विरोधमूलालंकाराः - लक्षण ३
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
ननु ‘ हितकृदप्यहितकृत् ’ , ‘ अगोद्धारकोऽपि नागोद्धारक: ’ इत्यादौ
विरोधस्य प्रतिभामात्रम्, श्लेष एव त्वलंकार: । तस्य स्वविषये प्रायश: सर्वालंकारापवादकत्वादिति चेत्, कवि: श्रृणोति । इदं तु बोध्यम्-यत्रापिशब्दादिर्विरोधस्य द्योतकस्तत्र विरोध: शाब्द:, अन्यत्र त्वार्थ इति तावत्प्राचां सिद्धान्त: । तत्र शाब्दत्वं शब्दकरणकप्रतीतिगोचरत्वं विरोधस्य न घटते । ‘ त्रयोऽप्यत्रय: ’ इत्यादौ नियतेषु विशेषणविशेष्यसंसर्गेषु विरोधस्य कुत्राप्यसमावेशात् । न च तदधिकरणावृत्तित्वमिव तप्रति-योगिकत्वमपि विरोध; । तथा च प्रकृते नञर्थोत्तरपदार्थयो: प्रतियोगित्वस्य
संसर्गत्वात्संसर्ग एव विरोधस्य समावेश इति वाच्यम् । ‘ सुप्तोऽपि प्रबुद्ध: ’ इत्यादौ तथाप्यसमावेशात् । नहि सुप्त: सुप्तत्वविरुद्धप्रबुद्धत्ववदभिन्न इति शाब्दधीरनुभवसिद्धा, येन लक्षणादिकुसृष्टौ यतेमहि । अत्राहु:-‘ सुप्तोऽपि प्रबुद्ध: ’ , ‘ त्रयोऽप्यत्रय: ’ इत्यादिषु विरोधोदाहरणेषु शब्दद्वयेन शयितत्व-जागरितत्वादिधर्मद्वयस्यादाबुपस्थितौ संबन्धिज्ञानादपिशब्दसाचिव्यात्त-द्नतो विरोधोऽपि स्मर्यते । अनन्तरं च प्रतिबन्धकज्ञानसामग्र्या बलवत्त्वा-द्विरुद्धाविमौ धर्माविति मानसे वैयञ्जनिके वा विरोधबोधे जाते तेन प्रतिरोधाच्छयितजागरितयोरभेदबुद्धेरनुत्पादाहिउतीयशक्त्या प्रादुर्भावितं
द्वितीयार्थमादायान्वयबोध: , न तु विरुद्धार्थम् । विरोधधीश्च शिथिलमूला निवर्तमानापि कविसंरम्भगोचरतया चमत्कारकारणमिति प्राचां निष्कर्ष: ।
नव्यास्तु-‘ अर्थद्वयप्रादुर्भावं विना विरोधाभास एव न संभवति । तत्रैको विरोधस्योल्लासक: द्वितीयश्चान्वयबोधविषय इति तत्सत्यम् । परं तु अन्वयबोधविषये द्वितीयार्थे विरोधोल्लासकोऽप्यर्थो भेदेऽपि श्लेषमित्ति-काभेदाव्यवसाय इत्युक्तदिशा अभिन्नतया भासत । एवं चाविरुद्धं द्वितीया र्थमादायान्वयबोधे सत्यपि स्वास्पदीभूतस्य विरुद्धार्थस्य नि:शेषतया निवृत्तेरभावादर्धमृत: श्वसन्निव विरोधोऽपि मानसं बोधान्तरमारोहति । अत एव चमत्कारीत्युच्यते । नहि नि:शेषतया निवृत्तश्चमत्कारं जनयितुमीष्टे । न चान्तरेण चमत्कारजनकतामलंकारो भवति । तस्माद्विरोधधियो नातीव शिथिलमूलत्वम् , नापि चात्यन्तिकी निवृत्ति: ’ त्याहु: ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP