संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|विनोक्ति अलंकारः| लक्षण १ विनोक्ति अलंकारः लक्षण १ लक्षण २ विनोक्ति अलंकारः - लक्षण १ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १ Translation - भाषांतर अथ विनोक्ति:-विनार्थसंबन्ध एव विनोक्ति: ॥ह्लद्यत्वं चानुवर्तते । तच्च विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वा-भ्यां भवति । अरमणीयत्वे यथा-‘ संपदा संपरिष्वक्तो विद्यया चानवद्यया । नरो न शोभते लोके हरिभक्तिरसं विना ॥ ’यथा वा-‘ वदनं विना सुकवितां सदनं साध्वीं विना वनिताम् । राज्यं च विना धनितां न नितान्तं भवति कमनीयम् ॥ ’रमणीयत्वे यथा-पड्कैर्विना सरो भाति सद: खलजनौर्विना । कटुवर्णैर्विना काव्यं मानसं विषयैर्विना ॥’पूर्वा तु केवला, इयं तु दीपकानुकूला ।मिश्रिता यथा-‘ रागं विना विराजन्ते मुनयो मणयस्तु न । कौटिल्येन विना भाति नरो न कबरीभर: ॥ ’अत्र प्रतिवस्तूपमानुकूला ।‘ त्रासैर्विना विराजन्ते शूरा: सन्मणयो यथा । न दानेन विना भान्ति नृपा लोके द्विपा इव ॥ ’अत्र श्लेषमूलोपमानुकूला ।‘ यथा तालं विना रागो यथा मानं विना नृप: । यथा दानं विना हस्ती तथा ज्ञानं विना यति: ॥ ’पूर्व क्रियागुणादिसंबन्ध आवश्यक: इह तूपमामाहात्मादवगत: स इति न तथा ।इयं च न केवलं विनाशब्दस्य सत्त्व एव भवति, अपि तु विनाशब्दा-र्थवाचकमात्रस्य । तेन नञ्-निर्-वि-अन्तरेण-ऋते-रहित-विकल इत्यादिप्रयोगे इयमेव ।‘ निर्गुण: शोभते नैव विपुलाडम्बरोऽपि ना । आपातरम्यपुष्पश्रीशोभित: शाल्मीलर्यथा ॥ ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP