योगविषयः

सिद्धसिद्धान्तपद्धतिः हा ग्रंथ गोरक्षनाथांनी हठ योगावर लिहीला आहे.
The Siddha Siddhanta Paddhati is a very early extant Hatha Yoga Sanskrit text attributed to Gorakshanath.


गुरुश्च गुरुपुत्रश्च ये चान्ये गुरुबान्धवाः ।
अन्येषांच क्रमाज्ज्येष्टास्तेषां पादौ नमाम्यहम् ॥१॥
यादृशी ( ? ) भावनातीतं तं गुरुं प्रणामाम्यहम् ।
भ्रान्तश्च भ्रमते लोको निर्भ्रान्तः कृतनिश्चयः ॥२॥
तस्य सिध्यन्ति पुरुषा आदिनाथे व्यवस्थिताः ।
कुलजातिसमायुक्तः सुचरित्रगुणान्वितः ॥३॥
गुरुभक्तियुतो धीमान् स शिष्य इति कथ्यते ।
अकुलेनादिनाथेन केजापूपीनवासिना ॥४॥
कृपयैव परं तत्त्वं मीननाथोsपि बोधितः ।
मीननाथोsपि सच्छिष्यं प्रत्युवाच समाहितः ॥५॥
त्वं गुरुस्त्वञ्च शिष्यश्च शिष्यस्य च गुरोरपि ।
नानयोरपि भेदोsत्र समसिद्धिः प्रजायते ॥६॥
उमाशङ्करपुत्रोsहं मीननाथो मुनीश्वरः ।
कथायामि परं तत्त्वं कुलाकुलविबोधकम् ॥७॥
आधारः स्वाधिष्ठानञ्च मणिपूरमनाहतम् ।
विशुद्धिराज्ञा कौलानि षट् चक्राणि शुभानि च ॥८॥
आधारश्च गुदे तस्थौ स्वाधिष्ठानञ्च लिङ्गके ।
मणिपूरं नाभिगतं हृदये चाप्यनाहतम् ॥९॥
विशुद्धिः कण्ठदेशे च आज्ञाचक्रं भ्रुवोर्मुखम् ।
चक्रभेदमिति ज्ञात्वा चक्रातीतं निरञ्जनम् ॥१०॥
इडा वहति वामे च पिङ्गला वहति दक्षिणे ।
इडापिङ्गलयोर्मध्ये सुषुम्ना सुखरूपिणी ॥११॥
आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले ललाटे ।
द्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्धे चतुष्के
नासान्ते बालमध्ये डफकठसहिते कण्ठदेशे स्वराणाम् ।
हं क्षं तत्त्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ॥१२॥
प्राणोsपानः समानश्च उदानो व्यान एव च ।
पञ्चकर्मेन्दियैर्युक्ताः क्रियाशक्तिसमुद्यताः ॥१३॥
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ।
पञ्चज्ञानेन्द्रियैर्युक्ताः बुद्धिशक्तिसमन्विताः ॥१४॥
पावकश्शक्तिमध्यस्थो नाभिचक्रे रविः स्थितः ।
बन्धमुद्रा कृतास्सर्वे नासाग्रे तु सुलोचनम् ॥१५॥
अकारो वन्हिदेशे च उकारो हृदि संस्थितः
मकारश्चः भ्रुवोर्मध्ये वचनाच्च निबोधयेत् ॥१६॥
ब्रह्मग्रन्स्थिरधष्कारे विष्णुग्रन्थि र्हृदि स्थितः ।
रुद्रग्रन्थिर्भ्रुवोर्मध्ये विमुच्यन्ते त्रयस्तथा ॥१७॥
अकारो ब्रह्म इत्याहुः उकारो विष्णुरुच्यते ।
मकारो च शिवं साक्षाच्छान्तेश्शान्ततरं परम् ॥१८॥
कण्ठसंकोचनं कृत्वा द्वे नाड्यौ स्तम्भयेद् दृढम् ।
रसना पीड्यमाना तु षोडशश्चोर्ध्वगामिनी ॥१९॥
त्रिकूटं त्रिहठं चैव कोल्हाटं शिखरं तथा ।
त्रिशिखं वज्रमोङ्कार मूर्ध्वनासं भ्रुवोर्मुखम् ॥२०॥
आकुञ्चयेद्रविञ्चैव पश्चान्नाडी प्रवर्तते ।
भेदे त्रिहठसंघट्टमुभयोश्शशिदर्शनम् ॥२१॥
प्रणवा गुदनाला च नलिनी सर्पिणी तथा ।
वङ्कनालि क्षया शौरी कुण्डली कुण्डलाः स्मृताः ॥२२॥
कुण्डलीं ( ली ) चालयेत् प्राणो ( णान् ) भेदिते शशिमण्डले ।
सिध्यन्ति वज्रगुम्फानि नव द्वाराणि बन्धयेत् ॥२३॥
सुमनः पावनारूढः स गाढं निर्गुणस्तथा ।
ब्रह्मस्थाननिनादेन शंखिन्यामृतवर्षिणी ॥२४॥
षट्चक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत् ।
सर्वेषां स्नापनं देहे क्रियते देवतार्चनम् ॥२५॥
चन्द्रामृतेन चिद्रूपमीश्वरं स्नाप्य भक्तितः ।
मनःपुष्पं तथा देयमर्चयेत्परमं शिवम् ॥२६॥
आत्मरूपं तमालोक्य ज्ञानरूपं निरामयम् ।
दृश्यते देहरूपेण सर्वव्यापी निरञ्जनः ॥२७॥
हंस हंस पदे वाक्यं प्राणिनां देहमाश्रितः ।
सम्प्राणापानयोर्गन्थिरूपे...त्यभिधीयते ॥२८॥
सहस्रमेकञ्च युतं षट्छतं चैव सर्वदा ।
उच्चारपदतो हंसः सोsहमित्यभिधीयते ॥२९॥
पूर्वभागे मधो लिङ्गं शंखिन्यां चैव पश्चिमम् ।
ज्योतिर्लिङ्गं भ्रुवोर्मध्ये रक्तशुक्लात्मकं शिवम् ॥३०॥
पूर्वपश्चिमदिग्भागे वज्रदण्डे व्यवस्थिते ।
द्वौ षष्टिभोगिनी स्थानं पश्चाल्लिङ्गं प्रकाशयेत् ॥३१॥
शीताशीतं परं स्थानं मेदोमज्जभिपूरितम् ।
स्रवति ब्रह्मणः स्थानात् सिञ्चते भुवनत्रयम् ॥३२॥
सर्वव्याधिक्रियाकर्म - वातपित्तसमन्वितम् ।
दशाष्टदोषरहितं मीननाथेन कथ्यते ॥३३॥
॥ इति मत्स्येन्द्रनाथविरचितं भक्तिसं ( ? ) सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 25, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP