकृतेः पुनः ॥४१॥
मदाज्ञा जायते तत्र ब्रह्मणो भ्रुकुटेरहम्॥
गुणेष्वपि यथा प्रोक्तस्तामसः प्रकृतो हरः ॥४२॥
वैकारिकश्च विज्ञेयो योऽहंकार उदाहृतः॥
नामतो वस्तुतो नैव तामसः परिचक्ष्यते ॥४३॥
एतस्मात्कारणाद्ब्रह्मन्करणीयमिदं त्वया॥
सृष्टिकर्ता भव ब्रह्मन्सृष्टेश्च पालको हरिः ॥४४॥
मदीयश्च तथांऽशो यो लयकर्ता भविष्यति॥
इयं या प्रकृतिर्देवी ह्युमाख्या परमेश्वरी ॥४५॥
तस्यास्तु शक्तिर्वा देवी ब्रह्माणं सा भजिष्यति॥
अन्या शक्तिः पुनस्तत्र प्रकृतेः संभविष्यति ॥४६॥
समाश्रयिष्यति विष्णुं लक्ष्मीरूपेण सा तदा॥
पुनश्च काली नाम्ना सा मदंशं प्राप्स्यति ध्रुवम् ॥४७॥
ज्योती रूपेण सा तत्र कार्यार्थे संभविष्यति॥
एवं देव्यास्तथा प्रोक्ताश्शक्तयः परमाश्शुभाः ॥४८॥
सृष्टिस्थितिलयानां हि कार्यं तासां क्रमाद्ध्रुवम्॥
एतस्याः प्रकृत्तेरंशा मत्प्रियायास्सुरौत्तम ॥४९॥
त्वं च लक्ष्मीमुपाश्रित्य कार्यं कर्तुमिहार्हसि॥
ब्रह्मंस्त्वं च गिरां देवीं प्रकृत्यंशामवाप्य च ॥५०॥
सृष्टिकार्यं हृदा कर्तुम्मन्निदेशादिहार्हसि॥
अहं कालीं समाश्रित्य मत्प्रियांशां परात्पराम् ॥५१॥
रुद्ररूपेण प्रलयं करिष्ये कार्यमुत्तमम्॥
चतुर्वर्णमयं लोकं तत्सर्वैराश्रमै ध्रुवम् ॥५२॥
तदन्यैर्विविधैः कार्यैः कृत्वा सुखमवाप्स्यथः॥
ज्ञानविज्ञानसंयुक्तो लोकानां हितकारकः ॥५३॥
मुक्तिदोऽत्र भवानद्य भव लोके मदाज्ञया॥
मद्दर्शने फलं यद्वत्तदेव तव दर्शने ॥५४॥
इति दत्तो वरस्तेद्य सत्यं सत्यं न संशयः॥
ममैव हृदये विष्णुर्विष्णोश्च हृदये ह्यहम् ॥५५॥
उभयोरंतरं यो वै न जानाति मनो मम॥
वामांगजो मम हरिर्दक्षिणांगोद्भवो विधिः ॥५६॥
महाप्रलयकृद्रुद्रो विश्वात्मा हृदयोद्भवः॥
त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुभवाख्यया ॥५७॥
सर्गरक्षालयकरस्त्रिगुणैरज आदिभिः॥
गुणभिन्नश्शिवस्साक्षात्प्रकृते पुरुषात्परः ॥५८॥
परं ब्रह्माद्वयो नित्योऽनन्तः पूर्णो निरंजनः॥
अंतस्तमो वहिस्सत्त्वस्त्रिजगत्पालको हरिः ॥५९॥
अंतस्सत्त्वस्तमोबाह्यस्त्रिजगल्लयकृद्धरः ॥६०॥
अंतर्बहीरजाश्चैव त्रिजगत्सृष्टिकृद्विधिः॥
एवं गुणास्त्रिदेवेषु गुणभिन्नः शिवः स्मृतः ॥६१॥
विष्णो सृष्टिकरं प्रीत्या पालयैनं पितामहम्॥
संपूज्यस्त्रिषु लोकेषु भविष्यसि मदाज्ञया ॥६२॥
तव सेव्यो विधेश्चापि रुद्र एव भविष्यति॥
शिवपूर्णावतारो हि त्रिजगल्लयकारकः ॥६३॥
पाद्मे भविष्यति सुतः कल्पे तव पितामहः॥
तदा द्रक्ष्यसि मां चैव सोऽपि द्रक्ष्यति पद्मजः ॥६४॥
एवमुक्त्वा महेशानः कृपां कृत्वातुलां हरः॥
पुनः प्रोवाच सुप्रीत्या विष्णुं सर्वेश्वरः प्रभुः ॥६५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथम खण्डे सृष्ट्युपाख्याने शिवतत्त्ववर्णनो नाम नवमोऽध्यायः॥९॥
N/A
References : N/A
Last Updated : October 05, 2020
TOP