संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|द्वितीय पटल| तत्त्वज्ञानोपदेश २ द्वितीय पटल तत्त्वज्ञानोपदेश १ तत्त्वज्ञानोपदेश २ द्वितीय पटल - तत्त्वज्ञानोपदेश २ महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत तत्त्वज्ञानोपदे २ Translation - भाषांतर इडापिंगलयोर्मध्ये सुषुम्णा या भवेत् खलु ।षट्स्थानेषु च षट्शक्तिं षटपद्मं योगिनो विदु: ॥२७॥पंचस्थानं सुषुम्णाया नामानि स्युर्बहूनि च ।प्रयोजनवशात्तानि ज्ञातव्यानीह शास्त्रत: ॥२८॥अन्यायाsस्त्यपरा नाडी मूलाधारात्समुत्थिता: ।रसनामेढ्रनयनं पादाङ्गुष्ठे च श्रोत्रकम् ॥२९॥कुक्षिकक्षाङ्गुष्ठवर्ण सर्वागं पायुकुक्षिकम् ।लब्ध्वान्ता वै निवर्न्तते यथादेशसमुद्भावा: ॥३०॥एताभ्य एव नाडीभ्य: शाखोपशाखत: क्रमात् ।सार्धलक्षत्रयं जातं यथाभागं व्यवस्थितम् ॥३१॥एता भोगवहा नाड्यो वायुसंचारदक्षका: ।ओतप्रोताभिसंव्याप्य तिष्ठन्त्यस्मिन् कलेवरे ॥३२॥सूर्यमंडलमध्यस्थ: कला द्वादशसंयुत: ।बस्तिदेश ज्वलद्वह्निर्वर्तते चान्नपाचक: ॥३३॥वैश्वानराग्निरेषो वै मम तेजोंशसम्भव: ।करोति विविधं पाकं प्राणिनां देहमास्थित: ॥३४॥आयु: प्रदायको वह्निर्बलं पुष्टिं ददाति स: ।शरीर पाटवं चारि ध्वस्तरोगसमुद्भव: ॥३५॥तस्माद्वैश्वानराग्निं च प्रज्वाल्य विधिवस्तुधी: ।तस्मिन्नन्नं हुनेद्योगी प्रत्यहं गुरुशिक्षय़ा ॥३६॥ब्रह्माण्डसंज्ञेक देहे स्थानानि स्युर्बहूनि च ।मयोक्तानि प्रधानानि ज्ञातव्यानीह शास्त्रके ॥३७॥नानाप्रकार नामानि स्थानानि विविधानि च ।वर्तन्ते विग्रहे तानि कथितुं नैव शक्यते ॥३८॥इत्थं प्रकल्पिते देहे जीवो वसति सर्वग: ।अनादिवासनामालाsलंकृत: कर्मशृंखल: ॥३९॥नानाविधगुणोपेत: सर्वध्यापारकारक: ।पूर्वार्जितानि कर्माणि भुनवित विविधानि च ॥४०॥यद्यत्संदृश्यते लोके सर्व तत्कर्मसम्भवम् ।सवं: कर्मानुसारेण जन्तुर्भोगान् भुनक्ति वै ॥४१॥ये ये कामादयो दोषा: सुखदु:खप्रदायका: ।ते ते सर्वे प्रवर्तन्ते जीवकर्मानुसारत: ॥४२॥पुण्योपरक्तचैतन्ये प्राणान् प्रीणाति केवलम् ।बाह्ये पुण्यतमं प्राप्य भोज्यवस्तु स्वयं भवेत् ॥४३॥तत: कर्मबलात्पुंस: सुखं वा दु:खमेव च ।पापोपरक्तचैतन्यं नैव तिष्ठति निश्चितम् ॥४४॥न तद्भिन्नो भवेत् सोsपि तद्भिन्नो न तु किंचन ।मायोपहितचैतन्यात्सर्वं वस्तु प्रजायते ॥४५॥यथाकालेsपि भोगाय जन्तूनां विविधोद्भव: ।यथा दोषवशाच्छुक्तौ रजतारोपणं भवेत् ।तथा स्वकर्मदोषाद्वै ब्रह्मण्यारोप्यते जगत् ॥४६॥स वासनाभ्रमोत्पन्नोन्मूलनातिसमर्थनम् ।उत्पन्नं चेदोदृशं स्याज्ज्ञानं मोक्षप्रसाधनम् ॥४७॥साक्षाद्वैशेषुदृष्टिस्तु साक्षात्कारिणी विभ्रमे ।करणं नान्यथायुक्त्या सत्यं सत्यं मयोदितम् ॥४८॥साक्षात्कारिभमे साक्षात् साक्षात्कारिणि नाशयेत् ।स हि नास्तीति संसारे भ्रमो नैव निवर्तते ॥४९॥मिथ्याज्ञाननिवृत्तिस्तु विशेषदर्शनाद्भवेत् ।अन्यथा न निवृत्ति: स्यादृश्यते रजतभ्रम: ॥५०॥यावन्नोत्पद्यते ज्ञानं साक्षात्कारे निरञ्जने ।तावत्सर्वाणि भूतानि दृश्यन्ते विविधानि च ॥५१॥यदा कर्मार्जितं देहं निर्वाणे साधनं भवेत् ।तदा शरीरवहनं सफ़लं स्यान्न चान्यथा ॥५२॥यादृशी वासना मूला वर्त्तते जीवसंगिनी ।तादृशं वहते जन्तु: कृत्याकृत्यविधौ भ्रमम् ॥५३॥संसार सागरं तर्तु यदीच्छेद्योगसाधक: ।कृत्वा वर्णाश्रमं कर्म फ़लवर्ज तदाचरेत् ॥५४॥विषयासक्तपुरुषा विषयेषु सुखप्सव: ।वाचाभिरुद्धनिर्वाणा वर्तन्ते पापकर्मणि ॥५५॥आत्मानमात्मना पश्यन्न किंचिदिह पश्यति ।तदा कर्मपरित्यागे न दोषोsस्ति मतं मम ॥५६॥कामादयो विलीयन्ते ज्ञानादेव न चान्यथा ।अभावे सर्वतत्त्वानां स्वयं तत्त्वं प्रकाशते ॥५७॥इति श्रीशिवसंहितायां हरगौरीसंवादे योगप्रकाशकथनेतत्त्वज्ञानोपदेशो नाम द्वितीय पटल: ॥२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP