व्रतराजे

प्रस्तुत ग्रंथात मंत्र, व्याख्यान, मराठी अर्थ आणि मंत्रविधान एकत्र मिळाल्याने जिज्ञासूंची तृप्ती पूर्ण होईल असा विश्वास आहे.


व्रतराजे - “देशकालादिस्मरणं देवतास्मरणं तथा । संकल्पे विधिवत्कार्यं  नित्यं धर्मस्य हेतवे ॥” इति बृहद्वयासोनिक्तिमनुसृत्य धर्मस्य हेतुभूतत्वात्‌ यथासंभवं यथाचारं संकल्प: कार्य: । श्रीमन्महागणाधिपतये  नम इत्यादि श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं श्रीपरमेश्वरप्रीत्यर्थं इतिसामान्यमुक्त्वा यां देवतामुद्दिश्य कर्म क्रियते तद्देवातनाम्‌, श्रीमहाविष्णुखपंचायतनदेवताप्रीत्यर्थं, श्रीरामप्रीत्यर्थं, श्रीसूक्तानुष्ठाने श्रीभगवती महालक्ष्मी जगदंबाप्रीत्यर्थमित्युक्त्वा यथाज्ञानेन यथासंभृतसंभारै: यथामीलितोपचारैर्वा
देशकालाद्यनुसारत: षोडशोपचारै: पूजनमहं करिष्ये, इति । प्रधानकर्मण: संकल्पं पूर्वं कृत्वा एककालत्वे सति तदंगमित्यादि प्रधानोत्तरमंगकर्मणां संकल्प: कार्य: । भिन्नकालत्वे तु श्व: परश्वो वेति व्यवहितदिनसंख्यामुक्त्वा करिष्यमाणऽमुककर्मणि, निर्विघतासिद्धयर्थं श्रीमहागणपतिपूजनं ग्रहानुकूल्यार्थं ग्रहयज्ञं इत्यादि यदिष्टमङंग तस्योह: स्वातंत्र्येण कर्तव्य: । महारुद्रस्वाहाकाराद्यनेकदिनसाध्यप्रयोगे तदाधिकरणीभूततिथ्यादिकालानां संकल्पवावय  ऊह: कर्तव्य इति मय़ूखे । यद्वा अद्यप्रभृत्यमुकदिनपर्यंतमिति
इष्टदिनसंख्यामुक्त्वा प्राग्वत्कुर्यादिति हिरण्यकेशिसूत्रे । काम्यकर्मणि यदर्थं कर्म क्रियते तस्याप्युच्चारो‍ऽवश्यं कर्तव्य: । एवं संकल्प्यान्ते साक्षतकुशोदकं देवतीर्थेनहस्तेनजलादौ ताम्रपात्रे वा प्रक्षिपेन्न भूमौ ।


References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP