संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|परिकर अलंकारः| लक्षण ३ परिकर अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ परिकर अलंकारः - लक्षण ३ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ३ Translation - भाषांतर यत्तु कुवल्यानन्दकर आह-“ श्लेषयमकादिष्वपुष्टार्थदोषाभावेन तत्रैकस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषसद्भावा-त्परिकरत्वोपपत्ति: । यथा- ‘ क्षितिभृतैव सदैवतका वयं वनवतानवता किमहिद्रुहा ’ इति गोवर्धनपर्वतविषयके नन्दादीन्प्रति भगवद्वाक्ये ” इति । तदप्यसत् । यो हीममलंकारं दोषाभावान्त:पातितयालंकारमध्याद्वहिर्भाव-यति, स किं त्वदुक्तश्लेषयमकादिशब्दचित्रातिरिक्तस्थले साभिप्रायवि शे-षणेशु विच्छित्तिविशेषं मन्यते, न वा ? आद्ये दोषाभावमात्रेण विच्छि-त्तिविशेषस्यालंकारप्रयोज्यस्यालंकारमन्तरेणानिष्पत्ते: सिद्धं सर्वत्र परिकर-स्यालंकारत्वम् । द्वितीये अन्यत्रेव यमकादिष्वपि विच्छित्तिविशेषो नास्तीति तेन सुवचत्वात् । तथा हि-‘ अनापदि विना मार्गमनिशायायामनातुर: । मृत्तिकाशौचहीनस्तु नरो भवति किल्बिषी ॥ ’इत्यत्र पर्युदस्तेऽप्यापत्कालादौ यथा केनचिन्मृत्तिकाशौचादि क्तियमाणं न केनापि प्रतिषिध्यते, कर्तु: सामर्थ्यगमकं च भवति, तथा प्रकृतेऽपिदोषनिषेधविधौ पर्युदस्तेऽपि यमकादौ पुष्टतारूपदोषाभाव: कविना संपाद्यमानो न दोषाय भविष्यति, अपि तु रसपोषायैवेति । यदि च यमकेऽनुभवं विच्छित्तिविशेषे प्रमाणं ब्रूषे, ब्रूहि तदान्यत्रापि तमेव प्रमा-णमिति यमकपर्यन्तानुधावनं निरर्थकमेव । तस्मात्पुष्टार्थतारूपेण दोषाभावेन परिकरालंकारस्य विषयविभागो दु:शक इति प्राप्ते ब्रूम: । सुन्दरत्वे सत्यु-पस्कारकत्वमलंकारत्वम् । चमत्कारापकर्षकाभावत्वं च दोषाभावत्वम् । तदेतद्धर्मद्वयं विविक्तविषयं यदि दैवादेकस्मिन्विषयविशेषे समाविशेत्तदा का हानि: स्यात् ? । उपधेयसंकरऽप्युपाध्यसंकरात् । यथा ब्राह्मणस्यमूर्खत्वं दोष: , विद्या तु दोषाभावश्च भवति गुणश्च, तथेहाप्युपपत्ति: । न च दोषाभावतया प्राप्तस्यापि परिकरस्य किमित्यलंकारेषु गणनागौरवमिति वाच्यम् । उभयात्मकत्वेनेतरवैलक्षण्यज्ञापनार्थतया गणनोपपत्ते: । यथा गुणीभूतव्यड्रयभेदतया संगृहीतापि समासोक्तिरलंकारगणनायांपुनर्गण्यते । यथा वा प्रासादवासिषु गणितोऽप्युभयवासी भूवासिगण-नायां पुनर्गण्यते तथेहापीति न कश्चिद्दोष: । अन्यथा प्राचां काव्य-लिड्रमप्यलंकारो न स्यात् । तस्यापि निर्हेतुरूपदोषाभावात्मकत्वात् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP