संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|तृतीय पटल| योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ३ तृतीय पटल योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन १ योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन २ योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ३ योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ४ योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ५ सिद्धासनकथनम् पद्मासनकथनम् उग्रासनकथनम् स्वस्तिकासनकथनम् तृतीय पटल - योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ३ महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ३ Translation - भाषांतर सिद्धान्तश्रवणं नित्य वैराग्यगृहसेवनम् ।नामसंकीर्तनं विष्णो: सुनादश्रवणं परम् ॥४१॥धृति: क्षमा तप: शौचं र्हीर्मतिगुरुसेवनम् ।सदैतांश्च परं योगी नियमांश्च समाचरेत् ॥४२॥अनिलोsर्कप्रवेशे च भोक्तव्यं योगिभि: सदा ।वायौ प्रविष्टे शशिनि शयनं साधकोत्तमै: ॥४३॥सद्यो भुक्तेsपि क्षुधितेनाभ्यास: क्रियते बुधै: ।अभ्यासकाले प्रथमं कुर्यात् क्षीराज्यभोजनम् ॥४४॥तोsभ्यासे स्थिरीभूते न तादृङनियमग्रह: ।अभ्यासिना विभोक्तव्यं स्तोकं स्तोकमनेकधा ॥४५॥पूर्वोक्तकाले कुर्यात्तु कुम्भकान् प्रतिवासरे ।ततो यथेष्टाशक्ति:स्याद्योगिनो वायुधारणे ॥४६॥यथेष्टं धारणाद्वायो कुम्भक: सिध्यति ध्रुवम् ।केवले कुम्भके सिद्धे किं न स्यादिह योगिन: ॥४७॥स्वेद: संजायते देहे योगिन: प्रथमोद्यमे ॥४८॥यदा संजायते स्वेदो मर्दन: कारयेत्सुधी: ।अन्यथा विग्रहे धातुर्नष्टो भवति योगिन: ॥४९॥द्वितीये हि भवेत् कम्पो दार्दुरी मध्यमे मत: ।ततोsधिकतराभ्यासाद्गगनेचरसाधक: ॥५०॥योगी पद्मासनस्थोsपि भुवमुत्सृज्य वर्तते ।वायुसिद्धिस्तदा ज्ञेया संसारध्वान्तनाशिनी ॥५१॥तावत्कालं प्रकुर्वीत योगोक्तनियमग्रहम् ।अल्पनिद्रा पुरीषं च स्तोकं मूत्रं च जायते ॥५२॥अरोगित्वमदीनत्वं योगिनस्तत्त्वदशिन: ।स्वेदो लाला कृमिश्चैव सर्वथैव न जायते ॥५३॥कफ़पित्तानिलाश्चैव साधकस्य कलेचरे ।तस्मिन् काले साधकस्य भोज्येष्वनियमग्रह: ॥५४॥अत्यल्पं बहुधा भुक्ता योगी न व्यथते हि स: ।अथाभ्यासवशाद्योगी भूचरीं सिद्धिमाप्नुयात् ॥यथा दर्दुरजन्तूनां गति: स्यात्पाणिताडनात् ॥५५॥सन्त्यत्र बहवो विघ्ना दारुणा दुर्निवारणा: ।तथापि साधयेद्योगी प्राणै: कण्ठगतैरपि ॥५६॥ततो रहस्युपाविष्ट: साधक: संयतेन्द्रिय: ।प्रणवं प्रजपेद्दीर्घं विघ्नानां नाशहेतवे ॥५७॥पूर्वार्जितानि कर्माणि प्राणायामेन निश्चितम् ।नाशयेत् साधको धीमानिह लोकोद्भवानि च ॥५८॥पूर्वार्जितानि पापानि पुण्यानि विविधानि च ।नाशयेत् षोडशप्राणायामेन योगिपुंगव: ॥५९॥पापतूलचयानाहो प्रलयतेत्प्रयाग्निना ।तत: पापविनिर्मुक्त: पश्चात्पुण्यानि नाशयेत् ॥६०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP