द्वितीयं ब्राम्हणं - भाष्यं ८
सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.
श्रुति :--- सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति । सोऽश्राम्यत्स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदकामत । प्राणा वै यशो वीर्यं अत्प्राणेषूत्क्रान्तेषु शरीर श्वयितुमधियत तस्य शरीर एव मन आसीत ॥६॥
भाष्यं :---- सोऽकामयतेत्यश्वामेधयोर्निर्वचनार्थमिदमाह । भूयसा महता यज्ञेन भूय: पुनरपि यजेयेति । जन्मान्तरकरणापेक्षया भूय:शब्द: । स प्रजापतिर्जन्मान्तरेऽश्वमेधेनायतत । स तद्भावभावित एव कल्पादौ व्यावर्तत । सोऽश्वमेधाक्रियाकारकपहलात्मत्वेन विर्वृत: सन्नकामयत भूयसा यज्ञेन भूयो यजेयेत्येवं महत्कार्यं कमयित्वा लोकवदश्राम्यत ॥
भाष्यं :--- स तपोऽतप्यत । तस्य श्रान्तस्य तप्तस्येति पूर्ववत । यशो वीर्यमुदक्रामदिति स्वयमेव पदार्थमाह । प्राणाश्चक्षुरादयो वै यशो यशोहेतुत्वात्तेषु हि सत्सु खातिर्भवति । तथा वीर्यं बलमस्मिञ्शरीरे । न हय़ुत्क्रनातप्राणो यशस्वी बलवान्त्वा भवति । तस्मात्प्राणा एव यशो वीर्यं चास्मिञ्शरीरे । तदेवं प्राणल क्षणं यशो वीर्यौदक्रामदुक्रान्तवत । तदेवं यशोविर्यभूतेषु प्राणेषूत्क्रान्तेषु शरीरा न्निष्क्रान्तेषु तच्छरीरंप्रजापते: श्वयितुमुच्छूनभावं गन्तुमध्रियतामेध्यं चाभवत । तस्य प्रजापते: शरीरान्निर्गतस्यापि तस्मिन्नेव शरीरे मन आसीत । यथा कस्यचित्प्रिये विषये दूरं गतस्यापि मनो भवति तद्वत ॥६॥
श्रुति :---- सोऽकामयत मेध्यं म इद स्यादात्मन्व्यनेन स्यामिति । ततोऽश्व: समभवद्यदश्वत्तन्मेध्यमभुदिति तदेवाश्वमेधस्याश्वमेधत्वम । एष ह वा अश्वमेघं वेद य एनमेवं वेद ॥
भाष्यं :--- स तस्मिन्नेव शरीरे गतमना: सन्किमकरोदिति । उच्यते । सोऽकामयत कथं मेध्यं मेधार्हं यज्ञियं मे शरीरं स्यात । किंचाऽऽत्मन्व्यात्मवांश्वानेन शरीरेण शरीरवान्य्स्यामिति प्रविवेश । यस्मात्तच्छरीरं मद्वियोगाद्नतयशोवीर्यं सद्श्वदश्वयत्ततस्तस्मादश्व समभवत । ततोऽश्वनामा प्रजापतिरेव साक्षादिति स्तूयते । यस्माच्च पुनस्तत्प्रवेशाद्नतयशोवीर्यत्वादमेध्यं सन्मेध्यमभूत्तदेव तस्मादेवाश्वमेधस्याश्वमेधनास्न: क्रतोरश्वमेधत्वमश्वमेधनामलाभ: । क्रियाकारकफला त्मको हि क्रतु: । स च प्रजापतिरेवेति स्तूयते । ऋतुनिर्वर्तकस्याश्वस्य प्रजापतित्वमुक्त्मुषा वा अश्वस्य मेध्यस्येत्यादिना । तस्यैवाश्वस्य मेध्यस्य प्रजापतिस्वरूपस्याग्नेश्च यथोक्तस्य क्रतुफलात्मरूपतया समस्योपासनं विधातव्यमित्यारभ्यते ॥
भाष्यं :--- पूर्वत्र क्रियापदस्य विधायकस्याश्रुतत्वात्क्रियापदापेक्षत्वाच्च प्रकरणस्यायमर्थोऽवगम्यते । एष ह वा अश्वमेधं क्रुतुं वेद य: कश्चिदेनमस्वमग्निवेद स एषोऽश्वमेधं वेद नान्य: । तस्मादेवं वेदितव्य इत्यर्थ: ॥
श्रुति :--- तमनवरुध्यैवामन्यत । ्त संवत्सरस्य परस्तादात्मन आलभत पशून्देवताभ: प्रत्यौहत । तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्त ॥
भाष्यं :--- कथं - कथं । तत्र पशुविषयमेव तावद्दर्शनमाह । तत्र प्रजापतिर्भूयसा यज्ञेन भूयो यजेयेति कामयित्वाऽऽत्मानमेव पशुं मेध्यं कल्पयित्वा तं पशुमनवरुध्यैवोत्सृष्टपशुमवरोधमवरोधमकृत्वैव मुक्तग्रहममन्यताचिन्तयत । तं संवत्सरस्य पूर्णस्य परस्तादूर्ध्वमात्मन आत्मार्थमालभत प्रजापतिदेवताकत्वेनेत्येतत । आलमताऽऽलम्भं कृतवान । पशूनन्यात्प्राम्यानारण्यांश्च देवताभ्यो यथादैवतं प्रत्यौहत्प्रतिगमितवान ॥
भाष्यं :--- यस्माच्चैवं प्रजापतिरमन्यत तस्मादेवमन्योऽप्युक्तेन विधिनाऽऽत्मानं पशुमश्वं मेध्यं कल्पयित्वा सर्वदेवत्योऽहं प्रोक्ष्यमाण आलभ्यमानस्त्वहं मद्देवत्य एव स्याम । अन्य इतरे पशवो ग्राम्यारण्या यथादैवतमन्याभ्यो देवताभ्य आलभ्यन्ते मदवयवभूताभ्य एवेति विद्यात । अत एवेदानीं सर्वदेवत्यं प्रोक्षितं प्राजपत्यमालभन्ते याज्ञिका: ॥
श्रुति :--- एष ह वा अश्वमेधो य एष तपित तस्य संवत्सर आत्माऽयमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेवापपुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्याऽऽत्मा भवत्येतासां देवतानामेको भवति य एवं वेद ॥७॥
॥ इति प्रथमाध्यायस्य द्वितीयं ब्राम्हणम ॥२॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP