तृतीयं बाम्हणं - भाष्यं १५
सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.
श्रुति :--- तस्य हैतस्य साम्नो य: स्वं वेद भवति हास्य स्वं तस्य वै स्वर एव स्वं तस्मादार्त्विज्यं करिष्यन्वाचि। स्वरमिच्छेत तया वाचा स्वरसंपन्नयाऽऽर्त्विज्यं कुर्यात्तस्माद्यज्ञे स्वरवन्तं दिद्दक्षन्त एव ।
अथो यस्य स्वं भवति भवति हास्य स्वं य एवमेतत्साम्न: स्वं वेदा ॥
अर्थ :--- त्या या साक्षात् सामाचें स्व - धन जो जाणतो त्याला धन प्राप्त होतें. त्या सामाचें स्वर हेंच स्व आहे. यास्तव आर्त्विज्य - ऋर्त्विक्कर्म करणारानें वाचेमध्यें स्वराची इच्छा करावी. त्या स्वरसंपन्न वाणीनें आर्त्विज्य करावें. तस्मात् यज्ञांत स्वरवन्त उद्नात्याला पाहण्याची इच्छा करितातच. (ज्याला धन असतें त्यालाच व्यवहारांत लोकहि पाहण्याची इच्छा करितात. हें प्रसिद्ध आहे.) जो याप्रमाणें हें सामाचें स्व जाणतो त्याला स्व प्राप्त होतें. ॥२५॥
भाष्यं :--- तस्य हैतस्य । तस्येति प्रकृतं प्राणमभिसंबध्नाति हैतस्येति मुख्यं व्यपदिशत्यभिनयेन ।
साम्न: सामशब्दवाच्यस्य प्राणस्य य: स्वं धनं वेद तस्य ह किं स्यात् । भवति हास्य स्वम् । फलेन प्रलोभ्यामुखीकृत्य शुश्रूषव आह । तस्य वै साम्न: स्वर एव स्वम् ।
स्वर इति कण्ठगतं माधुर्यं तदेवास्य स्वं विभूषणं । तेन हि भूषितम्रुद्धिमल्लक्ष्यते उद्नानम् ।
यस्मादेवं तस्मादार्त्विज्यमृत्विक्कर्मोद्नानं करिष्यन्वाचि विषये वाचि वागाश्रितं स्वरमिच्छेत साम्नो धनवत्तां स्वरेण चिकीर्षुरुद्नाता ॥
भाष्यं :--- इदं तु प्रासङूगिकं विधीयते । साम्न: सौस्वर्येण स्वरवत्त्वप्रत्यये कर्तव्य इच्छामात्रेण सौस्वर्यं न भवतीति दन्तधावनतैलपानादि सामर्थ्यात्कर्तव्यभित्यर्थ: तयैवं संस्कृतया वाचा स्वरसंपन्नयाऽर्विज्यं कुर्यात् । तस्माद्यस्मात्साम्न: स्वभूत: स्वरस्तेन स्वेन भूषितं साम । अतो यज्ञे स्वरवन्तमुद्नातारं दिद्दक्षन्त एव द्दष्टुमिच्छन्त एव धनिनमिव लौकिका: । प्रसिद्धं हि लोकेऽथो अपि यस्य स्वं धनं भवति तं धनिनं दिद्दक्षन्त इति । सिद्धस्य गुणविज्ञानफलसंबन्धस्योपसंहार: क्रियते । भवति हास्य स्वं य एवमेतत्साम्न: स्वं वेदेति ॥२५॥
श्रुति :--- तस्य हैतस्य साम्नो य: सुवर्णं वेद भवति हास्य सुवर्णं तस्य वै स्वर एव सुवर्णं भवति हास्य सुवर्णं य एवमेतत्साम्न: सुवर्णं वेदा ॥
अर्थ :--- त्या या सामाचें सुवर्ण जो जाणतो त्याला सुवर्ण होतें. त्याचें स्वर हेंच सुवर्ण आहे. जो याप्रमाणें हें समाचें सुवर्ण जाणतो त्याला सुवर्ण प्राप्त होतें. ॥२६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP