विशेषोक्ति अलंकारः - लक्षण १
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथ विशेषोक्ति:-
प्रसिद्धकारणकलापसामानाधिकरण्येन वर्ण्यमाना कार्यानुत्पत्ति-विशेषोक्ति: ॥
तत्र सत्यपि कारणसमवधाने कार्यस्यानुत्पत्तौ विरोध: प्रतिभासमान: प्रसिद्धेतरकारणवैकल्यधिया निवर्तते । यथा-
‘ उपनिषद: परिपीता गीतापि च हन्त मतिपथं नीता । तदपि न हा विधुवदना मानससदनाद्वहिर्याति ॥ ’
यथा वा-
‘ प्रतिपलमखिलांल्लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि । हा हतकं चित्तमिदं विरमति नाद्यापि विषयेभ्य: ॥’
अत्रोपनिषदर्थविमर्शे सकललोकानित्यत्वज्ञाने प्रसिद्धविरतिहेतौ सत्यपि विरत्यनुत्पत्तिवर्णनाद्रागाधिक्यरूपं प्रतिबन्धकं प्रतीयते । इयमनुक्तनिमित्ता । विरत्यनुत्पत्तिनिमित्तस्य प्रतिबन्धकस्यानुपात्तत्वात् । अत्रैव ‘ रागान्धं चित्तमिदम् ’ इति निर्माणे उक्तनिमित्ता । केचिदचिन्त्यनिमित्तां तृतीयामामनन्ति । उदाहरन्ति च-
‘ स एकस्त्रीणि जयति जगन्ति कुसुमायुध: । हरतापि तनुं यस्य शंभुना न बलं ह्लतम् ॥ ’
अनुक्तनिमित्तायां निमित्तं निमित्ततावच्छेदकरूपेण चिन्त्यमानं प्रती-यते । इह तु न तथा । किं तु भविष्यति किंचिन्निमित्तमित्याकारेणेत्यनु-क्तनिमित्तातोऽचिन्त्यनिमित्ताया भेद इति ह्येषामाशय: । अन्ये तु-‘ नानुक्तनिमित्तायां चिन्त्यत्वं निमित्तविशेषणम्, भेदान्तरकल्पनागौरवप्रसड्रात् । किं तु चिन्त्यमचिन्त्यं चेति द्विप्रकारकमपि निमित्तं यत्र नोक्तं सानुक्तनिमित्ता । तेनाचिन्त्यनिमित्ता अनुक्तनिमित्तातो न पृथग्भावमर्हति ’इत्याहु: ।
अत्र च कारणसमवधानं कार्यानुत्पत्तेर्बाध्यमि बहव: । वस्तुतस्तु कार्यानुत्पत्तिरेवास्मिन्नलंकारे बाध्या ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP