अप्रस्तुतप्रशंसालंकारः - लक्षण ६

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अत्र क्षीणराजादितदेकावलम्बपुरुषादिवृत्तान्ते प्रस्तुतेऽप्रस्तुतप्रशंसैवेति निर्विवादम्‍ । यदा तु सरोवृत्तान्तो राजववृत्तान्तश्चेत्युभयं प्रस्तुतं तदापि प्रागुक्तदिशा सैव । यदा तु सरोवृत्तान्त एव प्रस्तुतस्तदा गुणीभूतराज-वृत्तान्तरूपव्यड्रयेऽस्मिन्पद्ये कोऽलंकार: ? । न तावदियम्‍ । प्रस्तुतस्यैव प्रशंसनात्‍ । नापि समासोक्ति: । तज्जीवातोर्विशेषणसाम्यस्य सकलालं-कारिकसंमतस्यात्राभावात्‍ । न च विशेषणसाम्यप्रकार इव शुद्धसादृश्य मूलोऽपि तस्या एव प्रकारो वाच्य: । एकधर्मालीढत्वमन्तरेणैकालंकारत्वे
सर्वेषामेकालंकारत्वापत्ते: । व्यवस्थापकैस्तद्भैदताया अनुक्तेश्च । अत एवालंकारसर्वस्वकारादिभिर्विशेषणवाचिशब्दसाम्यं संरक्ष्यैब समासान्त-राश्रयेण सादृश्यमूलत्वं प्रदर्शितम्‍, न तु तदुपेक्ष्येति चेत्‍ ।
उच्यते-अप्रस्तुतप्रशंसैवात्रालंकार: । अप्रस्तुतस्य प्रशंसेति न तदर्थ: । किं त्वप्रस्तुतेनेति । सा चार्थात्प्रस्तुतस्यैव । एवं च वाच्येन व्यक्तेन वा अप्रस्तुतेन वाच्यं व्यक्तं वा प्रस्तुतं यत्र सादृश्याद्यन्यतमप्रकारेण प्रशस्यते साऽप्रस्तुतप्रशंसेति । न तु वाच्येनैव व्यड्रयमेवेति । स्यादेतत्‍ । ‘ कमलम-नम्भसि कमले च कुवलये तानि कनकलतिकायाम्‍ ’ इत्यादाविवात्रापि
निगीर्याध्यवसानेनैवोपपत्ति: शक्त्या कर्तुम्‍ । तच्च पदार्थेन पदार्थस्य, वाक्यार्थेन वाक्यार्थस्य वा इत्यन्यदेतत्‍ । अन्वयानुपपत्तिरपि लक्षणाबी-जम्‍ । एवं चातिशयोक्त्यैवोपपत्तौ किं सादृश्यमूलाप्रस्तुतप्रशंसयेति । ननु निगीर्याध्यवसानं हि न तावदत्र संभवति । तत्र हि वाच्यतावच्छेदकरू-पेण लक्ष्यस्य प्रतीति:, इह तु वाच्यताटस्थ्येनार्थान्तरस्येति विशेषात्‍ । यत्र तु श्लेषादिना विशेषणसाम्यं तत्र तन्माहात्म्यादस्तु नामाभेदाध्यवसाय इति चेत्‍, इहापि वाच्यव्यवहाराभिन्नतयैव च प्रस्तुतव्यवहारप्रत्यय
इत्यवैलक्षण्यमेवेति । सत्यम्‍ । ‘ यस्मिन्खेलति ’ , ‘ दिगन्ते श्रूयन्ते ’ इत्यादौ वाच्यार्थताटस्थ्येनैव व्यड्रयस्य प्रतीते: सर्वसह्लदयसंमतत्वात्‍ । क्कचित्तु संबोधनस्य तत्तद्विशेषणस्य चानुपपत्त्या अभेदांशोऽप्यपेक्ष्यते, न तावता सर्वत्राभेदेन प्रतीति: । किं चाप्रस्तुतप्रशंसायां प्रस्तुतं व्यड्रयमिति निर्वि-वादम्‍ । निगीर्याध्यवसाने तु लक्ष्यं स्यात्‍ । अपि च यत्र वाच्यस्यात्यन्ता-प्रस्तुतत्वं तत्राभिधाया अपर्यवसानात्स्यादपि कदाचिल्लक्षणाया अवकाश: । यदा तु द्वयोरप्यर्थयो: प्रागुक्तदिशा प्रस्तुतत्वं तदा तु बाधलेशास्फुरणाळू-
लक्षणागन्धो‍‍ऽपि नास्ति । कुत: पुनर्निगरणं लक्षणैकदेश: ? किं त्वागूरण-मेवेति । तत्राप्रस्तुतप्रशंसाया: सादृश्यमूलाया आवश्यकत्वादन्यत्रापि तज्जातीयस्थले सैवोचिता । यदि तु प्रकारस्यास्य ध्वनिप्रभेदत्वात्‍ ध्वने-श्वालंकार्यस्यालंकारत्वानुपपत्तिरिति सूक्ष्ममीक्ष्यते, तदाप्रस्तुतप्रशंसाया भेदान्तरमेव विषय इत्यपि वदन्ति ।

इति रसगंगाधरेऽप्रस्तुतप्रशंसाप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP