अक्षेप अलंकारः - लक्षण ५
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अत्र येषामुपमानकैमर्थ्यमाक्षेपस्तेषां त्वयि सति किं कलाधरेणेत्यंशमा-दाय, येषां च निषेधमात्रमाक्षेपस्तेषां वृद्धस्य ब्रह्मणो वैदुष्यं नास्तीत्यंशमा-दाय च ध्वनि: । ननु किं वाच्यं तस्य वैदुष्यमिति वैदुष्योक्ते: सबाधाया झटिति वैदुष्याभावे पर्यवसानात्, उपमानकैमर्थ्यस्यापि झगित्येव प्रतीतेर्वाच्यकल्पत्वात्कथं नाम ध्वनित्वं स्यादिति ? । नैष दोष: । ब्रह्मणो हि त्वां सिसृक्षत: करणपातवसंपत्त्यर्थमादौ पाण्डुलेखवदिन्दुं निर्मितवत: किं वैदुष्यं वाच्यमिति वैदुष्योक्तेर्निर्बाधत्वादादौ सत्यां विश्रान्तौ पश्चादवश्यं पुराणस्येत्येतदर्थपर्यालोचनेन वैदुश्याभाव-चन्द्रकैमर्थयो: पर्यवसान-मिति न ध्वनित्वस्खलनम् । येषां त्वाभासरूप एव निषेध आक्षेपस्तेषां न प्रागुक्त आक्षेपध्वनि:, अपि त्वयम्-
‘ त्वां गीर्वाणगुरुं सर्वे वदन्तु कवयस्तु ते । समानकक्षस्तेनासीत्येषोऽर्थस्तु मतो मम । ’
अत्र कवेर्वाक्ये बाधितत्वादाभासरूपो नाहं कविरिति निषेधो गम्यमानो
मिथ्यावादित्वाभावरूपेण पर्यवस्यन्नुत्तरार्धार्थस्य सत्यतारूपं विशेषं गमयति । इत्थं स्वस्वाभिमानभेदादाक्षेपाणां भेदात्तदूध्वनीनां स्थिते विवेके-
‘ स वक्तुमखिलाञ्शक्तो हयग्रीवाश्रितान्गुणाण् । योऽम्बुकुम्भै: परिच्छेदं ज्ञातुं शक्तो महोदधे: ॥ ’
इति पद्यं ध्वनिकारैराक्षेपध्वनित्वेनोदाह्ल तं ‘ स्वाभिमताक्षेपानभिव्यक्तेर-नुदाहरणमेवैतत् ’
N/A
References : N/A
Last Updated : January 17, 2018
TOP