हिरण्मयी च चंद्रा च तृतीया रजतस्रजा । हिरण्याद्या स्रजा चान्या हिरण्या च तथा परा ॥१॥ हिरण्यवर्ना चैताभि; कुर्यादंगानि षट् क्रमात् । एताभिर्ङेनमोन्ताभिरंगकल्पनमीरितमिति ॥२॥ हिरण्मयीत्यादिपदानां चतुर्थ्यंतेन नमोन्तेन षडंगेषु न्यास: । ङे इति तु चतुर्थीप्रत्यय:, प्रत्ययग्रहणे तदन्तग्रहणमिति व्याकरणपरिभाषया चतुर्थ्यंतानां ग्रहणम् । तदेवं - बीजसहितेने प्रणवेन त्रि: करौ प्रमृत्य ॐ हिरण्मय्यै नम: अंगुष्ठाभ्यां नम: । ॐ चंद्रायै नम: तर्जनीभ्यां नम: । ॐ रजतस्रजायै नम: मध्यमाभ्यां नम: । ॐ हिरण्यस्रजायै नम: अनामिकाभ्याम नम: । ॐ हिरण्यायै नम: कनिष्ठिकाभ्यां नम: । ॐ हिरण्यवर्णायै नम: करतलकरपृष्ठाभ्यां
नम: ॥इति॥ एवं हृदयाइद । यथा - ॐ हिरण्मय्यै नम: शिकायै वषट् । ॐ हिरण्यस्रजायै नम: कवचाय हुम् । ॐ हिरण्यायै नम: नेत्रत्रयाय वौषट् । ॐ हिरण्यवर्णायै नम: अस्त्राय फट् ॥ पायगुंडेकृतविधाने शारदातिलकटीकायां राघावभट्टयामपि एवंविध: षडंग: ।
मंत्रकोशोक्तप्रयोगे तु :--- (शांतिरन्ते) न्यासविधौ प्रथमं हिरण्मय्यै इत्यत्र हिरण्यायै नम: अंगुष्ठाभ्यां । तथा कनिष्ठिकान्यासे हिरण्यायै इत्यत्र हिरण्याक्षायै नम:, इत्येतावान् एव भेदा:, हिरण्मयी च चंद्रा च, इत्युपरिनिर्दिष्टवचने तु हिरण्मयी इत्येव तथा अग्रे कनिष्ठिकान्यासे - हिरण्याक्षायै इति नास्ति, ‘हिरण्या च तथा परा’ इत्युक्तम् ॥ अत्रोभयविधषडंगे इच्छया विकल्प:, प्रमाणग्रंथाविरोधात् इति ॥
==
६ अथवा केवलेन श्रींबीजेन षडंगं कुर्यादिति वैद्यनाथा: ॥
ॐ श्रीं हृदयाय नम:, ॐ श्रीं शिरसे स्वाहा, ॐ श्रीं शिखायै वषट्,
ॐ श्रीं कवचाय हुम्, ॐ श्रीं नेत्रत्रयाय वौषट्, ॐ श्रीं अस्त्राय फट् ।
इति षडंग: ॥
अत्र बहुप्रकारकेषु कारदिन्यासविधिषु इच्छया विकल्प: ॥
अथ पंचदशांग :--- ‘तत: पंचदशस्थाने श्रीसूक्तस्य ऋचो न्यसेत् । शिरसि नेत्रयो: श्रोत्रे नासायां च मुखे न्यसेत् । कंठे बाव्होश्च हृदये नाभौ लिंगे गुदे तथा । ऊर्वोर्जान्वोर्जंघयोश्च पादयोर्विन्यसेत्सुधी: ॥ एवं न्यासविधिं कृत्वा ध्यायेद्देवीं मनोहराम् ॥’ इति ॥ सारसंग्रहेऽप्येवमेव । अत्र नेत्रादीनां द्विवचनान्तेन निर्देशात् नेत्रद्वये कर्णद्वये
बाहुद्वये, ऊरुद्वये, जानुद्वये, जंघाद्वये, पादद्वये च एकैव ऋचा न्यस्तव्या । श्रोत्रे इत्येकवचनं छंदोनुरोधात् । तत्र दक्षिणदिक्त्वं दक्षिणहस्तेन च स्पर्श: । सामान्यपरिभाषया दक्षिणांगस्योक्तत्वात् ॥ पुरुषसूक्तन्यासे तु वामादित्वं वचनप्रामाण्यत् । यद्यपि श्रीसूक्तनित्यपाठे षोडश्या; ‘य: शुचि’ रित्यस्या ग्रहणं भवति तथापि जपाद्यनुष्ठाने तस्या अविहितत्वात् न्यासार्थमग्रहणम् । परं श्रीसूक्तेन यदा षोडशाङ्गन्यास: क्रियते तदा तस्या ग्रहणं भवति । अत्र सर्वेषामेकवाक्यत्वात् प्रयोगे एवन्यासविधिर्लिख्यते ।
इति श्रीसूक्तविधाने न्यासप्रकरणम् ।
अर्थ :--- करन्यास, षडंगन्यास यांचे निरनिराळे प्रकार जरी अनेकविध असले तरी त्यांतील कोणताही एक आचरावा. श्रीसूक्तचा पंचदशागन्यास असा : प्रत्येक ऋचाक्रमानें शिरस्, नेत्रद्वय, कर्णद्वय, नाशिका, मुख, कंठ, बाहुद्वय, ह्र्दय, नाभि, लिंग, गुद, ऊरुद्वय, जानुद्वय, जंघाद्वय, आणि पादद्वय, या पंचदशांगांचे ठिकाणीं न्यास करावा. सोळावी ऋक् ‘य: शुचि:’ ही नित्यपाठांत असली तरी जपाद्यनुष्ठानांत अविहित असल्यानें येथें न्यासांत ग्रहण केलें नाहीं. पण ज्यावेळी श्रीसूक्तानें षोडशांगन्यास सांगितला असेल त्यावेळीं तिचें ग्रहण करावें. या पंचदशांगन्यासाविषयीं सर्वांची एकवाक्यता आहे. पाठक्रमानें न्यास सरळ असल्यानें प्रयोगविधींत स्पष्ट दिला आहे.
याप्रमाणें श्रीसूक्तानुष्ठानोपयुक्त न्यासप्रकरण संपलें.