प्रथमं बाम्हणं - भाष्यं

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- उषा इति । ब्राम्हो मुहूर्त उषा । वैशब्द: स्मारणार्थ: । प्रसिद्धं कालं स्मारयति । शिर: प्राधान्यात । शिरश्च प्रधानं शरीरावयवानाम । अश्वस्य मेध्यस्य मेधार्हस्य यज्ञियस्योषा शिर इति संबन्ध: । कर्माङगस्य पशो: संस्कर्तव्यत्वात्कालादिद्दष्टय: शिराअदिषु क्षिप्यन्ते । प्राजापत्यत्वं च प्रजापतिद्दष्टयध्यारोपणात । काललोकदेवतात्वाध्यारोपणं च प्रजापतित्वकरणं पशो: । एवंरूपो हि प्रजापति: । विष्णुत्वादिकरणमिव प्रतिमादौ ॥

भाष्यं :--- सूर्यश्चक्षु: शिरसोऽनन्तरत्वात्सूर्याधिदैवतत्वाच्च । वात: प्राणो वायुस्वाभाव्यात । व्यात्तं विवृतं मुखमग्निर्वैश्वान्र: । वैश्वानर इत्यग्नेर्विशेषणम । विअश्वानरो नामाग्निर्विवृतं मुखमित्यर्थ: । मुखस्याग्निदैवतत्वात । संवत्सर आत्मा संवत्सरो द्वादशमासस्त्रयोदशमासो वा । आत्मा शरीरम । कालावयवानाम च संबत्सर: शरीरं शरीरं चाऽऽत्मा “मध्यं हयेषामङगानामात्मा” इति श्रुते: । अश्वस्य मेध्यस्येति सर्वत्रानुषङगार्तहं पुनर्वचनम ॥

भाष्यं :--- द्यौ: पृष्ठम । ऊर्ध्वत्वसामान्यात । अन्तरिक्षमुदरं सुषिरत्वसामा न्यात । पृथिवी पाजस्यं पादस्यमिति वर्णव्यत्ययेन पादासनस्थानमित्यर्थ: । दिशश्चतस्त्रोऽपि पार्श्चे । पार्श्चेन दिशां संबन्धात । पार्श्वयोर्दिशां च संख्यावैषम्यादयुक्तमिति चेतानासर्वमुखत्वोपपत्तेरश्वस्य पार्श्वाभ्यामेव सर्वदिशां संबन्धाददोष: ॥

भाष्यं :--- अवान्तरदिश आग्नेय्याद्या: पर्शव: पार्श्वास्थीनि । ऋतयोऽङगानि संवत्सरावयवत्वादङगसाधर्म्यात । मासाश्चार्धमासाश्च पर्वाणि संधय: संधिसामान्यात । अहोरात्राणि प्रतिष्ठा: । बहुवचनात्प्राजापत्यदैवपित्र्यमानुषाइ प्रतिष्ठ: पादा: प्रतिइष्ठत्येतैरीति । अहोरात्रैर्हि कालात्मा प्रतितिष्ठत्यश्वस्व पादै: ।
नक्षत्राणस्थीनि शुक्लत्वसामान्यात ॥

भाष्यं :--- नभो नभस्या मेघा अन्तरिक्षस्योदरत्वोक्तेर्मांसान्यु्दकरुधिरसेचनसमान्यात । ऊवध्यमुदरस्थमर्धजीर्णमशनं सिकता विश्लिष्टावयवत्वसामान्यात । सिन्धव: स्यन्दनसामान्यान्नद्यो गुदा नाडयो बहुवचनाच्च । यकृच्च क्लोमानश्च हृदयस्याधस्तादक्षिणोत्तरौस मांसखण्डौ । क्लोमान इति नित्यं बहुवचनमेकस्मिन्नेव । पर्वता: काठिन्यादुच्छितत्वाच्च । ओषधयश्च क्षुद्र: स्थावरा बनस्पतयो महान्तो लोमानि केशाश्च यथासंभवम ॥

भाष्यं :--- उद्यन्नुद्नच्छन्भवति सविताऽऽमध्यान्हादश्वस्य पूर्वार्धो नाभेरूर्ध्वमितर्थ: । निम्लोचन्नस्तं यन्नामध्याहनाज्जघनार्धोऽपरार्ध: पूर्वापरत्वसाधर्म्यात । यद्विजृम्भते गात्राणि विनामयति विक्षिपति तद्विद्योतते विद्योतनं । मुखघनविदारणसामान्यात । यद्विधूनुते गात्राणि कम्पयति तत्स्तनयति गर्जनशब्दसामान्यात । यन्मेहति मूत्रं करोत्यश्वस्तद्वर्षति वर्षणं तत्सेचनसामान्यात । वागेव शब्द एवस्याश्वस्य वागिति नात्र कल्पनेत्यर्थ: ॥१॥

श्रुति :--- अहर्वा अश्वं पुरस्तान्महिमाऽन्वजाय तस्य प ऊर्वे समुद्रे योनी रात्रिएनं पश्चान्महिमाऽन्वजायत तस्याप्रे समुद्रे योनिरेतौ वा अश्वं महिमानावभित: संबभूवतु: । हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वाऽसुरानश्वो मनुष्यान्तस्मुद्र एवास्य बन्धु: समुद्रो योनि: ॥२॥

॥ इति प्रथामाध्यायस्य प्रथमं बाम्हणं समाप्तम ॥१॥
======
भाष्यं :--- अहर्वा इत सौवर्णराजतौ महिमाख्यौ ग्रहावश्वस्याग्रत: पृष्ठतश्च स्थाप्येते अद्विपयमिदं दर्शनम । अह: सौवर्णो ग्रहो दीप्तिसामान्याद्वै । अहरश्वं पुरस्तान्महिमाऽन्वजायतेति कथम । अश्वस्य प्रजापतित्वात । प्रजापतिहर्यादि त्यादिलक्षणोऽहा लक्ष्यते । अश्वं लक्षयित्वाऽजायत सौवर्णो महिमा ग्रहो वृक्षमनु विद्योतते विद्यदिति यद्वत । तस्य ग्रहस्य पूर्वे पूर्व: समुद्रे समुद्रो योनिर्विभक्तिव्यत्यतेन । योनिरिव्यासादनस्थानम ॥

भाष्यं :--- तथा रात्री राजतो ग्रहो वर्णसामान्याज्जघन्यत्वसामान्याद्वा । एनमश्वं पश्चात्पृष्ठतो महिमाऽन्वजायत तस्यापरे समुद्रे योनि: । महिमा महत्त्वाता ॥ अश्वस्य हि विभूतिरेषा यत्सौवर्णो राजतश्च ग्रहावुबयत: स्थाप्येते । तावेतौ वैमहिमानौ महिमाख्यौ ग्रहावश्वमभित: संबभूवतुरुक्तलक्षणावेव संभुतावित्थमसावश्वो महत्त्वयुक्त इति पुनर्वचनं स्तुयर्थम ॥

भाष्यं :--- तथा च हयो भूत्वेत्यादि स्तुत्यर्थमेव । हयो हिनोतेर्गतिकर्मणो विशिष्ट गतिरित्वर्तह: । जातिविशेषो वा । देवानवहद्देवत्वमगमयत्प्रजापतित्वात । देवानां वा वोढाऽभवत । ननु निन्दैव वाहनत्वम । नैष दोष: । वाहनत्वं स्वाभाविकमश्वस्थ स्वाभाविकत्वादुच्छ्रयप्राप्तिर्देवादिसंबन्धोऽश्वस्त्येति स्तुतिरेवैषा ॥


भाष्यं :--- तथा वाज्यादयो जातिविशेषा:  वाजी भूत्वा गन्धर्वानवहदित्यनुषङग: । तथाऽर्वा भुत्वाऽसुरान । अश्वो भूत्वा मनुष्यान । समुद्र एवेति परमात्मा बन्धुर्बन्धनं बध्यतेऽस्मिन्निति । समुद्रो योनि: कारणमुत्पत्तिं प्रति । एवमसौ शुद्धयोनि: शुद्धस्थितिरिति स्तूयते । “अप्सु योनिर्वा अश्व:” इति श्रुते: ।  प्रसिद्ध एव वा समुद्रो योनि: ॥२॥

॥ इति प्रथमाध्यायस्य प्रथमं ब्राम्हणम ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP