संस्कृत सूची|शास्त्रः|मंत्रशास्त्र| ५१ मंत्र जप आणि चिंतनासाठी. मंत्रशास्त्र मन्त्रमहोदधिः विविध मंत्र ५१ मंत्र जप आणि चिंतनासाठी. ५१ मंत्र जप आणि चिंतनासाठी. 51verses for chanting and contemplation.५१ मंत्र जप आणि चिंतनासाठी. Tags : mantra shastrashastraमंत्र शास्त्रशास्त्र ५१ मंत्र जप आणि चिंतनासाठी. Translation - भाषांतर १लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।येषामिन्दीवरश्यामो हृदये संप्रतिष्ठितः ॥२प्रविश्य कर्णरन्ध्रेण स्वानां भावसरोरुहम् ।धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥३शृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः ।हृद्यन्तस्थोह्यभद्राणि विधुनोति सुहृत्सताम् ॥४जन्मान्तर सहस्रेषु तपोध्यानसमाधिभिः ।नराणां क्षीणपापानां कृष्णे भक्ति: प्रजायते ॥५मधुरमधुरमेतन्मंगलं मंगलानांसकलनिगमवल्लीसत्फलं चित्स्वरूपम् ।सकृदपिपरिगीतं श्रद्धया हेलया वानृपवर नरमात्रं तारयेत् कृष्णनाम ॥६कृष्णव्रता कृष्णमनुस्मरन्तोरात्रौ च कृष्णं पुनरुत्थिता ये ।ते कृष्णदेहा प्रविशन्ति कृष्णंआज्यं यथा मन्त्रहुतं हुताशे ॥ ७एकोऽपि कृष्णस्य कृतः प्रणामोदशाश्वमेधावभृथेन तुल्यः ।दशाश्वमेधी पुनरेतिजन्मकृष्णप्रणामी न पुनर्भवाय ॥८मनसो वृत्तयो नः स्युः कृष्णपादांबुजाश्रयाःवाचोऽभिधायिनीर्नाम्नां कायस्तद्प्रह्वणादिषु ।कर्मभिर्भ्राम्यमाणानां यत्रक्वापीश्वरेच्छ्यामंगलाचरितैर्दानैः रतिर्नः कृष्ण ईश्वरे ॥ ९जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरंपाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु ।कृष्णं लोकय लोचनद्वय हरेर्गच्छांघ्रियुग्मालयंजिघ्र घ्राण मुकुन्द पादतुलसीं मूर्द्धन्नमाधोक्षजम् ॥१०सच्चिदानन्दरूपाय विश्वोत्पत्त्यादि हेतवे ।तापत्रय विनाशाय श्रीकृष्णाय वयं नुमः॥११कृष्णो रक्षतु मां चराचरगुरु: कृष्णं नमस्याम्यहंकृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः ।कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोस्म्यहंकृष्णे भक्तिरचञ्चलास्तु भगवन् हे कृष्ण तुभ्यं नमः ।कृष्णः, कृष्णं, कृष्णेन, कृष्णाय, कृष्णात्, कृष्णस्य, कृष्णे, हे कृष्ण!१२कृष्ण त्वदीय पदपंकजपञ्जरान्त-रद्यैव मे विशतु मानसराजहंस: ।प्राणप्रयाणसमये कफवातपित्तैःकण्ठावरोधनविधौ स्मरणं कुतस्ते ॥१३चिन्तयामि हरिमेवे सन्ततंमन्दमन्दहसिताननांबुजम् ।नन्दगोपतनयं परात्परंनारदादि मुनिबृन्दवन्दितम् ॥१४मज्जन्मनः फलमिदं मधुकैटभारेमत्प्रार्थनीय मदनुग्रह एष एव ।त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य-भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥१५दिवि वा भुवि वा ममास्तु वासोनरके वा नरकान्तक प्रकामं ।अवधीरितशारदारविन्दौचरणौ ते मरणेऽपि चिन्तयामि ॥ १६भवे भवे यथा भक्तिः पादयोस्तव जायते ।तथा कुरुष्वदेवेश नाथस्त्वं नो यतः प्रभो ॥नामसङ्कीर्तनं यस्य सर्वपापप्रणाशनम्प्रणामो दुःखशमनः तं नमामि हरिं परम् ॥१७विक्रेतुकामाऽखिलगोपकन्याःमुरारिपादार्पितचित्तवृत्तिः ।दध्यादिकं मोहवशादवोचत्गोविन्ददामोदरमाधवेति ॥१८शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसंपूज्यमन्त्रंसंसारोत्तारमन्त्रं समुपचिततमस्संघनिर्याणमन्त्रम् ।सर्वैश्वर्यैकमन्त्रं व्यसनभुजंगसंदष्टसंत्राणमन्त्रंजिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥१९व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्यौषधम्दैत्येन्द्रार्तिहरौषधं त्रिजगतां सञ्जीवनैकौषधम् ।भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधंश्रेयप्राप्तिकरौषधं पिब मनः श्रीकृष्ण दिव्यौषधम् ॥२०श्रेयःस्रुतिं भक्तिमुदस्य ते विभोक्लिश्यन्ति ये कवल बोधलब्धये ।तेषामस क्लेशल एव शिष्यतेनान्यद्यथा स्थूलतुषावघातिनां ॥(श्रीमद्भागवतम्, ब्रह्मकृता भगवत्स्तुतिः)२१जिह्वे रसज्ञे मधुरप्रिया त्वंसत्यं हितं त्वां परमं वदामि ।अवर्णयेथा मधुराक्षराणिगोविन्ददामोदरमाधवेति ॥२२भवजलधिमगाधं दुस्तरं निस्तरेयंकथमहमिति चेतो मा स्मगा कातरत्वम् ।सरसिजदृशि देवे तावकी भक्तिरेकानरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥२३कदा वा कालिन्दीकुवलयदलश्यामलतराःकटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिता ।कदा वा कन्दर्पप्रतिभटजटा चन्द्रशिशिराःकमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥२४कृष्णे हृत्वा सिचय निचयं कूलकुञ्जाधिरूढेमुग्द्धा काचिन्मुहुरनुनयैः किन्विति व्याहरन्ती ।सभ्रूभंगं सदरहसितं सत्रपं सानुरागंछायाशौरेः करतलगतान्यंबराण्याचकर्ष ॥२५हर्तुं कुम्भे विनिहितकरः स्वादुहैयंगवीनंदृष्ट्वा दामग्रहणचटुलां मातरं जातरोषाम् ।पायादीषत्प्रचलितपदो नावगच्छन्नतिष्ठ-न्मिथ्यागोपः सपदि नयने मीलयन् विश्वगोप्ता ॥२६कदा पक्षीन्द्रांसोपरिगतमजं कञ्जनयनंरमासंश्लिष्टांगं गगनरुचमापीतवसनम् ।गदाशंखांभोजारिवरकरमालोक्य सुचिरंगमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम् ॥२७यद्रोमरंध्रपरिपूर्तिविधावदक्षाःवाराहजन्मनि बभूवुरमी समुद्राः ।तं नाम नाथमरविन्ददृशं यशोदापाणिद्वयान्तरजलैः स्नपयां बभूव ॥२८लोकानुन्मदयन् श्रुतीर्मुखरयन् क्षोणीरुहान् हर्षयन्शैलान् विद्रवयन् मृगान् विवशयन् गोवृन्दमानन्दयन् ।गोपान् संभ्रमयन् मुनीन् मुकुलयन् सप्तस्वरान् जृंभयन्ओंकारार्थमुदीरयन् विजयते वंशीनिनादः शिशोः ॥२९हे मर्त्याः परमं हितं शृणुत वो वक्ष्यामि संक्षेपतःसंसारार्णवमापदूर्मिबहुलं सम्यक्प्रविश्य स्थिताः ।नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुंमन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥३०यां दृष्ट्वा यमुनां पिपासुरनिशं व्यूहो गवां गाहतेविद्युत्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते ।उत्तंसाय तमालपल्लवमिति छिन्दन्ति यं गोपिकाःकान्तिः कालियशासनस्य वपुषः सा पावनी पातु नः ॥३१अयि मुरळि मुकुन्दस्मेरवक्त्रारविन्द-श्वसनमधुरसज्ञे त्वां प्रणम्याऽद्य याचे ।अधरमणिसमीपं प्राप्तवत्यां भवत्यांकथय रहसि कर्णे मद्दशां नन्दसूनोः ॥३२उत्क्षेपणं गर्भगतस्य पादयोःकिं कल्पते मातुरधोक्षजागसे ।किमस्तिनास्तिव्यपदेशभूषितंतवास्ति कुक्षेः कियदप्यनन्तः ॥श्रीमद्भागवतम्, ब्रह्मणा कृता भगवतः स्तुतिः)३३येऽन्येऽरविन्दाक्ष विमुक्तमानिनःत्वय्यस्तभावादविशुद्धबुद्धयः ।आरुह्य कृच्छ्रेण परं पदं ततःपतन्त्यधोऽनादृतयुष्मदङ्घ्रयः ॥३४किं ब्रूमस्त्वां यशोदे कति कति सुकृतक्षेत्रवृन्दानि पूर्वंगत्वा कीदृग्विधानैः कति कति सुकृतान्यार्जितानि त्वयैव ।नो शक्रो न स्वयंभू न च मदनरिपुर्यस्य लेभे प्रसादंतत्पूर्णं ब्रह्म साक्षात् विलुठति विलपत् क्रोडमारोढुकामम् ॥ श्रीकृष्णः शरणं मम३५नद्यस्तदा तदुपधार्य मुकुन्दगीत-मावर्तलक्षितमनोभवभग्नवेगाः ।आलिङ्गनस्थगितमूर्मिभुजैर्मुरारे-र्गृह्णन्ति पादयुगलं कमलोपहाराः ॥३६तृष्णातोये मदनपवनोद्धूतमोहोर्मिजालेदारावर्ते तनयसहजग्राहसङ्घाकुले च ।संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्पादांभोजे वरद भवतो भक्तिनावं प्रयच्छ ॥३७अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिकासाध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् ।प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयंचेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥३८गभीरे कासारे विशति विजने घोरविपिनेविशाले शैले च भ्रमति कुसुमार्थं जडमतिःसमर्प्यैकं चेतःसरसिजमुमानाथ भवतेसुखेनावस्थातुं जन इह न जानाति किमहो ॥३९मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरुस्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे ।वर्तन्ते बहुशो मृगाः मदजुषो मात्सर्यमोहादयः तान् हत्वा मृगया विनोदरुचितालाभं च संप्राप्स्यसि ॥४०बिभ्रद्वेणुं जठरपटयोः शृङ्गवेत्रे च कक्षेवामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु ।तिष्ठन्मध्ये स्वपरिसुहृदो हासयन् नर्मभिः स्वैःस्वर्गे लोके मिषति बुभुजे यज्ञभुक् बालकेलिः ॥(श्रीमद्भागवतम् १०.१३.११)४१बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारंबिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् ।रंध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दैःवृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥४२अग्रे दीर्घतरोऽयमर्जुनतरुस्तस्याग्रतो वर्तनीसा घोषं समुपैतितत्परिसरे देशे कलिन्दात्मजा ।तस्यास्तीरतमालकाननतले चक्रं गवां चारयन्गोपः क्रीडति दर्शयिष्यति सखे पन्थानमव्याहतम् ॥(श्रीकृष्णकर्मामृतम् २.४३)४३मार्गावर्तितपादुका पशुपतेरंगस्यकूर्चायतेगण्डूषांबुनिषेचनं पुररिपोर्दिव्याभिषेकायतेकिंचित्भक्षितमांसशेषकवलं नव्योपहारायतेभक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥४४हे गोपालक! हे कृपाजलनिधे! हे सिन्धुकन्यापते!हे कंसान्तक! हे गजेन्द्रकरुणापारीण! हे माधव! ।हे रामानुज! हे जगत्त्रयगुरो! हे पुण्डरीकाक्ष! मांहे गोपीजननाथ पालय परं जानामि न त्वां विना ॥४५निबद्ध मूर्द्धांजलिरेष याचेनीरन्ध्रदैन्योन्नतमुक्तकण्ठम् ।दयांबुधे! देव! भवत्कटाक्ष-दाक्षिण्यलेशेन सकृन्निषिञ्च ॥ (श्रीकृष्णकर्मामृतम् १.३०)४६प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपतेप्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः ।त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाःप्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥(शीवानंदलहरी आदि शंकराच्चार्य)४७वदन्त्येके स्थानं तव वरद! वैकुण्ठमपरेगवां लोकं लोकं फणिनिलयपातालमितरे ।तथान्ये क्षीरोदं हृदयनलिनं चापि तु सतांन मन्ये तत्स्थानं त्वहमिह च यत्रासि न विभो ॥(ब्रह्मानंदस्वामीकृत विष्णुमहिमा स्तोत्र)४८रत्नस्थले जानुचरः कुमारःसंक्रान्तमात्मीयमुखारविन्दम् आदातुकामस्तदलाभखेदात्विलोक्य धात्री वदनं रुरोद ॥४९अयः स्पर्शे लग्नं सपदि लभते हेमपदवींयथा रथ्यापाथः शुचि भवति गङ्गൗघमिलितम् ।तथा तत्तद्पापैरतिमलिनमन्तर्मम यदित्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम् ॥(शंकराभाग्वद्पदः आनंदलहरी)५०शिवोऽहं रुद्राणामहममरराजो दिविषदांमुनीनां व्यासोऽहं सुरवर समुद्रोऽस्मि सरसाम् ।कुबेरो यक्षाणामिति तव वचो मन्दमतयेन जाने तज्जातं जगति ननु यन्नासि भगवन् ॥५१भवानि! त्वं दासे मयि वितर दृष्टिं सकरुणांइति स्तोतुं वाञ्छन् कथयति भवनि ! त्वमिति यः ।तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीम्मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् N/A References : N/A Last Updated : January 08, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP